यथा तुष्टाव लक्ष्मीशं सर्गादौ चतुराननः
भाष्यम्
[अस्या उपनिषदः उपदेशपरम्परा]
यथा तुष्टाव लक्ष्मीशं सर्गादौ चतुराननः ।
तथा जगाद सूर्याय याज्ञवल्क्याय सोऽब्रवीत् ॥ २ ॥
बाजिरूपेण सूर्येण प्रोक्तं वाजसनेयकम् ।
कण्वाय याज्ञवल्क्योऽदात् काण्वं तेन प्रकीर्तितम् ॥ इति वाराहे ॥ ३ ॥
भावबोधटिप्पणी
'यो ह वा अविदितार्षच्छन्दो दैवतब्राह्मणेन मन्त्रेण यजति याजयति वाऽध्यापयति वा स्थाणुं वर्छति गर्ते वा पद्यते प्रवामीयते' इति श्रुतेर्देवतादिज्ञानवत एव विद्या फलतीति ज्ञायते । तत्र ब्राह्मणपदोपलक्षितार्थज्ञानं व्याख्यानादेव भविष्यति । प्रायः छन्दोबद्धत्वं नास्त्येव । तदुपनिबन्धे त्वक्षरपरिगणनया तज्ज्ञानं सुकरमेव । अतः ऋषिदेवते ज्ञापयन्नाह – यथेति ।। यथा यत्प्रकारानुपूर्वीविशिष्टोपनिषदा लक्ष्मीशं तुष्टाव तथा तत्प्रकारानुपूर्वी - विशिष्टामुपनिषदं जगादेत्यर्थः । अस्या उपनिषदो वाजसनेयकं काण्वमिति लोकप्रसिद्धं नामोपपादयन्नवान्तरऋषीनाह - वाजिरूपेणेति ॥ सूर्येण प्रोक्तत्वे सौर्यमिति स्यादित्यतो वाजिरूपेणेत्युक्तम् । तेन कण्वाधीतत्वेन । लक्ष्मीश- मित्युपनिषत्प्रतिपाद्योक्त्या संसारव्यावृत्सुभ्यः संसारनिवृत्तिसाधनब्रह्मात्मैकत्व- विद्याप्रतिपत्तये ग्रन्थावृत्तिरारभ्यत इत्युक्तं परास्तम् । ब्रह्मात्मैकत्वज्ञानस्या- नर्थफलत्वेन संसारनिवृत्तिसाधनत्वाभावात् ।