पृथिव्येव यस्यायतनं अग्निर्लोको ..
बुद्धिवृत्त्यपेक्षया बहि: प्रकाशहेतुत्वमपि देव्या न विरुद्धयते
इम एव त्रयो लोका इति पूर्वोक्तानां देवानामनुक्तौ ..
न चावासमात्रमत्र विवक्षितम् ..
इदं सर्वं गुणषट्कं पूर्णं गुणषट्कमित्यर्थः
गुणाधिक्येन तदधीनत्वे विवक्षिते निवासत्वादिकमन्तर्भवति
कथं चान्यथा कामादीनां प्रसिद्धमहिमानां ..
अश्वमेधः क्रतुश्रेष्ठो ज्योतिः श्रेष्ठो दिवाकरः
पृथिव्येव यस्यायतनं अग्निर्लोको ..
उपनिषत्
[स्वायम्भुवनियामक: बायुः]
पृथिव्येव यस्यायतनं अग्निर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्यात् याज्ञवल्क्य वेद वा अहं तं पुरुषम् ।सर्वस्यात्मनः परायणं यमात्थ य एवायं शारीरः पुरुषः स एष वदैव शाकल्य, तस्य का देवता इत्यमृतमिति होवाच ॥ १० ॥
[ श्रीसरस्वतीपार्वत्य: प्रद्युम्ननियामका: J
काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्याद् याज्ञवल्क्य,वेद वा अहं तं पुरुषम् ।सर्वस्यात्मनः परायणं यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य, तस्य का देवता इति स्त्रिय इति होवाच ॥ ११ ॥
[ रुद्रनियामकः चतुर्मुखः ]
रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्याद् याज्ञवल्क्य,वेद वा अहं तं पुरुषम् ।सर्वस्यात्मनः परायणं यमात्थ य एवासावदित्ये पुरुषः स एष वदैव शाकल्य, तस्य का देवता इति सत्यमिति होवाच ॥ १२ ॥
[गरुडशेषदक्षाः चन्द्रनियामकाः ]
आकाश एव यस्यायतनं श्रोत्रं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्याद् याज्ञवल्क्य,वेद वा अहं तं पुरुषम् ।सर्वस्यात्मनः परायणं यमात्थ य एवायं श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव शाकल्य, तस्य का देवता इति दिश इति होवाच ॥ १३ ॥
[यम: निर्ऋतिनियामक: ]
तम एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्याद् याज्ञवल्क्य,वेद वा अहं तं पुरुषम् ।सर्वस्यात्मनः परायणं यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य, तस्य का देवता इति मृत्युरिति होवाच ॥ १४ ॥
[प्राणः सूर्यनियामक: ]
रूपाण्येव यस्यायतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्याद् याज्ञवल्क्य,वेद वा अहं तं पुरुषम् ।सर्वस्यात्मनः परायणं यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य, तस्य का देवता इति असुरिति होवाच ॥ १५ ॥
[ वरुणः पर्जन्यनियामक: ]
आप एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्याद् याज्ञवल्क्य,वेद वा अहं तं पुरुषम् । सर्वस्यात्मनः परायणं यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य, तस्य का देवता इति वरुण इति होवाच ॥ १६ ॥
[इन्द्रनियामकः चतुर्मुखः]
