ब्रह्म वा इदमग्र आसीदेकमेव तदेकं ..
[ चतुर्मुखकृता क्षत्रजातिसृष्टि: ]
उपनिषत्
ब्रह्म वा इदमग्र आसीदेकमेव तदेकं सन्न व्यभवत् तच्छ्रेयोरूपमत्यसृजत । क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात् क्षत्रात् परं नास्ति । तस्मात् ब्रह्मणः क्षत्रियमधस्तादुपास्ते राजसूये क्षत्र एव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मेवान्तत उप निःश्रयति स्वां योनिं य उ एनं हिनस्ति स्वां स योनिमृच्छति स पापीयान् भवति यथा श्रेयां सं हिंसित्वा ॥ ५ ॥
भाष्यम्
विष्णोर्ब्राह्मणजातिः सन् ब्रह्मा जज्ञे चतुर्मुखः ।
इतोऽग्रे जगतस्तस्मात्क्षत्रजातिरजायत ॥
वायुः सदाशिवोऽनन्तो गरुडः शक्र एव च ।
कामश्च वरुणश्चैव सोमसूर्यौ यमस्तथा ॥
एवमाद्याः क्षत्रियास्तु देवानां ब्रह्मनिर्मिताः ।
श्रेयसी सर्वजातिभ्यः क्षत्रजातिरिति श्रुतिः ||
नैव क्षत्रात्परा जातिर्ब्रह्मजातिं विना क्वचित् ।
ब्राह्मणाच्च परो राजा राजसूयाश्वमेधयोः ॥
भावबोधटिप्पणी
अथ भाष्यार्थः
‘आत्मैवेदमग्र आसीत् पुरुषविधः' इति विष्णोः सकाशाच्चतुर्मुखसृष्टिरुक्ता । सैव ब्राह्मणजातिसृष्टिरित्यभिप्रायेण तदनुवादपूर्वकं तस्माच्चतुर्मुखात् क्षत्रियादि- वर्णभेदेन देवानां सृष्टिमाह— ब्रह्म वा इदमित्यादिना || अप्रतिपत्तिविप्रतिपत्ति- निरासाय खण्डं प्रमाणेन व्याचष्टे - विष्णोरित्यादिना || 'ब्रह्म वा इदमग्र आसीत्' इत्यत्र ब्रह्मपदं परब्रह्मपरमिति प्रतीतिनिरासाय व्याचष्टे - विष्णोरिति । ब्रह्मशब्दार्थः- ब्राह्मणजातिः सन्निति । तस्यैवार्थान्तरमाह - ब्रह्मेति ॥ नवब्रह्मणां सत्वाच्चतुर्मुख इत्युक्तम् । आसीदित्यस्यार्थः- जज्ञ इति ॥ इतो वक्ष्यमाणाज्जगतोऽग्रे । अन्यथा ब्रह्मशब्दस्य परब्रह्मपरत्वे ब्राह्मण- जातिसृष्ट्युक्तिर्न स्यादिति तदेतद् ब्रह्म क्षत्रं विट्शूद्र इत्यनुवादासम्भव इति भावः । ‘तच्छ्रेयोरूपमत्यसृजत क्षत्रम्' इत्येतद्व्याचष्टे - तस्मादिति || ‘यान्येतानि देवक्षत्राणीन्द्रो वरुणः' इत्यादिवाक्यं व्याचष्टे - वायुरिति ॥ तत्रेशानशब्दस्यार्थः- वायुरिति ॥ रुद्रशब्दः सर्वरुद्रपर इति प्रतीतिनिरासाय सदाशिव इत्युक्तम् । मृत्युशब्दस्यार्थः - अनन्त इति ।। इन्द्रशब्दस्यार्थः– गरुड इति ।। पर्जन्यशब्दस्यार्थः- शक्र इति । एतच्च स्वसमकामोपलक्षणमिति भावेन कामश्चेत्युक्तम् । सोमशब्दः स्वसमसूर्योपलक्षक इति भावेन सूर्यस्यापि ग्रहणम् । एवकारद्वयेनेशानादिशब्दानां प्रसिद्धार्थतां निवारयति । अन्यथा रुद्रेशानशब्दयोः यममृत्युशब्दयोश्च पुनरुक्तिः स्यात् । पर्जन्यस्य द्वादशा-दित्यान्तर्गतस्योत्तरत्र वैश्यत्वस्य वक्ष्यमाणत्वेन क्षत्रियत्वानुपपत्तेश्च । पर्जन्यशब्देने- न्द्रग्रहणे च इन्द्रशब्देन पुनरुत्तयापत्तेरिति भावः । एतदप्युपलक्षणपरमिति भावेनैवमाद्या इत्युक्तम् । यद्यपि श्रुतिरविवक्षितक्रमा तथाऽपि प्राधान्यक्रम - मनुसृत्यैव व्याख्यातम् । देवत्रेत्यस्यार्थः- देवानां मध्य इति ।। ‘देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्' इति सप्तम्यर्थेऽत्राप्रत्ययः । श्रेयोरूपमित्यस्यार्थमाह- श्रेयसीति ॥ श्रुतिस्तच्छ्रेयोरूपमित्यादिका । क्षत्रजातिः सर्वजातिभ्यः श्रेयसीत्याहेत्यर्थः । ' तस्मात्क्षत्रात्परं नास्ति' इत्येतद् व्याचष्टे– नैवेति || ब्राह्मणजातेरेव सत्वात्कथमेतदित्यत आह- ब्रह्मजाति - मिति || ‘तस्माद् ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये' इति वाक्यं व्याख्यातुं उक्तस्यापवादमाह - ब्राह्मणाच्चेति ॥