यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद
[मुख्यवायुः जगदाधारः ]
उपनिषत्
यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद, यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ३ ॥
यः अप्सु तिष्ठन् अद्भ्यो अन्तरो यं आपो न विदुः यस्यापः शरीरं योऽपोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ४ ॥
यः अग्नौ तिष्ठन्, अग्नेः अन्तरो यं अग्निः न वेद, यस्य अग्निः शरीरं यः अग्निमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥५॥
यः अन्तरिक्षे तिष्ठन्, अन्तरिक्षात् अन्तरो यं अन्तरिक्षं न वेद, यस्य अन्तरिक्षं शरीरं यः अन्तरिक्षमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ ६ ॥
यः वायौ तिष्ठन् वायोरन्तरो यं वायुः न वेद, यस्य वायुः शरीरं यः वायुमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ७ ॥
यः दिवि तिष्ठन् दिवः अन्तरो यं द्यौः न वेद, यस्य द्यौः शरीरं यः दिवमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ८ ॥
यः आदित्ये तिष्ठन् आदित्यात् अन्तरो यं आदित्यो न वेद, यस्य आदित्यः शरीरं यः आदित्यमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ९ ॥
यः दिक्षु तिष्ठन् दिग्भ्यो अन्तरो यं दिशो न विदुः, यस्य दिशः शरीरं यः दिशोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १० ॥
यः चंद्रतारके तिष्ठंश्चंद्रतारकाद् अन्तरो यं चंद्रतारकं न वेद, यस्य चंद्रतारकं शरीरं यश्चंद्रतारकमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ११ ॥
यः आकाशे तिष्ठन् आकाशात् अन्तरो यं आकाशो न वेद, यस्य आकाशः शरीरं यः आकाशमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १२ ॥
यः तमसि तिष्ठंस्तमसोऽन्तरो यं तमो न वेद, यस्य तमः शरीरं यः तमसोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १३ ॥
यः तेजसि तिष्ठंस्तेजसोऽन्तरो यं तेजो न वेद, यस्य तेजः शरीरं यस्तेजोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः इत्यधिदैवतमथाधिभूतम् ॥ १४ ॥
यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्यो अन्तरो यं सर्वाणि भूतानि न विदुः यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतानि अन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः इत्यधिभूतमथाध्यात्मम् ॥ १५ ॥
यः प्राणे तिष्ठन् प्राणाद् अन्तरो यं प्राणो न वेद, यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १६ ॥
यः वाचि तिष्ठन् वाचो अन्तरो यं वांग् न वेद, यस्य वाक् शरीरं यः वाचमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १७ ॥
यश्चक्षुषि तिष्ठंश्चक्षुषो अन्तरो यं चक्षुः न वेद, यस्य चक्षुः शरीरं यः चक्षुरन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १८ ॥
यः श्रोत्रे तिष्ठन् श्रोत्रादन्तरो यं श्रोत्रं न वेद, यस्य श्रोत्रं शरीरं यः श्रोत्रमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १९ ॥
यः मनसि तिष्ठन् मनसो अन्तरो यं मनो न वेद, यस्य मनः शरीरं यः मनोऽन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ २० ॥
यस्त्वचि तिष्ठंस्त्वचो अन्तरो यं त्वंग् न वेद, यस्य त्वक् शरीरं यः त्वचमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ २१ ॥
यः विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद, यस्य विज्ञानं शरीरं यः विज्ञानमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः॥२२॥