रेत एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्,सर्वस्यात्मनः परायणं स वै वेदिता स्याद् याज्ञवल्क्य,वेद वा अहं तं पुरुषम् ।सर्वस्यात्मनः परायणं यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य, तस्य का देवता इति प्रजापतिरिति होवाच ॥ १७ ॥
भाष्यम्
शारीरो मनुरुद्दिष्टः कामः प्रद्युम्न उच्यते ।
आदित्यस्थस्तथा रुद्रः श्रोत्रश्चन्द्र उदाहृतः ।।
छायामयस्तु निर्ऋतिरादर्शे सूर्य एव च ।
पर्जन्यस्त्वप्सु पुरुषः शक्रः पुत्राभिमानवान् ॥
अमृतं वायुरुद्दिष्टः स्त्रियः श्रीर्गीरुमा तथा ।
सत्यं ब्रह्मा समुद्दिष्टो गरुत्मच्छेषका दिशः ॥
आदेशनाद् दिशः प्रोक्ता मृत्युर्यम उदाहृतः ।
अन्तर्गतेन रूपेण वायुरेव त्वसुः स्मृतः ॥
पालकेन स्वरूपेण ब्रह्मैवाऽत्र प्रजापतिः ।
प्रकाशस्त्वान्तरो ज्योतिर्लोको बाह्य इतीर्यते ॥
मनः स्थिता मनोनाम्नी बोधरूपत्वतो रमा ।
सैवाग्निस्थाऽदनान्नित्यमग्निरित्येव गीयते ॥
हृदयं बुद्धिसंस्था सा त्वयनं हृदि यत्ततः ।
चक्षुः सा दृष्टिहेतुत्वादष्टानां लोक एव सा ।। इति च ॥
भावबोधटिप्पणी
शारीरः पुरुषः काममयः पुरुषः आदित्ये पुरुषः श्रौत्रः पुरुषः छायामयः पुरुषः आदर्श पुरुषः अप्सु पुरुषः पुत्रमयः पुरुष इति शब्दाष्टकस्य कोशादिप्रसिद्धार्थपरत्वप्रतीतिनिरासायाभिधेयमाह - शारीर इत्यादिना ।। ननु यद्येवं शारीरादिशब्दैर्मन्वादयो विवक्षिताः तर्हि अमृतस्त्रीसत्यदिङ्मृत्यु- असुप्रजापतीनां तत्तद्देवतात्वं कथमुच्यते प्रसिद्धानां तेषां मन्वाद्युत्तमत्वस्य देवतात्वस्य चाभावादित्यतः अमृतादिशब्दाभिधेयमाह - अमृतमित्यादिना || गरुत्मच्छेषकाः गरुडशेषदक्षाः । वायुरेव अमृतशब्दोक्त एव ब्रह्मैव सत्यशब्दोक्त एव अन्तर्गतेन पालकेन स्वरूपेणेत्युक्त्या अमृतं वायुर्बाह्यरूपेण सत्यं ब्रह्मान्तर्गतरूपेणेति सूचितम् । वरुणशब्दस्य देवतापरत्वे वरुणस्य पर्जन्योत्तमत्वे च विवादाभावात्तदनुक्तिः । तत्र अष्टस्वपि प्रकरणेषु पृथिव्येव यस्याऽयतन- मित्यादिनाऽऽश्रयस्योक्तत्वात् । लोकशब्देन प्रकाशकं ग्राह्यम् । तथाच ज्योतिःशब्दस्य पुनरुक्तत्वं स्यादित्यतस्तयोरर्थभेदमाह– प्रकाश इति ।। प्रकाशः प्रकाशकम् । मनोज्योतिरिति प्रकरणाष्टकगतमनः शब्दस्य प्रसिद्धार्थतया व्याख्याननिरासायाभिधेयमाह-- मनःस्थितेति ।। अन्यथा मनसो विज्ञानहेतुत्वस्य प्रसिद्धत्वान्न वक्तव्यमिति भावः । अग्निर्लोकः हृदयं लोकः श्रोत्रं लोकः चक्षुर्लोकः इत्यत्राग्र्यादिशब्दानां प्रसिद्धार्थत्वे अग्न्यादीनां मन्वादिज्ञानहेतुत्वा- सम्भवात्तदभिधेयमाह— सैवेति । यद् यस्माद् हृदि रमाया अयनं निवसनं ततो हृदयमित्यर्थः । श्रोत्रं श्रवणहेतुत्वादित्यपि ग्राह्यम् ।