याज्ञवल्क्येति होवाच

[ सामगानेन अभीष्टलोकप्राप्तिः]

उपनिषत्

याज्ञवल्क्येति होवाच । कत्ययमद्योद्गाताऽस्मिन् यज्ञे स्तोत्रियाः स्तोष्यतीति तिस्र इति कतमास्तास्तिस्र इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया कतमास्ता या अध्यात्ममिति प्राण एव पुरोनुवाक्या अपानो याज्या व्यानः शस्या किं ताभिर्जयतीति पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ततो ह होता आश्वल उपरराम ॥ १० ॥

इत्याश्वलब्राह्मणम् ॥ १ ॥

भाष्यम्

पुरोवाक्यादिषु प्राणादिषूपासां करोति यः ।

एकमेव हरिं लोकव्याप्तिमेव लभेदसौ ॥

अत्रापि वासुदेवाद्याचत्वारो देवताः स्मृताः ।

देवानां पदहेतुत्वात्सम्पन्नाम्य उपासनाः ।।

मुक्तौ भोगविशेषस्य हेतुत्वाच्च प्रकीर्तिताः ।

एताश्च देवतायोग्या न मनुष्येषु कुत्रचित् ।

मनुष्याणां ज्ञानमात्राद्गुणाधिक्यं भविष्यति ॥ इति परमश्रुतौ ॥

इत्याश्वलब्राह्मणम् ॥ १ ॥

भावबोधटिप्पणी

पृथिवीलोकमेव पुरोनुवाक्यया जयतीत्यादिवाक्यं तासामेव फलसाधनत्वमुच्यत इति प्रतीतिनिरासाय व्याचष्टे - पुरोवाक्यादिष्विति ॥ ऋगाहुतिमनस्तोत्रिया सुस्थिता मूर्तीराह- अत्रापीति ।। अथ सम्पद इत्येतद्वयाचष्टे - देवानामिति || अत्र सर्वेषामधिकारित्वे कथमुक्तसम्पच्छब्दनिर्वचनमित्यत आह- एत इति ।। उपासना इत्यर्थः । उपासनाभावेऽपि ज्ञानमात्रं मनुष्याणां स्यादेवेत्यत आह- मनुष्याणामिति ॥

खण्डार्थः

विदेहानां वंशभवो वैदेहो जनको नाम ह किल बभूव । स च बहुदक्षिणेन यज्ञेन शाखान्तरे एतन्नाम्ना प्रसिद्धेन । बहुदक्षिणाविशिष्टेनाश्वमेधादिना वा । ईजे अयजत । तत्र तस्मिन् यज्ञे ह विद्वद्वाहुल्येन प्रसिद्धानां कुरूणां पाञ्चालानां च देशानाम् । ब्राह्मणा अभि समेता बभूवुः । तान् दृष्टवतस्तस्य ह जनकस्य वैदेहस्य । कःस्वित् को नु एषां ब्राह्मणानां मध्येऽनूचान- तमोऽतिशयेनानूचानो ब्रह्मिष्ठ इति विजिज्ञासाविशेषेण ज्ञातुमिच्छा बभूव पश्चात्स जनको ह तद्विज्ञानोपायभूतं गवां सहस्रम् । गोष्ठे (यज्ञवाटसमीप इति स्वामिनः) अवरुरोधावरोधं कारयामास । तासामेकैकस्याः गोः शृङ्गयोः दश दश पादाः पलस्य चतुर्थभागः पादः । एवम्भूताः सुवर्णस्य दश दश पादाः आबद्धा बभूवुः । शृङ्गयोरिति द्विवचनात्प्रतिशृङ्गं पञ्च पञ्च पादाः आबद्धा इत्यर्थः । एवं गा अवरुद्ध्य जनकस्तान् ब्राह्मणान् ह किल उवाच । हे ब्राह्मणाः भगवन्तः पूजार्हा इति सम्बोद्ध्य । यो वो युष्माकं मध्ये ब्रह्मिष्ठोऽतिशयेन ब्रह्मज्ञः । स एता अवरुद्धा गा उदजतां स्वगृहं प्रत्युद्गमयत्वित्युक्ते । ते ब्राह्मणाः ह किल न दधूषुः धैर्यवन्तो नाभवन् । आत्मनो ब्रह्मिष्ठतां प्रतिज्ञातुमिति शेषः । अथानन्तरं याज्ञवल्क्यो ह किल स्वं स्वीयमेव ब्रह्मचारिणमन्तेवासिनमुवाच । किं हे सौम्य सामश्रवा३ इति लुतिर्दूरादाह्वानार्था । सामविधिं शृणोतीति

