तदेतद्ब्रह्म क्षत्रं विट् शूद्रस्तदग्निनैव देवेषु ब्रह्माऽभवत्

[ ज्ञानरहितकर्मणः वैयर्थ्यम् ]

उपनिषत्

तदेतद्ब्रह्म क्षत्रं विट् शूद्रस्तदग्निनैव देवेषु ब्रह्माऽभवत् ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यश्शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्यां रूपाभ्यां ब्रह्माभवदथ यो ह वा अस्माल्लोकात् स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाऽनूक्तोऽन्यद्वा कर्माकृतं यदि ह वा अप्यनेवं विन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत् कामयते तत्तत्सृजते ॥ ९ ॥

भाष्यम्

स नैव व्यभवदिति परिवारबहुत्वेन यद् विशिष्टत्वं तन्नाभवदित्यर्थः ।

बृहत्त्वात्सर्ववर्णानां ब्राह्मणः परिकीर्तितः ।

क्षतत्राणात् क्षत्रियश्च त्रिषूनत्वाद् विशः स्मृताः ॥

ऊनवाची हि विट्शब्दः शुभे दत्ते त्रिभिर्यतः ।

रमते स ततः शूद्रः स ब्राह्मण्याभिमानवान् ।।

ब्रह्माऽग्निना सहैवाऽस्ते देवेष्वथ नरेषु च ।

ब्राह्मणेन सहैवाऽस्ते ब्रह्मा शुभचतुर्मुखः ॥

क्षत्रजात्यभिमानी तु पवनो देवराजभिः ।

सुपर्णशेषरुद्राद्यैर्मानुषेषु च राजभिः ॥

वैश्यजात्यभिमानी च नासिक्यो वायुरूर्जितः ।

स्वादिभिः सहैवाऽस्ते देवेष्वथ नरेषु च ॥

विड्भिः शूद्राभिमानी च निर्ऋतिर्देवतासु च ।

नासत्ययोः पृथिव्यां च शूद्रेष्वेव तु मानुषे ॥

यस्माग्नौ विशेषेण ब्रह्मणः सन्निधिर्भवेत् ।

अतोऽग्रावेव देवानां सर्वेषां नियमाद्धविः ॥

हुत्वा लोकान् प्रार्थयन्ति तथा विप्रेषु मानुषे ।

भावबोधटिप्पणी

' स नैव व्यभवत्' इत्यस्य पुनरल्पपरिग्रह इति कथं व्याख्यानम् ।

ततस्तस्यार्थस्याप्रतीतेरित्यतस्तद्वाक्यं व्याचष्टे - स नैवेति || यद् विशिष्टत्वं तन्नाभवत् न प्राप्तवानित्यर्थः । यद्विशिष्टमिति पाठे यथाश्रुत एवार्थः । तथाचाल्प- परिग्रह इति तदर्थलब्धस्योक्तिरिति भावः । एवं 'स नैव व्यभवत्' इत्युत्तरवाक्यद्वयमपि परिवारबहुतरत्वेन यद् विशिष्टत्वं तन्नाभवदिति मोचकेन धारकेण च यद्विशिष्टत्वं तन्नाभवदित्यपि व्याख्येयम् । प्रागुक्तब्राह्मणादिवर्णेषु श्रेष्ठानां चतुर्मुखादीना- मय्र्याद्याविष्टत्वरूपमाहात्म्यं वक्तुं तदनुवदति श्रुतिः तदेतत् ब्रह्म क्षत्रं विद् शूद्र इति । तत्र निर्देशक्रमे प्राधान्यक्रम एव निमित्तमिति भावेन ताञ्छब्दांत निर्वक्तिबृहत्त्वादिति ।। सर्ववर्णानां मध्ये बृहत्त्वाच्छ्रेष्ठत्वात् । ब्राह्मणाः ब्रह्मेति परिकीर्तिता इत्यर्थः । क्षत्रियाश्च क्षतत्राणात् क्षत्रमिति कीर्तिताः वैश्या इति शेषः । वैश्यानां त्रिषूनत्वेन विट्शब्दवाच्यत्वं कथमित्यत आह- नेति । शुभे त इति ॥ शू इत्यस्यार्थः- शुभ इति || दकारस्य दत्त इति । र इत्यस्यार्थः- रमत इति ॥ शुभाधिक्यविवक्षयोकारदैर्घ्यम् ।तदग्निनैव देवेषु ब्रह्माभवत्' इति वाक्यं व्याचष्टे - स इति || देवेषु अनिव सहास्ते तदाविष्ट इति यावत् । एवमुत्तरत्रापि । 'ब्राह्मणो मनुष्येषु' इति वाक्यं व्याचष्टे- अथ नरेष्विति ।। अनेनब्रह्माभवत्' इत्येतदत्राप्यनुवर्तनीयमित्युक्तं भवति । 'क्षत्रियेण क्षत्रियः' इति वाक्यं व्याचष्टे - क्षत्रेति || देवेषु राजानो देवराजानः तैः । समासान्तो विधिरनित्य इति भावः । स हैवास्त इत्यत्राप्यनु- वर्तते ।वैश्येन वैश्यः' इति वाक्यं व्याचष्टे - वैश्यजातीति ॥ देवेषु वस्वादिभिः । 'शूद्रेण शूद्रः' इत्येतद् व्याचष्टे- शूद्राभिमानी चेति ॥ देवे तासु मध्ये नासत्ययोः पृथिव्यां चास्ते । मानुषे तु शूद्रेष्वेवाऽस्त इति सम्बन्धः । अनेन क्षत्रियेणेत्यादिवाक्यत्रयेऽपि देवेषु मनुष्येष्वभवदिति पदत्रयस्य चानुवृत्तिः । तृतीयैकवचनं च जात्यभिप्रायेणेत्युक्तं भवति ।तस्मादग्नावेव देवेषु लोकमिच्छन्तः' इति वाक्यं तस्मादित्युक्तहेतुं दर्शयन् व्याचष्टेयस्मादिति ।। सर्वेषां देवानां मध्ये हविर्हुत्वेति शेषोक्तिः । 'ब्राह्मणे मनुष्येषु' इति वाक्यं व्याचष्टे - तथेति ॥ विप्रेषु यस्माद् विशेषेण ब्रह्मणः सन्निधिः भवेद् अतो मानुषे विप्रेषु हविर्हुत्वा लोकान् प्रार्थयन्तीति सम्बन्ध: । ब्राह्मण इत्येकवचनं जातिविवक्षयेति भावेनोक्तम् - विप्रेष्विति ।। मानुष इत्येकवचनं जातिविवक्षया । अत एव श्रुतौ मनुष्येष्वित्युक्तम् । अत्र यस्मादिति हेतुवाक्येनैताभ्यां हि रूपाभ्यां ब्रह्माभवदिति वाक्यं पूर्वत्र हेतुप्रतिपादकतया विवृतं भवति ॥

Load More