स होवाच न वा ओ पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति
[देवास्सर्वे भगवदधीना: ]
[भगवत्सन्निधानेनैव सर्वं प्रियं भवति, तत्साक्षात्कार एव मोक्षसाधनम् ]
उपनिषत्
स होवाच न वा ओ पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा ओ जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा ओ पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा ओ वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा ओ पशूनां कामाय पशवः प्रिया भवन्त्यात्मनस्तु कामाय पशवः प्रिया भवन्ति । न वा ओ ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा ओ क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा ओ लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा ओ देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रियाः भवन्ति । न वा ओ वेदानां कामाय वेदाः प्रियाः भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति । न वा ओ भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा ओ सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम् ॥ ६ ॥
[देवास्सर्वे भगवदधीना: ]
ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद क्षत्रं तं परादाद्योऽन्यत्रात्मनो क्षत्रं वेद । लोकास्तं परादुः योऽन्यत्रात्मनो लोकान् । वेद देवास्तं परादुः योऽन्यत्रात्मनो देवान् वेद वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान् वेद भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद इदं ब्रह्म इदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानि इदं सर्वं यदयमात्मा ॥ ७ ॥
[दृष्टान्तत्रयनिरूपणपूर्वकं सृष्टिकर्तृत्वप्रतिपादनम् ]
स यथा शंखस्य ध्मायमानस्य न बाह्याञ्च्छब्दाञ्च्छक्नुयाद् ग्रहणाय शंखस्य तु ग्रहणेन शंखध्मस्य वा शब्दो गृहीतः ॥ ९ ॥
स यथा वीणायै वाद्यमानायै न बाह्याञ्च्छब्दाञ्च्छक्नुयाद् ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ १० ॥
[सर्वशास्त्राणि हयग्रीवादेव निःसृतानि ]
स यथाऽऽर्द्रेन्धाग्नेरभ्याहितात् पृथग्धूमा विनिश्चरन्त्येवं वा ओऽस्य महतो भूतस्य निःश्वसितमेदद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वांगिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि इष्टं हुतमशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निःश्वसितानि ॥ ११ ॥
[सोदाहरणं भगवतः सर्वाश्रयत्वप्रतिपादनम् ]
स यथा सर्वासामपां समुद्र एकायतनमेवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां गन्धानां नासिकैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां संकल्पानां मन एकायनमेवं सर्वासां विद्यानां हृदयमेकायनमेवं सर्वेषां कर्मणां हस्तमेकायनमेवं सर्वेषामानन्दानामुपस्थ एकायनमेवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वेषामध्वानां पादावेकायनमेवं सर्वेषां वेदानां वागेकायनमेवम् । स यथा सैन्धवघनोऽनन्तरो बाह्यः कृत्स्नो रसघन एवैवं वा ओऽयमात्माऽनन्तरो बाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १२ ॥
भाष्यम्
बाह्याभ्यन्तरविशेषाभावेन सर्वत्र लवणरसघन एव । न वा अहमिमं विजानातीति । अहेयमिमं परमात्मानं जीवो न विजानातीति ।
भावबोधटिप्पणी
स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवेत्यत्र न विद्यते अन्तरमन्तस्थं बाह्यं च यस्मात्तदनन्तरमबाह्यमिति सैन्धवघनस्य सूक्ष्मत्वं व्याप्तत्वं चोच्यत इति प्रतीतिनिरासाय तद्विशेषणस्योपयोगं दर्शयंस्तद् वाक्यं व्याचष्टे - बाह्येति । अनेन न विद्यते अन्तस्मिन्बाह्ये च विशेषो यस्य तदनन्तरमत्राह्यमित्यर्थ उक्तो भवति । तच्च विशेषणं हेत्वर्थगर्भमिति भावेन विशेषाभावेनेत्युक्तम् । कृत्स्न इत्यस्यार्थः || सर्वत्रेति ।। रसघन इति कस्य रस इति न प्रतीयते अत उक्तम् ।। लवणेति ॥