भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरं ..

बृहदारण्यकोपनिषद्भाष्यम्

एकोनविंशं ब्राह्मणम्

भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ १ ॥

ऋचो यजूंषि सामानीत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ २ ॥

प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ३ ॥

ऋग्यजुःसामसंस्थो यो भगवान् पुरुषोत्तमः । स द्वितीयपदेनोक्तो गायत्र्याः प्रथमेन तु ॥ भूम्यन्तरिक्षस्वर्गस्थतृतीयेन समीरगः ।

अथास्या एतदेव तुरीयं दर्शतं पदं परो रजा य एष तपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति एवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ४ ॥

चतुर्थपादो गायत्र्याः प्रणवः समुदीरितः ॥ तद्वाच्यो भगवान् सूर्यमंडलस्था तु या रमा । सत्वात्मिक्येव तत्संस्थो रज आख्यप्रधानतः ॥ परः परोरजस्तस्माद्य एवं वेद तं प्रभुम् । लोकानां चैव वेदानां सर्वेषां प्राणिनामपि ॥ सदैवाधिपतिर्भूत्वा यशःश्रीमांश्च जायते । गायत्र्युपासने योग्यो ब्रह्मैव हि चतुर्मुखः ॥ तस्मादुक्तफलं सर्वं सर्वोपासा च तस्य हि । अंशेनोपासनान्येषां फलमल्पं च योग्यतः ॥ गायत्र्या न ह्ययोग्योऽपि द्विजो योग्योऽपि न क्वचित् । ऋते विरिञ्चं तस्मात् तु तस्यैव ह्यखिलं फलम् ॥

यः परोरजास्तपति स तुरीयपदेन प्रणवेन पद्यते । तुरीयं पदं ददृश इव दृष्ट इव । तदधीनतेजःपुंजस्य सूर्यमंडलस्य दृष्टत्वात् ।

सूर्यमंडलगो विष्णुः सर्वेषां दृष्टवत् स्थितः । यस्मात् तदुत्थितं तेजोमंडलं दृश्यतेऽखिलैः ॥ इति त्रैविद्ये ।

सर्वं रजः सर्वां प्रकृतिम् ।

रंजनात् प्रकृतिः प्रोक्ता रज इत्येव वैदिकैः । तस्या अप्युत्तमो विष्णुर्यतोऽतः स परोरजाः ॥

सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्धैतत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्श मिति तस्मा एव श्रद्दध्याम तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बलं सत्यादो जीय इत्येवमेषा गायत्र्यध्यात्मं प्रतिष्ठिता सा हैषा गयांस्तत्रे प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद्गयांस्तत्रे तस्मात् गायत्रीनाम स यामेवामूं सावित्रीमन्वाहैषैव सा स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ५ ॥

अभिमानिनी तु गायत्र्या मुख्या श्रीः परिकीर्तिता । ब्रह्माण्यमुख्याऽतो ज्ञेया सा तु ब्रह्माणमाश्रिता ॥ ब्रह्मा तु मुख्यगायत्री सा परोरज आश्रयेत् ॥ इति च ।

तद्वा एतज्जगत्सत्ये प्रतिष्ठितम् । भूमिरन्तरिक्षं द्यौरित्यादिना प्रस्तुतत्वात् । तद्वा एतज्जगत्सर्वं चक्षुः सूर्याभिमानिनी । विराण्नामविशेषाख्ये सर्वदा सम्प्रतिष्ठितम् ॥ शेषः प्रतिष्ठितो वायौ स ह्यस्माद्बलवत्तरः । स सत्य इति सम्प्रोक्तः सन्नस्मिन् याति यद्धरिः ॥ वायुः समाश्रितो देवीं मुख्यां गायत्रिनामिकाम् । सा चात्मनामधिपतिमेवं परममाश्रिता ॥ प्राणानां रक्षणादेव गायत्री सा प्रकीर्तिता । सावित्रीति च यामाह स विष्णुः परतोरजाः ॥ एषैव सा हि गायत्री सविता हि जनार्दनः । तस्माद्धि सूयते सर्वं सावित्री च तदाश्रिता ॥ आदित्यस्तत्प्रतीकत्वात् सवितेति प्रकीर्तितः । प्रतिमायां च तच्छब्दः प्रयोज्यो ह्युपचारतः ॥ यस्मा आह स विष्णुस्तां गायत्रीं जगदीश्वरः । ब्रह्मणे तस्य सा प्राणान् सर्वदा पाति पुत्रवत् ॥ ब्रह्मा हि पुत्रस्तस्यास्तु तत्पुत्रा इतरेऽखिलाः ॥

तां हैतामेके सावित्रीमनुष्टुभमन्वाहुर्वाग् अनुष्टुबेतद्वाचमनुब्रूम इति तन्न तथा कुर्याद्गायत्रीमेव सावित्रीमनुब्रूयाद्यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न ह वै तद्गायत्र्या एकञ्च न पदं प्रति ॥६॥

तामाहुः परमां देवीं वृणीमह ऋगात्मिकाम् ॥ नैव सा प्रतिमा मुख्या गायत्री परमा स्मृता । गायत्रीमुख्यवेत्तारो योग्या ब्रह्मपदस्य ये ॥ तेषां प्रतिग्रहाद्दोषो न कश्चन भविष्यति । न चैकपदविज्ञानफलायालं सुखानि च ॥

