ब्रह्मणस्तद्गुणानां च भेददर्श्यधरं तमः
[ भगवतः तद्गुणानाञ्च भेदज्ञाने अनर्थोक्तिः ]
भाष्यम्
ब्रह्मणस्तद्गुणानां च भेददर्श्यधरं तमः ।
भेदाभेदप्रदर्शी च मध्यमं तु तमो विशेत् ॥
ईषद्भेदप्रदर्शी च तम एवोत्तरं व्रजेत ।
विजानीयात्ततो ब्रह्म सदा सर्वगुणात्मकम् ॥
गुणानां च विशेषोऽस्ति न विभेदः कथञ्चन ।
ते च सर्वे गुणाः पूर्णास्तच्छरीरः परः स्मृतः ॥
आनन्दज्ञानशक्त्यादिदेहं विष्णुं तु ये जनाः ।
अदेहं भूतदेहं वा विदुस्ते चाधरं तमः ॥
तथा प्रकृतिदेहज्ञाः कर्मदेहविदोऽपि वा ।
तस्मादानन्दचिद्देहं चिदानन्दशिरोमुखम् ॥
चिदानन्दभुजं ज्ञानसुखैकपदसाङ्गुलिम् ।
आकेशादानखाग्रेभ्यः पूर्णचित्सुखशक्तिकम् ॥
प्रत्येकं तु गुणांस्तांस्तु सदा सर्वगुणात्मकान् ।
ज्ञात्वा विमुच्यते विष्णोः प्रसादान्मानुषोऽपि सन् ॥
भावबोधटिप्पणी
ऐक्यज्ञानिनामनर्थोक्तेर्विष्णुसर्वोत्तमत्वादिज्ञानिनां मोक्षोक्तेश्च नैक्यं श्रुत्यर्थ इति भावेन पैङ्गिश्रुतिं पठति - ब्रह्मण इत्यादिना || 'महातमस्त्रिधा प्रोक्तम् ऊर्ध्वं मध्यं तथाऽधरम्' इत्युक्तेरिति भावः । तुशब्द एवार्थे । ईषद्भेदप्रदर्शी ब्रह्मगुणाद्विविधाः स्वरूपभूता भिन्नाश्चेति प्रदर्शीत्यर्थः । तर्हि कथं ज्ञेयमित्यत आह - विजानीयादिति । ततोऽन्यथाज्ञानेऽनर्थसद्भावात् । ननु गुणात्मकत्वे ब्रह्मणः ‘आनन्दं ब्रह्मणः’ इत्यादिव्यवहारो गुणगुणिभावश्च कथमित्यत आह— गुणानामिति ॥ तच्छरीरो गुणात्मकशरीरः । भूतदेहं भौतिकदेहम् | अधरं तमो ‘विशेयुः’इति शेषः । तथा अधरं तमो विशेयुरित्यर्थः । प्रकृतिदेहज्ञाः प्राकृतदेहज्ञाः कर्मनिर्मितदेहविदः । आनन्दचिद्देहमित्युक्तमेव विशदयति- चिदानन्देति ॥ गुणानामपि परस्परभेदं निवारयति - प्रत्येकमिति । सन् उत्तमः ॥