स वै नैव रेमे तस्मादेकाकी न रमते..
[ब्रह्मसरस्वतिकृता सृष्टिः ]
उपनिषत्
स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत् स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ स इममेवात्मानं द्वेधाऽपातयत् ततः पतिश्च पत्नी चाभवतां तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव तां समभवत् ततो मनुष्या अजायन्त ॥ ३ ॥
भाष्यम्
न रेमे स ततो ब्रह्मा तस्मादेकस्य नो रतिः ।
'अथापि पत्नीमैच्छच्च स स्थूलत्वमुपागतः ॥
दम्पती सहितौ यावत् ब्रह्मा चैव सरस्वती ।
तावद्देहोऽभवद् ब्रह्मा तदा देहं द्विधाऽकरोत् ।।
पातनात्पतिपत्नीत्वशब्द एनोरजायत ।
तस्मात्तयोरेकसुखं भवत्येवार्धपात्रवत् ॥
ततस्तस्यामुमेशादीन् देवान् सर्वान् मनूनपि ।
जनयामास बोधस्य प्राधान्यं हि मनुष्यता ॥ ३ ॥
भावबोधटिप्पणी
' स वै नैव रेमे तस्मादेकाकी न रमते' इत्येतद्व्याचष्टे - नेति ॥ तत एकत्वात् । ‘स द्वितीयमैच्छत्' इत्येतद्व्याचष्टे - अधापीति ॥ अथशब्दो हेत्वर्थे अपिशब्द एवार्थे । रत्यभावादेवेत्यर्थः । ' स हैतावानास यथा स्त्री- पुमांसौ सम्परिष्वक्तौ' इति वाक्यं व्याचष्टे - स इति । पूर्वदेहं परित्यज्य तावद्देहोऽभवदिति प्रतीतिनिरासार्थं स स्थूलत्वमुपागत इत्युक्तम् । यत्किञ्चि- दम्पती देहद्वयसमपरिमाणकदेहेन सरस्वत्युत्पादनायोगाद् 'ब्रह्मा चैव सरस्वती' इत्युक्तम्। ब्रह्मा सरस्वती चेति दम्पती । स एव तद्देहवानेव स्थूलत्वमुपागतः सन्नित्यन्वयः । ' स इममेवाऽत्मानं द्वेधापातयत्' इत्येतद् व्याचष्टे - तदेति || ' ततः पातनात्पतिर्मन्वाख्यः पत्नी शतरूपा चाभवतामिति परकीयव्याख्यानं अप्रामाणिकमिति भावेन ततः पतिश्व पत्नी चाभवताम्' इत्येतद् व्याचष्टे - पातनादिति || द्वन्द्वात्परस्त्वप्रत्ययः उभयत्रापि सम्बद्ध्यते । शब्द इति जात्यपेक्षयैकवचनम् । पतित्वपत्नीत्वनिमित्तकः पतिरिति पत्नीतिशब्दः एनोरेतयोरजायतेत्यर्थः । पत्नी चेति पाठे पतिः पत्नी चेतिशब्द इत्यर्थः । अन्यव्याख्याने तु कथं नु माऽऽत्मन एव जनयित्वेत्युत्तरवाक्यविरोधः । प्रजापतिना शतरूपोत्पत्तिस्वीकारान्मनोश्च सम्भोगकर्तृत्वादिति भावः । 'तस्मादिदमर्धबृगलमिव स्व' इति वाक्यं व्याचष्टे - तस्मादिति । तस्मात् द्विधाभूतैकदेहत्वात् तयोर्जायमानं सुखम् । सप्तम्यर्थे वतिः । पात्रार्धद्वयस्थित- घृतवदित्यर्थः । ततो मनुष्या अजायन्त' इत्येतद् व्याचष्टे - तत इति ॥ मनुष्यशब्दो मनुष्येषु प्रसिद्धः अतः कथं देवानित्यादिव्याख्यानम् इत्यत आह- बोधस्येति ।। मनुष्यता मनुष्यशब्दप्रवृत्तिनिमित्तम् । अन्यथा ‘सैषा ब्रह्मणोऽतिसृष्टिर्यच्छ्रेयसो देवानसृजत' इत्युत्तरवाक्यविरोधः स्यादिति भावः
|| 3 ||