स य इमांस्त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात् । सोऽस्या एतत्प्रथमं पदमाप्नुयादथ यावतीयं त्रयी विद्या यस्तावत् प्रतिगृह्णीयात् सोऽस्या एतद्द्वितीयं पदमाप्नुयादथ यावदिदं प्राणि यस्तावत् प्रतिगृह्णीयात् सोऽस्या एतत्तृतीयं पदमाप्नुयादथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति नैव केनचनाप्यं कुत उ एतावत्प्रतिगृह्णीयात् ॥ ७ ॥

विष्णोर्यदा भगवतो लोकान् वेदांश्च चेतनान् । विरिञ्चिजन्मन्यखिलान् प्रतिगृह्णन्ति कृत्स्नशः ॥ गायत्रीपदविज्ञानफलमात्रं तदा भवेत् । प्रणवप्रतिपाद्यं यत् तुरीयं भगवत्पदम् ॥ सर्वगं वासुदेवाख्यं न तत्केनचिदाप्यते । गायत्रीत्रिपदज्ञेयमनिरुद्धादिकं त्रयम् ॥ ब्रह्मा व्याप्नोति मुक्तः सन् वासुदेवं न कश्चन । लोकस्थमनिरुद्धं च प्रद्युम्नं वेदगं तथा ॥ संकर्षणं वायुसंस्थं व्याप्य ब्रह्मा विमुक्तिगः । गायत्रीज्ञानसामर्थ्यात् प्रणवज्ञानशक्तितः ॥ वासुदेवं च सम्पश्येन्न व्याप्नोति कथञ्चन । अनन्तत्वाद्वासुदेवः कथं व्याप्यो भवेत् प्रभुः ॥ वर्णत्रयात्मप्रकृतिमतीतः सूर्यमंडले । गुणत्रयात्मिकां बाह्ये यतोऽतः स परोरजाः ॥ यतो न व्याप्यते सोऽसौ ब्रह्मणाऽपि कथञ्चन । अतः प्रतिग्रहो नास्य वासुदेवस्य विद्यते ॥ इति प्रकाशिकायाम् ।

तावदेतावत् प्रतिगृह्णीयादिति तस्यैव सामस्त्येन ग्रहणार्थम् । एतावदेव मम हस्ते विद्यते इतिवत् । न ह्यन्यदेवतावत् प्रतिग्राह्यमस्ति ।

तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा प्रापदिति यं द्विष्यादसावस्मै कामो मा समृद्धीति वा न हैवास्मै स काम ऋद्ध्यते यस्मा एवमुपतिष्ठते अहमदः प्रापमिति वा ॥ ८ ॥

अष्टाक्षरत्वाद् गायत्र्याः प्रोक्ता सैकपदीति च । प्रणवेन सहैतास्तु गायत्र्याश्चतुरस्तदा ॥ अकाराद्यतिशान्तान्तः प्रणवोऽष्टाक्षरो यतः । पादः प्रणवसंयुक्तो गायत्री सा पृथग्यदा ॥ द्विपदीति तदा प्रोक्ता त्रिपदी स्वपदैस्त्रिभिः । चतुष्पदी सप्रणवा ब्रह्मणोऽन्यैर्न गम्यते ॥ अपदी च ततः प्रोक्ता गायत्र्येवमुपस्थिता । कामाप्राप्तिमपूर्तिं वा शत्रवे सा करिष्यति ॥ असावदो मैव प्रापन्नास्मै कामः समृध्यताम् । उपस्थिता चेदित्थं सा यद्यदोऽहं समाप्नुयाम् ॥ इति सा कामपूर्तिं च स्वस्य सम्यक् करिष्यति । सम्यग्ब्रह्मपदावाप्तिं तद्योग्यां मुक्तिमेव च ॥ ब्रह्मणोपासितो दद्याद् गायत्र्याः पुरुषोत्तमः । अलेपं सर्वपापेभ्यो विशेषेण प्रतिग्रहात् ॥ तद्योग्यां मुक्तिमन्येषां यथायोग्यमुपासितः ।

एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ कथं हस्तीभूतो वहसीति मुखं ह्यस्याः सम्राण्न विदाञ्चकारेति होवाच तस्याग्निरेव मुखं यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः सम्भवति ॥९॥

॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये एकोनविंशं ब्राह्मणम् ॥

॥ इति बृहद्भाष्ये सप्तमाध्याये एकोनविंशं ब्राह्मणम् ॥

वक्तव्यो भगवान् विष्णुर्गायत्र्या मुखसंस्थितः ॥ अग्निमंडलगो नित्यमग्निनामाऽग्रणीत्वतः । गायत्र्यास्तु परिज्ञानं ज्ञाते मुख्यगते हरौ ॥ सफलं भवेदन्यथा तु न सम्यक्फलदं भवेत् । गायत्रीमुखगो विष्णुर्ज्ञेयः सर्वात्मना ततः ॥ संहर्ता सर्वदोषाणामग्निस्थः सर्वदाहकः । नित्यानन्दोऽग्निवर्णश्च रामः परशुभृत् सदा ॥ इति गायत्रीसंहितायाम् ॥