एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सत्यं ..

बृहदारण्यकोपनिषद्भाष्यम्

तृतीयं ब्राह्मणम्

एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सत्यं तदेतत्त्र्यक्षरं हृदयमिति हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद ॥

॥ इति बृहद्भाष्ये तृतीयं ब्राह्मणम् ॥ ३ ॥

हरणाद्यज्ञभागादेर्ज्ञानादेर्दानतस्तथा । यानादव्यवधानेन परस्य ब्रह्मणस्तथा ॥ ब्रह्मा हृदय इत्युक्तस्तस्यैवंविदपि ध्रुवम् । हृतिदानस्वर्गयानपात्रं स्यात् तत्प्रसादतः ॥ हृत्वैवास्मै ददत्यद्धा स्वकीयाश्चान्य एव च ॥ इति निर्णये ।

परमात्मा च प्रजापतिः ।