दृप्तबालाकिर्हानूचानो गार्ग्य आस ..

अथ चतुर्थोऽध्यायः

[स्वहृदिस्थभगवद्रूपोपासनाया एव मोक्षजनकत्वसमर्थनम् ]

उपनिषत्

दृप्तबालाकिर्हानूचानो गार्ग्य आस स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति । स होवाच । अजातशत्रुः सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति ॥ १ ॥

स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाच । अजातशत्रुर्मा मैतस्मिन् संवदिष्ठा अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति ।स य एतमेवमुपास्ते अतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २ ॥

भाष्यम्

अतीत्य जगद् धर्मवर्जितत्वेन स्थितत्वादतिष्ठाः। उत्तमत्वान्मूर्धा ।

भावबोधटिप्पणी

तृतीयाध्याये प्रायेण अश्वमेधब्राह्मणादिभिः बाह्याः ब्रह्मविद्या उक्ताः । प्रायेणान्तराः ब्रह्मविद्या अनेनाध्यायेनोच्यन्ते । तत्र प्रथमब्राह्मणेन न बाह्यब्रह्म- विद्या साक्षान्मोक्षसाधिका अपि तर्हि स्वहृदिस्थब्रह्मविद्येत्याह । अतिष्ठाः सर्वेषां भूतानां मूर्धेत्यत्राप्रतीतेः सर्वेषां भूतानां मूर्धा शिर इत्यन्यथाप्रतीतेश्चातिष्ठा मूर्धशब्दार्थावाहअतीत्येति । जगदन्तर्गतस्य कथं जगदतिक्रम इत्यत आह- जगद्धर्मवर्जितत्वेनेति || उत्तमत्वान्मूर्धेति ॥ मूर्ध्नः सर्वाङ्गेषूत्तमत्वादित्यर्थः ।।

Load More