अथ वंशः पौतिमाषीपुत्रः कात्यायनीपुत्रात्

ऋषिपरम्परा

उपनिषत्

पञ्चमब्राह्मणम्

अथ वंशः पौतिमाषीपुत्रः कात्यायनीपुत्रात्

कात्यायनीपुत्रो गौतमीपुत्रात्

गौतमीपुत्रो भारद्वाजीपुत्रात्

भारद्वाजीपुत्रः पाराशरीपुत्रात्

पाराशरीपुत्र औपस्वस्तिपुत्रात्

औपस्वस्तिपुत्रः पाराशरीपुत्रात्

पाराशरीपुत्रः कात्यायनीपुत्रात्

कात्यायनीपुत्रः काण्वीपुत्राच्च कापीपुत्राच्च कापीपुत्रः ॥ १ ॥

आत्रेयीपुत्रात् आत्रेयीपुत्रो

गौतमीपुत्रात् गौतमीपुत्रः

भारद्वाजीपुत्राद् भारद्वाजीपुत्रः

पाराशरीपुत्रात् पाराशरीपुत्रः

वात्सीपुत्रात् वात्सीपुत्रः

पाराशरीपुत्रात् पाराशरीपुत्रो बर्कारुणीपुत्रात्

बार्कारुणीपुत्रो आर्तभागीपुत्रात्

आर्तभागीपुत्रः शौंगीपुत्रात् शौंगीपुत्रः

सांकृतीपुत्रात् सांकृतीपुत्र

आलम्बायनीपुत्राद् आलम्बायनीपुत्रः

आलम्बीपुत्राद् आलम्बीपुत्रो

जायन्तीपुत्रात् जायन्तीपुत्रो

मांडूकायनीपुत्रात् माण्डूकायनीपुत्रः

माण्डूकीपुत्रान्माण्डूकीपुत्रः शांडिलीपुत्राच्छांडिलीपुत्रो राथीतरीपुत्राद्

राथीतरीपुत्रो भालुकीपुत्राद् भालुकीपुत्रः

क्रौञ्चिकीपुत्राभ्यां क्रौञ्चिकीपुत्रौ

वेदभृतीपुत्रात् वेदभृतीपुत्रः

कार्शिकेयीपुत्रात् कार्शिकेयीपुत्रः

प्राचीनयोगीपुत्रात् प्राचीनयोगीपुत्रः

सांजीवीपुत्रात् सांजीवीपुत्रः

प्राश्नीपुत्रात् आसुरिवासिनः प्राश्नीपुत्रा

आसुरायणाद् असुरायणः

आसुरेरासुरिः ॥ २ ॥

याज्ञवल्क्याद् याज्ञवल्क्यः

उद्दालकाद् उद्दालकः

अरुणात् अरुणः

उपवेशेः उपवेशिः

कुश्रेः कुश्रिः

वाजस्रवसो वाजश्रवा

जिह्वावतो बाध्योगात् जिह्वावान् बाध्योगो

असितात् वार्षगणाद् असितो वार्षगणः

हरितात् कश्यापात् हरितः कश्यपः

शिल्पात् कश्यपात् शिल्पः कश्यपः

कश्यपात् नैध्रुवेः कश्यपो नैध्रुविः

वाचो वागम्भ्रिण्या अम्भ्रिण्यादादित्यादादित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते ॥ ३ ॥

समानमा सांजीवीपुत्रात्

सांजीवीपुत्रो माण्डूकायनेः

माण्डूकायनिः मांडव्यात्

मांडव्यः कौत्सात्

कौत्सो माहिक्लेः

माहिक्लिः वामकक्षायणात्

वामकक्षायणः शाण्डिल्यात्

शाण्डिल्यो वात्स्यात्

वात्स्यः कुश्रेः

कुश्रिर्यज्ञवर्चसो

राजस्तम्बायनात् यज्ञवर्चा राजस्तम्बायनः

तुरात् कावषेयात् तुरः कावषेयः

प्रजापतेः प्रजापतिः ब्रह्मणो

ब्रह्म स्वयम्भुब्रह्मणे नमः ॥ ४ ॥

इति पञ्चमं ब्राह्मणम्

इति बृहदारण्यके अष्टमोऽध्यायः

इति बृहदारण्यकोपनिषत्

भावबोधटिप्पणी

अध्यायद्वयोक्तविद्याप्रवर्तकऋषिपरम्परामाह - अथ वंश इति ।। आदित्यानि आदित्येन प्रोक्तानि इमानि शुक्लानि शुद्धानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते प्रकटीक्रियन्त इत्यर्थः । प्रजापतिर्ब्रह्मा ब्रह्मणः परब्रह्मणः श्रुतवानित्यर्थः । परब्रह्म कस्माच्छुतमित्यत आह- ब्रह्म स्वयम्भ्विति || यद्वा प्रजापतिः रुद्रो ब्रह्मणः को वा ब्रह्मशब्दवाच्य इत्यत आह- ब्रह्म स्वयम्भ्विति ॥ स्वस्मादेव स्वयं भवतीति स्वयम्भु अवतारत्रयविशिष्टो मुख्यो वायुर्ब्रह्मेत्यर्थः । यद्वक्ष्यति स्वयम्भु ब्रह्मसञ्ज्ञोऽसाविति । वेदपुरुषोऽपि अन्ते मङ्गलमाचरति-- ब्रह्मणे नम इति । परस्मै ब्रह्मणे नम इत्यर्थः ॥

Load More