आत्मानं चेद् विजानीयादयमस्मीति पूरुषः
[ जीवस्य ब्रह्माभेदे दु:खं कुत: ? ]
उपनिषत्
आत्मानं चेद् विजानीयादयमस्मीति पूरुषः ।
किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥ १२ ॥
भाष्यम्
यदि जीवः परात्मानमयमस्मीति वेदितुम् ।
योग्यः शरीरच्छेदादेः कथं दुःखी तदा भवेत् ॥
दुःखी शरीरसम्बन्धाज्जीवो विष्णोः प्रसादतः ।
अदुःखी विप्लुडानन्दं मुक्त एव च भोक्ष्यति ।
नित्यमुक्तः पूर्णसुखः स्वतन्त्रः पुरुषोत्तमः ।
परतन्त्रः कथं जीवो योग्यः सोऽस्मीति वेदितुम् ।
तस्मात् सोऽस्मीति नैवायं विजानीयात् कदाचन ।
तदीयोऽस्मीति जानीयात् सर्वदैव बुधस्ततः ॥ इति च ॥
भावबोधटिप्पणी
आत्मानं चेद् विजानीयादिति मन्त्रं व्याचष्टे - यदीति || आत्मानमित्यस्यार्थः परमात्मानमिति । विजानीयादित्यस्यार्थो वेदितुं योग्यो भवेदिति । पुरुष इत्यस्य जीव इति शरीरमनुसंज्वरेदित्यस्यार्थः शरीरच्छेदादेर्दुःखी भवेदिति । किमिच्छन् कस्य कामायेत्यस्य तात्पर्यं कथमिति । यदि जीवस्तथा वेदितुं योग्यस्तदा दुःखी न स्यादित्युक्ततर्कस्य विपर्यये पर्यवसानमाह - दुःखीति ॥ ननु जीवस्य स्वतो दुःखशून्यत्वादिष्टापत्तिः विपर्ययपर्यवसाने च बाध इत्यत उक्तम् शरीरसम्बन्धादिति । ननु संसारिणो जीवस्य दुःखित्वेन परमात्माहमस्मीति ज्ञातुमयोग्यत्वेऽपि मुक्तस्य तद्योग्यता स्यादेव तस्य परमात्मवददुःखित्वादानन्दभोक्तृत्वाचेत्यत आह- विष्णोरिति ॥ प्रसादत एवेति विप्लुडानन्दमेवेति च एवशब्दसम्बन्धः । ननु यदि परमात्माऽपि एवंविधस्तदा कथं मुक्तस्सोऽस्मीति वेदितुमयोग्यस्स्यादित्यत आह- नित्यमुक्त इति ।। विष्णोः प्रसादतोऽदुःखीत्यस्य प्रतियोगी नित्यमुक्त इति विप्लुडानन्दं भोक्ष्यतीत्यस्य प्रतियोगी पूर्णसुख इति । स्वतन्त्र इत्यस्य प्रतियोगिनमाह– परतन्त्र इति ॥ एवं विरुद्धधर्माधिकरणत्वेनोभयोर्भेदे निश्चिते जीवः सोऽसीति वेदितुं कथं योग्यः स्यादित्यर्थः । किं तत इत्यत आह- तस्मादिति || तर्हि कथं ज्ञातव्य इत्यत आह- तदीयोऽस्मीति ॥ १२ ॥