तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं..
[ उद्गातृषु स्थित्वा सामगानकर्ता मुख्यप्राणः ]
उपनिषत्
तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाचायं त्वस्य राजा मूर्धानं विपातयताद्यदीतोऽयास्य आङ्गिरसोऽन्येनोदगायदिति वाचा च ह्येव स प्राणेन चोदगायदिति ॥ २४ ॥
तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वं ।तस्य वै स्वर एव स्वं ।तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत । तया वाचा स्वरसम्पन्नयाऽर्त्विज्यं कुर्यात् ।तस्माद् यज्ञे स्वरवन्तं दिदृक्षन्त एव । अथो यस्य स्वं भवति भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद ॥ २५ ॥
तस्य हैतस्य साम्नो यः सुवर्णं वेद ।भवति हास्य सुवर्णं ।तस्य वै स्वर एव सुवर्णं भवति हास्य सुवर्णं च । एवमेतत्साम्नः सुवर्णं वेद ॥ २६ ॥
तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति तस्य वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयतेऽन्न इत्युहैक आहुः ॥ २७ ॥
भाष्यम्
अयास्यो विश्वसृग्यज्ञे तेनाविष्टोऽन्वगायत ।
गृहकोशादिकं यत्स्वं तद्रूप्यस्य स्वरस्थितः ॥
भूषणस्वर्णरूपी च स एवापि स्वरस्थितः ।
वागिन्द्रियं पीठरूपं तस्य देवस्य संस्थितम् ॥
गानकालेऽन्यदा त्वन्नं प्राणपीठमिति स्मृतम् ॥
भावबोधटिप्पणी
अथ भाष्यार्थः
'बाचा च ह्येव स प्राणेन चोदगायत्' इति वाक्यम् अपेक्षितं पूरयन् व्याचष्टे - अयास्य इति ॥ तेनार्धनारीनरात्मकेन । अनेन बाचा प्राणेनेत्युभयोक्तेस्तात्पर्यमुक्तं भवति ॥ ' तस्य वै स्वर एव स्वम्' इत्येतद् व्याचष्टे - गृहेति ॥ तद्रूपी तदभिमानी । अस्योद्गातुः ।।
‘तस्य वै स्वर एव सुवर्णम्' इत्येतद् व्याचष्टे – भूषति ॥ स एव वायुरेव भूषणस्वर्णरूपी च सोऽपि स्वरस्थित इति योजना-- तस्य वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयत इत्येतद् व्याचष्टे - वागिन्द्रियमिति ॥ वागिन्द्रियं गानकाले तस्य देवस्य वायोः पीठरूपं संस्थितमित्यन्वयः । गानकाल इत्यनेनैतदुक्तार्थम् । 'अन्न इत्युहैक आहुः' इत्येतद् व्याचष्टे– अन्यदा त्वन्नमिति ॥ २४-२७ ।।