यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन्सन्दोघे गहने प्रविष्टः
[ परमात्मविदः न भयं किञ्चन ]
उपनिषत्
यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन्सन्दोघे गहने प्रविष्टः ।
स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३ ॥
इहैव सन्तोऽथ विद्मस्तद्वयं न चेदिहावेदीर्महती विनष्टिः ।
य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४ ॥
यदैतमनुपश्यन्त्यात्मानं देवमञ्जसा ।
ईशानं भूतभव्यस्य न ततो विजिगुप्सते ॥ १५ ॥
भाष्यम्
यस्य ज्ञातो नित्यबुद्धो भगवान् पुरुषोत्तमः ।
तस्य लोकः स एवैको यो लोकः परमात्मनः ।
स हि विष्णुः परो वायोरपि कर्ता प्रकीर्तितः ।
विश्वो वायुः समुद्दिष्टः पूर्णत्वाज्जीवसङ्घतः ।
तदन्यस्यापि सर्वस्य कर्तेको विष्णुरेव हि ।
प्रविष्ट गहने देहमध्ये सन्दोहनामनि ।
तज्ज्ञानी याति तं लोकं तत्प्रसादाच्च वर्तते ।
भावबोधटिप्पणी
यस्यानुवित्त इति मन्त्रमन्वयक्रमेण व्याचष्टे - यस्येति ।। येनेत्यर्थः । अनुवित्त इत्यस्यार्थो ज्ञात इति प्रतिबुद्ध इत्यस्यार्थो नित्यबुद्ध इति आत्मेत्यस्यार्थो भगवान्पुरुषोत्तम इति तस्य लोकः स उ लोक एवेत्यस्यार्थमाह- तस्येति ।। उशब्दार्थ एक इति प्रधान इत्यर्थः । स विश्वकृत् स हि सर्वस्य कर्तेत्यनयो- रेकार्थतापरिहाराय तद् व्याचष्टे - स हीति । विश्वकर्तेत्यस्य वायोरपि कर्तेति कथं व्याख्यानमित्यत आह- विश्व इति । तर्हि सर्वस्य कर्तेत्युक्त्यैव सर्वमध्यपतितवायुकर्तृत्वस्यापि लाभात्तद्वयर्थं स्यादित्यत आह- तदन्यस्यापि सर्वस्येति || वाय्वन्यस्यापीत्यर्थः । यद्वा विष्ण्वन्यस्यापीत्यर्थः । हि यस्मा- दन्यस्य सर्वस्यापि कर्ताऽतो वायोरपि कर्तेति योजनान्न वैयर्थ्यम् । स्वात्मानं प्रति स्वस्य कर्तृत्वासम्भवादन्यस्येत्युक्तम् । अस्मिन् सन्दोघे गहने प्रविष्ट इत्येतद् व्याचष्टे— सन्दोधनामनीति | सन्दोह इति पाठस्याप्ययमेवार्थः । इहैब सन्त इत्यस्य तात्पर्यमाह - तज्ज्ञानीति ।। यदैतमनुपश्यन्तीत्यस्य तात्पर्यमाह- तत्प्रसादादिति । १३ - १५ ।।