यः रेतसि तिष्ठन् रेतसोऽन्तरो यं रेतो न वेद, यस्य रेतः शरीरं यः रेतोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मन्ता अविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्माऽन्तर्याम्यमृतोऽतोऽन्यदार्तम् । ततो होद्दालक आरुणिरुपरराम ॥ २३ ॥
॥ इत्यन्तर्यामिब्राह्मणम् ॥
॥ इति अन्तर्यामिब्राह्मणम् ॥ ७ ॥
भाष्यम्
पृथिव्याद्या देवतास्तु देहवद् यद्वशत्वतः।
शरीरमिति चोच्यन्ते यस्य विष्णोर्महात्मनः ॥
अन्तस्थो देवतानां च न विदुर्यं च देवताः ।
प्रविष्टत्वाद् देवतास्थः सोऽन्तरः स्ववशत्वतः ॥
बाह्यापेक्षां विना यस्तु रमते सोऽन्तरः स्मृतः ।
अतिप्रियत्वाच्च हरेरन्तरत्वमुदाहृतम् ॥
जीवानां स्वप्रियत्वं च विष्णुना नियतं यतः ।
तस्य प्रियत्वं नान्येन देवस्य नियतं कचित् ॥
स्वतन्त्रः सन्नियन्तासावन्तर्यामी ततः स्मृतः ।
देवतानां स्वभावोऽपि स्वरूपमपि सर्वदा ||
तदधीनं ततो यामी वासुदेवः प्रकीर्तितः ।
स्वभावसत्तादातृत्वं यन्तृत्वमिति कथ्यते ॥ इति ब्रह्मतर्के ॥
भावबोधटिप्पणी
नन्वन्तर्यामित्वं प्रकृतेस्तत्तज्जीवस्यैव वा युक्तं नतु हरेः । पृथिव्यादिशरीरत्वस्योक्त- न्यायेन तत्र सम्भवात् । हरावसम्भवात् । तस्य पृथिव्यादिभिन्नचिच्छरीरत्वोररीकारेण पृथिव्यादिशरीरत्वानङ्गीकारादिति चेन्न । यतोऽत्र पृथिव्यादिशब्दादेव ता वाचका एव । इत्यधिदैवतमिति पृथिव्यादीनामधिदैवत्वोक्तेः । यं पृथिवी न वेदेत्यादौ पृथिव्यादेर्जडत्वे यमित्यस्य वैयर्थ्याच्च । यं विज्ञानं न वेदेत्यस्यानुपपत्तेश्च । अप्रसक्तप्रतिषेधापत्तेश्च । नच पृथिव्यादिशब्दा- भिधेयदेवताशरीरत्वं प्रकृतेः पृथिव्यादिजीवस्य वा युक्तम् । विष्णोस्तु गौणं पृथिव्यादिदेवताशरीरत्वं युज्यत एवेति भावेनाऽह - पृथिव्याद्या इति ॥ यस्य शरीरमिति सम्बन्धः । यच्छब्दस्य सोऽन्तर इत्युत्तरेणान्वयः । न केवलं तद्वशत्वगुणयोगेन पृथिव्यादिदेवतानां विष्णुशरीरत्वं, किन्तु तत्प्रविष्टत्वलक्षणगुणयोगेनापीति भावेनाऽह - अन्तस्थ इति ।। यो देवाना- मन्तःस्थश्च । नन्वेवं पृथिव्यादिशरीरत्वं गौणमङ्गीकृत्य किं बलादन्तर्यामित्वं हरेरङ्गीकर्तव्यमिति चेत् अन्तर्यामिणः पृथिव्याद्यवेद्यत्वादिविष्णुधर्मव्यपदेशात् । नच पृथिव्यादिदेवताऽविदितत्वादिकं प्रकृतेस्तत्तज्जीवस्य बोपपद्यत इति भावेन यं पृथिवी न वेद यमापो न विदुरित्यादि वाक्यं तावद् व्याचष्टे- न विदुरिति । यः पृथिव्यां तिष्ठन् योऽप्सु तिष्ठन्नित्यादेरर्थमाह- प्रविष्टत्वादिति || यः पृथिवीमन्तरो यमयतीत्याद्यन्तरशब्दं व्याचष्टे - सोऽन्तर इति ॥ अन्तर- शब्देन स्ववशत्वं कथं लब्धमित्यत अन्तरशब्दार्थमाह - बाह्येति || अन्तरेव रमत इत्यन्तरः । अन्तरेवेत्यस्यार्थः बाह्यापेक्षां विनेति । स्वभिन्नापेक्षां विनेत्यर्थः । तस्यैवार्थान्तरमाह - अतिप्रियत्वाच्चेति || अन्तःस्थित्वा रमयतीति अन्तर इति भावः । नन्वतिप्रियत्वं नाम निरुपाधिकं प्रियत्वम् । तच्च स्वात्मन एव नतु विष्णोरित्यत आह- जीवानामिति । एवं पृथिव्याद्यविदितत्वा- दिहेतुबलाद्विष्णुरेवान्तर्यामीत्युक्तम् । इदानीमन्तर्यामिशब्दार्थस्य विष्णावेव सम्भवात् प्रकृत्यादावसम्भवाच्च विष्णुरेवान्तर्यामीति भावेनान्तर्यामिशब्दार्थमाह- स्वतन्त्र इति ।। ततः तस्मादिति तच्छब्दश्रवणाद् यद् यस्मादित्यपि ग्राह्यम् । अन्तरेव यामीत्यन्तर्यामी । तत्रान्तरेवेत्यस्य तात्पर्यं स्वतन्त्र इति । यामीत्यस्यार्थो नियन्तेति । ननु यामीत्यस्य कथं नियन्तेति व्याख्यानं तयोरेकार्थत्वाप्रतीतेरित्यतस्तयोरेकार्थत्वसिद्ध्यर्थं तदुभयशब्दार्थावाह - देवताना- मिति ॥ स्वभावो धर्मः । यत इति श्रवणादत इति ग्राह्यम् ।