साहोवाचाहं वै त्वा याज्ञवल्क्य यथा काश्यो ..

[सर्वलोकाधारा श्री: ]

उपनिषत्

साहोवाचाहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे ब्रूहीति पृच्छ गार्गीति ॥ २॥

भाष्यम्

बाणस्त्वयोमयः प्रोक्तः शरो नालोऽस्य कीर्तितः ॥ इत्यभिधानम् ॥ कर्मारस्तु तदा बाणं तीक्ष्णमञ्जलिकाभिधम् ।

सन्दधानः शरे यान्तं राजानं न ददर्श ह ।। इति पाझे ॥

भावबोधटिप्पणी

ननु बाणवन्तावित्युच्यमानौ कौ । शराविति चेन्न । तस्यैव बाणत्वेन कथं तस्यैव तद्वत्त्वमित्यतो बाणशरशब्दयोः अभिधानपुराणवचनाभ्याम् अर्थभेदमाहबाणस्त्विति । एतेन शराग्रे यो वंशखण्ड: सन्धीयते स बाण उच्यत इति परव्याख्यानं प्रमाणविरुद्धमित्युक्तं भवति ।

Load More