अथ हैनं गार्गी वाचक्नवी प्रपच्छ याज्ञवल्क्येति होवाच
अथ गार्गिब्राह्मणम् [मुक्ततारतम्यप्रतिपादनम् ]
उपनिषत्
अथ हैनं गार्गी वाचक्नवी प्रपच्छ याज्ञवल्क्येति होवाच । यदिदं सर्वमप्स्वोतं च प्रोतं चेति कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति वायौ गार्गीति, कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति गन्धर्वलोकेषु गार्गीति कस्मिन्नुखलु गन्धर्वलोका ओताश्च प्रोताश्चेति अन्तरिक्षलोकेषु गार्गीति, कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेत्यादित्यलोकेषु गार्गीति कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति चंद्रलोकेषु गार्गीति, कस्मिन्नु खलु चंद्रलोका ओताश्च प्रोताश्चेति नक्षत्रलोकेषु गार्गीति, कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति देवलोकेषु गार्गीति, कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति इंद्रलोकेषु गार्गीति, कस्मिन्नु खलु इंद्रलोकाः ओताश्च प्रोताश्चेति प्रजापतिलोकेषु गार्गीति, कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेषु गार्गीति कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति स होवाच गार्गि माऽतिप्राक्षीर्मा ते मूर्धा व्यपतदनतिप्रश्न्यां वै देवतामतिपृच्छसि गार्गि माऽतिप्राक्षीरिति ततो ह गार्गी वाचक्नव्युपरराम ॥ १ ॥
॥ इति गार्गिब्राह्मणम् ॥ ६ ॥
भाष्यम्
मुक्तानां तारतम्यं गार्गिब्राह्मणेनोच्यते । लोक इति मुक्तानामानन्दानुभवाः स्वरूपभूताः । अप्सु वायाविति स्वरूपस्यैव प्रस्तुतत्वात्। अनतिप्रश्नां वै देवतामतिपृच्छसीति देवतास्वरूपप्रश्नस्यैवाव- गम्यमानत्वाच्च । नचोपरितनलोकेषु अधस्तनलोकाः आश्रिताः । नच वायुर्गन्धर्वलोकाश्रितः । वाय्वाश्रयत्वश्रुतेः सर्वलोकानाम् । 'वायुना हि सर्वे लोका नेनीयन्ते' इत्यादिना ।
भावबोधटिप्पणी
यस्सर्वान्तर इत्युक्तं किं तत्सर्वमित्याकाङ्क्षायामनात्मभूतान् सर्वपदार्थांस्तावत् गार्गिब्राह्मणेनाहेति परकीयब्राह्मणप्रतिपाद्यवर्णनमसदिति भावेनैतद्ब्राह्मणप्रतिपाद्य- माह- मुक्तानामिति ।। नन्वन्तरिक्षलोकेषु गार्गीत्यादौ लोकशब्दप्रयोगादनात्म- पदार्थप्रतिपादनमेवात्र क्रियत इति ज्ञायते नतु मुक्तानां तारतम्यमुच्यत इति तत्राह - लोका इति । उच्यन्त इति शेषः । ननु मुक्तानामन्तः करणा-भावात्कथमानन्दानुभव इत्यत उक्तम्- स्वरूपभूता इति ॥ कुत इत्यत आह-- अप्स्विति ।। अप्सु वायाविति अप्वायुशब्दवाच्यचक्रवर्त्यादिस्वरूपस्यैव प्रस्तुतत्वेनान्तरिक्षलोकेष्वित्यादावपि लोकशब्देनान्तरिक्षादिशब्दवाच्यदेवता- स्वरूपभूत एवानन्दानुभवो ग्राह्यः । अन्यथा प्रक्रमविरोधादिति भावः । न केवलमुपक्रमवशाल्लोकशब्दस्य स्वरूपभूतानन्दानुभवपरत्वं किन्तूपसंहार- वशाच्चेत्याह– अनतीति ॥ कस्मिन् खलु ब्रह्मलोका ओताच प्रता प्रश्नस्तावद्देवतास्वरूपविषयक एवावगम्यते । अनतिप्रश्यां देवतामति पृच्छसीति ब्रह्मलोकपदोक्तार्थे देवताशब्दप्रयोगात् । ततश्च ब्रह्मपदेनैव देवतास्वरूपस्योक्तेः ब्रह्मलोकपदस्य ब्रह्मस्वरूपभूतानन्दानुभवपरत्वे अवश्यं वक्तव्ये इतरत्रापि लोकशब्दस्य तत्परत्वमेवाङ्गीकार्यमित्यर्थः । लोकशब्दस्योक्तार्थत्वमनङ्गीकृत्य प्रसिद्धार्थत्वाङ्गीकारे बाधकमाह - नचेति । यदि लोकशब्दस्य प्रसिद्धलोकार्थत्वं स्यात्तर्हि आदित्यादिलोकानां चन्द्रादिलोकाश्रितत्वोक्तिरयुक्ता स्यात् । चन्द्रादिलोकानामुपरितनत्वात् । आदित्यादिलोकानां चाधस्तनत्वात् । नचोपरितनलोकेष्वधस्तनलोका आश्रिता इत्यर्थः । किञ्चैवं कस्मिन् खलु वायुरोतश्च प्रोतश्चेति गन्धर्वलोकेषु गार्गीति वायोर्गन्धर्वलोकाश्रितत्वमुच्यते तदप्ययुक्तं स्यादित्यत आह- नच वायुरिति ॥ कुतो नेत्यत आह- वाय्वाश्रयत्वेति । श्रुतेः श्रवणात् । नेनीयन्ते पुनः पुनः भृशं वा धार्यन्ते ।