शून्यता क्षणिकत्वं च ज्ञानमात्रत्वमेव च

[ बौद्धादीनां प्रत्यक्षागमविरोध: ]  

भाष्यम्

शून्यता क्षणिकत्वं च ज्ञानमात्रत्वमेव च ।

भावाभावात्मता साकं शरीरात्मत्वमेव च ॥

प्रत्यक्षेण विरुध्यन्ते मद्देह इति दर्शनात् ।

भावरूपस्थिरत्वादेः ज्ञानाद् भेदस्य दर्शनात् ।

देहभेदो मुख्य देहैक्ये मुख्यता कुतः ॥

जातिस्मृतिप्रमाणाच्च न युक्ता देहरूपता ।

अनुष्ठाय च शास्त्रार्थं फलभोगस्य दर्शनात् ॥

भावबोधटिप्पणी

प्रत्यक्षविरोधं तावदुपपादयति- शून्यतेति || असत्वमित्यर्थः । जगत इति शेषः । साकं भावाभावात्मतेति स्याद्वादिमतम् । भावात्मतासत्वमभावात्म- ताऽसत्वम् । भावाभावात्मता सदसत्वमित्यर्थः । उपलक्षणमेतत् । सदसद्वैलक्षण्यं सत्वे सति सद्वैलक्षण्यम् असत्वे सत्यसद्वैलक्षण्यं सदसत्वे सति सदसद्वैलक्षण्यमित्यपि ग्राह्यम्। साकं युगपदित्यर्थः । सदसद्वैलक्षण्यादिपक्षचतुष्टयेनसाकं भावाभावात्मतेति वा । शरीरात्मत्वमेवेति चार्वाकमतम् । भेदाभेदनिवृत्त्यर्थमेवकारः । शरीरात्मत्वविरोधिप्रत्यक्षमाह - मद्देह इति ।। शून्यताक्षणिकत्वभावाभावात्मताविरोधिप्रत्यक्षमाह- भावरूपेति ॥ भावरूपं सत्वम् । आदिपदेन केषाञ्चित् सत्वस्यैव केषाञ्चिदसत्वस्य केषाञ्चिद्देशकालादिभेदेन सदसत्वस्य ग्रहणम्। ज्ञानमात्रत्वविरोधिप्रत्यक्षमाह - ज्ञानाद् भेदस्येति || घटादेरिति शेषः । घटं जानामीति ज्ञानाद्भेदेनार्थस्य दर्शनादित्यर्थः । ज्ञानार्थयोः क्षणिकत्वस्थायित्वोपलम्भादिति वाऽर्थः । यदुक्तं शरीरात्मत्वं मद्देह इति प्रत्यक्षविरुद्धमिति तदसत् । भेदप्रतीत्यसम्प्रतिपत्तेः । 'मम देह' इति व्यवहारस्य ' मम स्वरूपम्' इतिवदौपचारिकत्वोपपत्तेरित्याशङ्कयाऽहदेहेति ।। देहभेदो देहात्मभेदव्यवहारः । स्यादेव देहात्मभेदव्यवहारस्यामुख्यत्वम् । यदि देहात्मैक्ये किञ्चित्प्रमाणं स्यात् । नच तदस्ति । कस्यापि देहोऽहमिति प्रतीत्यभावात् । देहात्मत्वप्रतीत्यभावेऽपि देहधर्माणां कार्य्यादीनाम् आत्मनिष्ठत्वप्रतीतिस्तावदस्त्येव । कृष्णोऽहमिति व्यवहारदर्शनाद् इति चेन्न । कर्दमलिप्ते वस्त्रे कृष्णं वस्त्रमित्यादिव्यवहारवत्तस्यौपचारिकत्वोपपत्तौ देहात्मैक्यव्यवहारे मुख्यत्वाभावादिति भावः । ननु देहात्मभेदव्यवहारस्य मुख्यत्वमभ्युपेत्य तदभेदव्यवहारस्यामुख्यत्वं वा कल्प्यम् । अथ देहात्मैक्यव्यवहारस्य मुख्यत्वमभ्युपेत्य तद्भेदव्यवहारस्यामुख्यत्वं वा । विशेषप्रमाणाभावादिति चेन्न । मद्देह इति दर्शनादिति देहात्मभेदे प्रत्यक्षस्योक्तत्वात् । प्रमाणान्तरं चाऽहजातिस्मृतीति | आत्मनो देहरूपत्वे साधनविशेषा- त्पूर्वजातिस्मृतिर्न स्यात् । पूर्वदेहहानौ तदात्मनो नष्टत्वात् । अस्य ततोऽन्यत्वात्। नह्येकस्यानुभवोऽपरस्य स्मृतिरिति युज्यत इति भावः । विप्रतिपन्ना जातिस्मृतिः स्वजनकानुभवसमानाधिकरणा स्मृतित्वात्सम्प्रतिपन्न- स्मृतिवद् इति प्रयोगोऽभिहितः । आत्मनो देहरूपत्वाभावे प्रमाणान्तरमाहअनुष्ठायेति || भोगोपक्षयानुष्ठानस्य समानकर्तृत्वं 'स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् । सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम्' इत्यादिशास्त्रार्थं

देवतार्चनादिकमेकस्मिन् जन्मन्यनुष्ठाय जन्मान्तरे स्वर्गसम्पदादिफलभोगस्य प्रमाणेन दर्शनात्र युक्ता देहरूपता । नह्येकस्य सम्पूर्ण साधनानुष्ठानमन्यस्य फलभोगः । कृतविप्रणाशाकृताभ्यागमप्रसङ्गादिति भावः । अत्रापि विप्रतिपन्नः फलभोगः साधनानुष्ठातृनिष्ठः फलभोगत्वात् सम्प्रतिपन्नफलभोगवदिति प्रयोगोऽभिमतः । तथाच देहात्मभेदसाधकैतत्प्रमाणानुरोधेन देहात्मैक्यव्यवहार एवौपचारिकोऽभ्युपगन्तव्य इति तात्पर्यम् । एतेन देहात्मभेदमङ्गीकुर्वाणा अपि तत्तद्देहनाशे तत्तद्देहपरिमाणकस्याऽत्मनोऽपि नाशावश्यम्भावात् पूर्वोत्तर- देहगतात्मनोः भेदमङ्गीकुर्वन्तोऽपि परास्ताः । उक्तप्रमाणद्वयेन पूर्वोत्तरदेहानुस्यूतस्यै- कस्यैवाऽत्मनः सिद्धेरिति । यद्वा तत्पक्षः प्रत्यक्षादिविरोधक इत्युक्तम् । तत्र शून्यतेत्यादिना प्रत्यक्षविरोधमुपपाद्येदानीमुपलक्षणत्वेन शरीरात्मत्वस्यानु- मानविरुद्धत्वमाहजातिस्मृतीति ।। चशब्दः प्रत्यक्षसमुच्चायकः । अनुमानप्रामाण्यं तेनाङ्गीकारयित्वा इदमुपन्यस्तमिति न कश्चिद्दोषः । एवं 'सन् घटस्तदेवेदम्' इति प्रत्यक्षस्यापि बाधकाभावेन भ्रान्तत्वमुपपादनीयम् । एवं तत्पक्षेऽनुमान- विरोधोऽप्युपादनीयः ॥

Load More