सामश्रवास्तत्सम्बोधनं सामश्रव । एता गा उदज अस्मद्गृहं प्रति उद्गमय । एवं गुरुवचनं श्रुत्वा ह किल ब्रह्मचारी । ता गाः उदाचकार उत्कलितवान् नीतवानाचार्यगृहं प्रति । एवं ब्रह्मिष्ठाय निर्दिष्टगवामपहरणात् याज्ञवल्क्येन स्वात्मनो ब्रह्मिष्ठत्वस्वीकरणादस्माकमब्रह्मिष्ठता प्रतिज्ञायत इति मन्वानास्ते ह ब्राह्मणाक्रुधुः क्रोधं कृतवन्तः । तेषां क्रोधाभिप्राये निमित्तमाह- कथमिति || नोऽस्माकं एकैकप्रधानानामग्रे ब्रह्मिष्ठोऽस्मीति कथमयं ब्रवीति कथयेत् । इतिशब्दोऽभिप्रायसमाप्तिद्योतकः । अथ क्रोधानन्तरं ह जनकस्याश्वलो नाम होता ऋत्विग् बभूव । स ब्रह्मिष्ठाभिमानी राजाश्रयात् धृष्टस्सन् एनं याज्ञवल्क्यं पप्रच्छ । कथम् । हे याज्ञवल्क्य नोऽस्माकमग्रे । त्वं नु खलु ब्रह्मष्ठोऽसीति प्लुतिर्भर्त्सनार्था । अनौद्धत्यं ब्रह्मविदो लिङ्गमिति सूचयन् स याज्ञवल्क्यो ह उवाच । वयं ब्रह्मिष्ठाय नमस्कुर्मः । किमिति तर्हि ब्रह्मिष्ठपणभूता गावः स्वगृहं प्रति प्रस्थापिता इत्यत आह- गोकामा इति । वयं गोकामा एव स्म । अतो गोग्रहणं कृतवन्त इति मुनिनोक्ते । ततो ब्रह्मिष्ठपणस्वीकरणादेव होताश्वलस्तं प्रष्टुं दध्रे धृतवान् मनः । याज्ञवल्क्येति सम्बोद्ध्योवाच । किम् । इदं सर्वं प्राणिजातं यत् येन मृत्युना आप्तं प्राप्तम् । न केवलमेतावत् । किन्तु मृत्युनाभिपन्नं ग्रस्तं च । तस्य मृत्योराप्तिं यजमानः केनोपायेनाति अतिक्रम्य मुच्यत इति पृष्टो याज्ञवल्क्य उत्तरमाहहोत्रेति ||होत्रादिषु स्थित्वा तत्तत्कर्मकर्तृत्वेन निमित्तेन होत्रग्नि- वाक्शब्दवाच्येन वासुदेवेनोपासितेन । यजमानोऽतिमुच्यत इति सम्बन्धः । अधिष्ठानभेदेन परमात्मनो रूपस्य भेदो नाशङ्कनीय इति भावेन वाक् स्थितस्य होतृस्थस्य परमात्मरूपस्य चाभेदमाह - वाग्वा इति ॥ वाक् वागन्तर्गत वाङ्नामा वासुदेव एव । यज्ञस्य होता होतृसंस्थो होतृनामक इति । वै प्रसिद्धमित्यर्थः । इदानीं वागन्तर्गतस्याग्निस्थस्य चाभेदमाह - तद्येयमिति । सा चासौ या च तद्या प्रसिद्धा येयं वाक् वागन्तर्गतो वाड्नामा वासुदेवः । सोऽयमग्निः अग्निस्थोऽग्निनामा । इदानीमग्निस्थस्य होतृसंस्थेनाभेदमाहस इति ।। सोऽग्निस्थोऽग्रिनामा भगवान् होता होतृसंस्थो होतृनामक इत्यर्थः । वागादिस्थस्य कथं मृत्युमोचकत्वमित्यत आह- इति ।। यो वागादिस्थः स मुक्तिः मोक्षप्रदः । मुच्यतेऽनेनेति व्युत्पत्तेः । न केवलं सर्वसाधारणाविद्यानिवृत्त्यादिरूपमुक्तिदः । किन्तु सातिमुक्तिः अतिशयितमुक्तिदः। मुक्तौ मनुष्येभ्य अधिकं सुखं देवेभ्यः प्रयच्छतीत्यर्थः ।। ३ ।।

एवमेवोत्तरखण्डत्रयमपि व्याख्येयम् । अहोरात्राभ्यां तद्विकाराभ्यामित्यर्थः । एवं पूर्वपक्षापरपक्षाभ्यामित्येतदपि व्याख्येयम् । अध्वर्युणा चक्षुषादित्येन अध्वर्य्यादिगतेन सङ्कर्षणेन । उद्गात्रा वायुना प्राणेन । तन्निष्ठप्रद्युम्नेन यद् यस्मादिदं प्रसिद्धमन्तरिक्षं आकाशमनारम्भणमनालम्बनमिव भासते । अथ तस्मात्केनाक्रमेणऽक्रमणसाधनेनावष्टम्भेन । यजमानः । स्वर्गलोकं मोक्षमाक्रमते प्राप्नोतीत्यर्थः । ब्रह्मणा मनसा चन्द्रेण तदन्तर्गतानिरुद्धेनेत्यर्थः । उक्तमुपसंहरतिइत्यतिमोक्षा इति । अतिशयितमोक्षसाधनीभूतोपासना: इति निरूपिता इत्यर्थः । अथ मोक्षसाधनोपासनानिरूपणानन्तरम् । सम्पदः देवपदप्राप्ति - रूपसम्पत्साधनीभूता उपासना निरूप्यन्ते ।। ६ ।।

