हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्

बृहदारण्यकोपनिषद्भाष्यम्

विंशं ब्राह्मणम्

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १ ॥

सूर्यमंडलनाम्ना तु पात्रेण स्वमुखं हरिः । पिधायैव जगत्सर्वं पश्यत्यमितविक्रमः ॥ उदकं पीयते तेन तमसस्त्रायते जगत् । यतोऽतः पात्रमुद्दिष्टं विद्वद्भिः सूर्यमंडलम् ॥ पूषा पूर्णत्वतो विष्णुर्दृष्टये विष्णुधर्मिणः । स्वमुखं प्रकाशयेदेकं नान्यथा तु कथञ्चन ॥

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् ।

समूह तेजो यत् ते रूपं कल्याणतमं तत् ते पश्यामि ॥ २ ॥

नान्यो यत्तादृशो ज्ञाता तस्मादेकऋषिर्हरिः । यमो नियमानात् प्रोक्तः सूर्य ऊरीकृतेरयम् ॥ ज्ञेयः प्रजापतेरेव प्राजापत्यस्ततः स्मृतः ।

योऽसावसौ पुरुषः सोऽहमस्मि ॥

प्राणे स्थितो यः पुरुषः सोऽसावहमिति स्मृतः ॥ अहेयत्वादसुत्वाच्च मेयत्वाच्चास्मिनामकः ॥

वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ॥ ३ ॥

अदोषत्वाद् अ इत्युक्तो वायुस्तन्निलयो यतः ॥ अनिलं तत एवासावमृतं चेति कीर्त्यते । तदाश्रयोऽपि ह्यमृतः किमु साक्षात्स्वयं हरिः ॥

ॐ क्रतो स्मर कृतं स्मर ॐ क्रतो स्मर कृतं स्मर ॥ ४ ॥

क्रतुश्च ज्ञानरूपत्वात् स एव हि जनार्दनः ।

अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ ५ ॥

॥ इति बृहद्भाष्ये विंशं ब्राह्मणम् ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये सप्तमोऽध्यायः ॥

सोऽग्निरंगप्रणेतृत्वात् विश्वज्ञानविदां वरः ॥ इति च । जुहुराणं अल्पं कुर्वत् । न वा अहमिमं जानातीतिवत् । सर्वत्राप्यहंशब्दोऽहेयत्ववाच्येव ॥