मनश्च द्विविधं मतम्

[मन आदीन्द्रियाणां द्वैविध्यम् ]

भाष्यम्

.....................मनश्च द्विविधं मतम् ॥

चेतनं च जडं चेति चक्षुराद्यं तथैव च ।

चेतनं त्विन्द्रियं ह्यात्मस्वरूपान्नापरं स्मृतम् ॥

मुक्तानां चेतनं त्वेव बद्धानामुभयं तथा ।

स्वरूपेणापि संयोग: स्वरूपस्यैव युज्यते ॥

यथा रत्नस्य संयोगस्तत्प्रकाशेन नित्यदा ।

रत्नस्य च प्रकाशस्य न भेदः कश्चिदिष्यते ॥

विशेषो नाम विज्ञेयो विशेषाद् दृष्टिगोचरः ।

भावबोधटिप्पणी

नन्वेकं तत्रानुभव इत्यादौ दुःखांद्यभावस्य साक्षिवेद्यत्वोक्तेः कथं मनो- वेद्यत्वमित्यतो न वयं तार्किकादिवत्साक्षिभिन्नमनोवेद्यत्वं ब्रूमो येनापसिद्धान्तः स्यात् । किन्तु चेतनात्मकमनोवेद्यत्वमित्याशयेन मनोद्वैविध्यमाह-मनश्चेति ।। प्रसङ्गादाहचक्षुराद्यमिति । चक्षुराद्यं च तथैवोक्तरीत्या द्विविधमित्यर्थः । ननु जीवानामेव चेतनत्वात्कथं तद्भिन्नानामपीन्द्रियाणां चेतनत्वमित्यत आह- चेतनमिति ।। किं द्विविधेन्द्रियवत्त्वं सर्वेषामस्ति ? नेत्याह- मुक्तानामिति || इन्द्रियमित्यनुवर्तते । मुक्तशब्देन संसारसंसर्गाभाववचेतना विवक्षिताः । तेनेश्वरादिसङ्ग्रहः । मन आदीन्द्रियाणामात्मस्वरूपत्वे मनसः सम्प्रयोगो यो दुःखादिरहितात्मन इत्ययुक्तम् । स्वेन स्वस्य संयोगानुपपत्तेरित्यत आह- स्वरूपेणेति ॥ तत्र दृष्टान्तमाह - यथेति । रत्नतत्प्रकाशयोरपि भेदाङ्गीकारादेव संयोगोपपत्तिरिति कथमेतन्निदर्शनमित्यत आह- रत्नस्येति || ननु दृष्टान्त-दार्ष्टान्तिकयोरुभयत्र भेदाभावे तद्वयाप्तः संयोगः कथमित्यत आह- विशेष इति ।। अभिनेऽपि भेदकार्यकारीति शेषः । ननु विशेषसद्भाव एव किं मानमित्यत आह- विशेषादिति || व्यवहारविशेषाद् विज्ञेय इति सम्बन्धः तत्र प्रत्यक्षं चाह - दृष्टिगोचर इति ॥