त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा

[ दमं दानं दयां चेति त्रयं शिक्षेत्]

उपनिषत् 

त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं, देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्ठा३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ १ ॥

अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ २ ॥

अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ ३ ॥

इति द्वितीयं ब्राह्मणम्

भाष्यम्

ज्ञानदानं तु देवानां फलदानं च कर्मणाम् ।

विष्णुना विहितं पूर्वं पुनर्देवनरासुराः ॥

ब्रह्माणमपि पप्रच्छुर्देवानां सद्गुणोच्छ्रितेः ।

अनहङ्कारमात्रं तु ब्रह्मणा विहितं सदा ।

सर्वोच्चमोक्षसम्प्राप्त्यै नराणां ज्ञानसाधनम् ॥

देवादीनां दानमेव हविरादेः प्रकीर्तितम् ।

तमःप्राप्तिविलम्बाय दैत्यानां विहिता दया ॥ इति प्रवृत्ते ॥

इति द्वितीयं ब्राह्मणम्

भावबोधटिप्पणी

सर्वप्राणिसाधारणानुष्ठेयमाह - त्रया इति || देवादीन् सृजता भगवता तत्तत् कर्तव्यस्योपदिष्टत्वात्पुनः कस्माद्ब्रह्माणं पप्रच्छुरित्यत आह- ज्ञानदानमिति ॥ उपलक्षणमेतत् देवानां दया दमश्च मनुष्याणामसुराणां च दानादित्रयमपि विहितमिति ग्राह्यम्। विशेषं बुभुत्सव इति शेषः । यद्वा अत्र देवानां दमस्य मनुष्याणां दानस्य असुराणां दयाया विहितत्वेन देवानां दानं नास्तीति प्रतीयते तदनुपपन्नम् । ज्ञानदानमेव देवानां विहितं इत्यादि श्रुत्या देवानां ज्ञानदानस्य मनुष्यकृतकर्मफलदानस्य च प्रमितत्वादित्यत आह- ज्ञानदानं त्विति । विष्णुनैव तस्य विहितत्वान्न तद्ब्रह्मणा विहितमिति भावः । देवा ऊचुः ब्रवीतु नो भवानिति । अथ हैनं मनुष्या ऊचुः अथ हैनमसुरा ऊचुरिति वाक्यत्रयं व्याचष्टे - पुनरिति ।। तेभ्यो हैतदक्षरमुवाच द इतीति देवानां दमो विहितः । तत्र दमो नाम नेन्द्रियनिग्रहः अपरोक्षज्ञानिनां तेषां स्वत एव निगृहीतेन्द्रियत्वादत आह- देवानामिति ।। देवानामनहङ्कारमात्रं विहितमित्यन्वयः । ऐश्वर्यादिना अहङ्कारो न कर्तव्य इति विहितमित्यर्थः । मात्रपदं दानव्यवच्छेदार्थः । तत्किमर्थमित्यत आह- सद्गुणोच्छ्रितेरिति । ज्ञानभक्त्यादिगुणवृद्ध्यर्थमित्यर्थः । ननूत्पन्नापरोक्षज्ञानानां तेषां मोक्षस्य निश्चितत्वात्किं सद्गुणवृद्ध्येत्यत आह- सर्वोच्चेति || ज्ञानमात्रेण संसारनिवृत्तिरूपमोक्षस्य सिद्धत्वेऽपि आनन्दातिशयविशिष्टो मोक्षो न सिद्ध्यतीति तदर्थं साऽपेक्षितेति भावः । तेभ्यो हैतदेबाक्षरमुवाच द इत्यादिना मनुष्याणां दानं विहितं तत्कस्य दानं कस्मै च दातव्यं किमर्थं चेत्यत आह- नराणामिति | देवादीनां हविरादेर्दानमेव नराणां ज्ञानसाधनं प्रकीर्तितमित्यन्वयः । ननु देवानां दमवत् मनुष्याणां दानमपि सद्गुणवृद्धिद्वारा सर्वोच्चमोक्षकारणं किन्नेत्यतो वाऽहनराणामिति ।। ज्ञानसाधनमेवेत्यन्वयः । अनुत्पन्नापरोक्षज्ञानत्वात्तेषामिति भावः ।असुराणां दयोपदेशे निमित्तमाह- तम इति ॥ तद्विलम्बे च साधनानुष्ठानाधिक्ये दुःखाधिक्यसिद्धिरिति भावः ।।

खण्डार्थः

त्रयस्त्रिविधाः प्रजापतेर्ब्रह्मणोऽपत्यानि प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यं ब्रह्मचाखितं कृत्वोषुः । के ते त्रय इत्यत आह- देवा इति ।। तत्र देवा ब्रह्मचर्यमुषित्वा भवान्नोऽस्माकं ब्रवीत्वित्यूचुः। एवं पृष्टो ब्रह्मा तेभ्यो देवेभ्य एतद्वक्ष्यमाणमक्षरमुवाच ह । किं तदक्षरमित्यत आह- द इतीति । द इत्येकमक्षरमुपदिश्यत तदभिप्रायो ज्ञातः किमिति पृच्छतिव्यज्ञासिष्ठा इति । एवं पृष्टा देवा व्यज्ञासिष्मैति होचुः । तर्ह्यनुवदतेत्यत आह- दाम्यतेति न आत्थेति । एवमभिप्रायोद्घाटने ब्रह्मा भवत्ययं ममाभिप्राय इत्याह- ओमिति होवाचेति ॥ १ ॥एवमुत्तरत्रापि ।। २ ।।

यदेतद्ब्रह्मणोपदिष्टं तदेतदेव एषा दैवी वागप्यनुवदति का सेत्यत आह- स्तनयित्नुरिति || अनुवादप्रकारं दर्शयति- ददद इतीति ।। त्रिवारमुक्तस्या- भिप्रायमाहदाम्यतेति ।। तत्तस्माद् ब्रह्मणोपदिष्टत्वात् अद्यतनोऽपि एतत्त्रयं शिक्षेत् । किं तत्त्रयम् ॥ दमं दानं दयामिति ॥ शिक्षेदिति प्रत्येकं सम्बन्धः ।। इति द्वितीयं ब्राह्मणम् ।। ७.२ ।।