ता उपासना वक्तुमाश्वलप्रश्नमवतारयति - याज्ञवल्क्येति || कतिभिः सङ्खचाभिः । ऋग्भिरयं होता | अद्याsस्मिन् यज्ञे । शंसनं करिष्यतीति पृष्ठे । तिसृभिर्ऋग्भिरित्युत्तरमुक्तवन्तं प्रति पुनस्तासां स्वरूपं पृच्छति - कतमा इति ।। किं स्वरूपास्ता ऋच इति पृष्टे उत्तरमाह- पुरोनुवाक्या चेति || पुरोनुवाक्या प्रयोगकालात्प्राक् होतृप्रयुज्यमाना ऋग्जातिः । याज्या च यागार्थं प्रयुज्यमाना ऋग्जातिः । शस्या शस्त्रार्थं प्रयुज्यमाना ऋग्जातिस्तृतीया त्रित्वसङ्ख्यापूरिका । एतस्याः फलं पृच्छति - किमिति ।। ताभिर्वासुदेवाख्य- विष्ण्वधिष्ठानभूताभिस्तत्रत्यवासुदेवेनेति यावत् । किं जयतीति पृष्टे उत्तरमाह- यत्किञ्चेदं प्राणभृदितीति ।। तज्जयतीत्यन्वयः । सर्वप्राणभृदधिपतिर्भवतीत्यर्थः

।। ७ ।।

या हुताः समिदाज्याहुतय: उज्ज्वलन्ति । या हुता मांसाहुतयः अतिनेदन्ते अतीव शब्दं कुर्वन्ति । या हुताः पयः सोमाहुतयः । अधि अधो गत्वा भूमेरधः दारते । फलं पृच्छति - किमिति ।। ताभिः सङ्कर्षणाधिष्ठान- भूताभिस्तिसृभिराहुतिभिस्तद्गतसङ्कर्षणेनेति यावत् । किं जयतीति पृष्टे उत्तरमाह- या इति ।। या आहुतयो हुता उज्ज्वलन्ति । ताभिर्देवलोकमेव जयति देवलोकाधिपत्यं लभते । कथमित्यपेक्षायामुज्ज्वलत्वसाम्यादित्याह- दीप्त इव हीति । एवमुत्तरत्रापि । पितृलोक अतीवात्यन्तं नेदते ।आस्फोटयन्ति पितरः' (कृ.म. २३० ) इत्यादि वचनात् । अध इब हि मनुष्यलोक इति । नरकाद्यधोगतिसाम्यव्यावर्तनाय इवशब्दः। देवलोकपितृलोकापेक्षया अधस्तन इत्यर्थः।।८ ।।

अद्य ब्रह्माहवनीयस्य दक्षिणतो दक्षिणभागे । ब्रह्मासने स्थित्वा । कतिभिर्देवताभिर्यज्ञं गोपायतीति । अन्यत्पूर्ववत् । मन एवेति मनोऽभिमानी चतुर्मुख एव तं स्तौति - अनन्तं वा इति || मनस उक्तमनन्तत्वमुपपादयति- अनन्ता इति || यदधिष्ठिता विश्वेदेवा अप्यनन्ताः । किं मनोऽनन्तमित्यर्थः । निश्चयेन विमोक्ष्यत्वादनन्तनामकविष्णूपासकत्वाद्वा विश्वेदेवा अनन्तकाः । तत्फलमाह- अनन्तमेवेति । तेन मनसा तदभिमानिचतुर्मुखेन तदधिष्ठानभूतदेवेषु च विद्यमानेन प्रद्युम्नेन । अनन्तनामकं विष्णुलोकं जयति ।। ९ ।।

स्तोत्रियाः सामरूढा ऋचः ता ऋचः अध्यात्मं याः यदभिमन्यमानाः ता देवताः कतमा इत्यर्थः । पुरोनुवाक्यया पुरोनुवाक्याभिमानिप्राणगतेन । याज्यया याज्याभिमान्यपानगतेन । शस्यया शस्याभिमानिव्यानगतेनानिरुद्धेने- त्यर्थः। ततः स्वकृतप्रश्नोत्तरदानाद् होताश्वल उपरराम तूष्णीं बभूव ।। १० ।। इत्याश्वलब्राह्मणम् ।। १ ॥