अहल्लिकेति होवाच याज्ञवल्क्यो ..

[याज्ञवल्क्येन शाकल्यपराजयः]

उपनिषत्

अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै यध्येतदन्यत्रास्मत् स्याच्छ्वानो वा एनद् अद्युर्वयांसि वा एनद् विमथ्नीरन्निति ॥ २५ ॥

भाष्यम्

तस्याः समाश्रयो रुद्रस्त्वमहञ्चेति रूपवान् ।

अहङ्कारात्मको नित्यमात्मोमा परिकीर्तिता ।

बुध्द्यात्मनैवाततत्वाद् यद् यस्यानाश्रयो हरः ।

तदा बोधात्मिका शक्तिर्नास्या देहाभिरक्षणे ॥

अरक्षितान् मानुषादीन् श्वानो वाऽद्युर्वयांसि वा ॥

भावबोधटिप्पणी

कस्मिन् हृदयं प्रतिष्ठितमिति प्रश्नस्योत्तरं न प्रतीयत इत्यतो यत्रैतदन्यत्रास्मन्मन्यासा इत्यादि उत्तरवाक्यानुरोधेनोत्तरमाह - तस्या इति ॥ अस्मदिति त्वं चेति प्रयोगानुरोधादुक्तं त्वमहं चेति रूपवानिति । तत्र हेतुरहङ्कारात्मक इति । त्वमित्येच्छब्दार्थकथनप्रसङ्गेन त्वं चात्मा चेति तत्समभिव्याहृतात्मशब्दा- भिधेयमाहआत्मेति ।। बुद्ध्यात्मना बुद्ध्यभिमानित्वेन यद्ध्येतदन्यत्रास्मत्स्यात् । श्वानो वै न दरिति वाक्ये हृदयारव्योमाया अहंकाराभिमानी रुद्रादन्या- श्रितत्वाङ्गीकारे बाधकमुच्यत इति प्रतीयते । तदयुक्तम् । तस्या अपि प्राणाख्यशेषाश्रयत्वस्य वक्ष्यमाणत्वादित्यतस्तद्यथावद् व्याचष्टे - यद्यस्या इति ।। उमाया रुद्रानाश्रितत्वस्य श्वानो वै न दद्युरित्यत्र साक्षादापादकत्वायोगात् साक्षात्तदापाद्यमुक्तं तदेति । बोधात्मिका शक्तिः बुद्ध्यभिमानशक्तिः स्यादिति शेषः । मानुषादीन् देहानित्यर्थः । अनेनैतदित्युक्तार्थं भवति ।। २५ ।।

Load More