प्रत्यक्षमनुमानं च वाक्यं चेति त्रिधा प्रमा

[प्रत्यक्षम्, अनुमानम्, शब्दचेति त्रीण्येव प्रमाणानि ]  

भाष्यम्

प्रत्यक्षमनुमानं च वाक्यं चेति त्रिधा प्रमा ।

उपमाद्यं प्रमाणं यदेतेष्वन्तर्गतं हि तत् ॥

निर्दोषेन्द्रियसंयोगः प्रत्यक्षमिति गीयते ।

भावबोधटिप्पणी

सौगताद्यागमाः प्रत्यक्षानुमानागमविरुद्धा इंत्युक्तम् । तत्तेषां स्वरूपाज्ञानेन ज्ञातुं शक्यमिति प्रत्यक्षादिस्वरूपप्रदर्शनाय उत्तरो ग्रन्थसन्दर्भः । तत्र तावत् प्रस्तुतत्वादनुप्रमाणं विभागेनोद्दिशति - प्रत्यक्षमिति । प्रमा अनुप्रमाणम् । प्रायेण आसन्नाव्यवहितवर्तमानकतिपयार्थग्राहकं प्रत्यक्षम् । अनासन्नातीतानागत- व्यवहितार्थगोचरमनुमानम् । स्वातन्त्र्येणाशेषार्थविषय आगम इत्यर्थग्रहणक्रमेणो- द्देशः । ननु कथं त्रीण्येव प्रमाणानि ? उपमानार्थापत्त्यादीनां पृथक्प्रमाणत्वादित्यत आहउपमाद्यमिति ।। हि यस्मादन्तर्गतं तस्मात् त्रिधेति सम्बन्धः ।

तत्र प्रत्यक्षलक्षणमाहनिर्दोषेति ॥ यद्यपि 'विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते । प्रत्यक्षशब्दानुसारादनुमेति प्रकीर्तिता । आसमन्ताद् गमयति धर्माधर्मौ परं पदम् । यच्चाप्यतीन्द्रियं त्वन्यत्तेनासावागमः स्मृतः ।।' इत्युक्तरीत्या सञ्ज्ञानिरुक्त्यैवैषां लक्षणसिद्धिः । तथाऽपि प्रत्यक्षे तस्यैव स्पष्टीकरणार्थमनुमानादौ शृङ्गग्राहिकया तज्ज्ञापनार्थं च पुनर्लक्षणारम्भः । निर्दोषेन्द्रियार्थसन्निकर्षं इत्यर्थः । इन्द्रियशब्देन ज्ञानेन्द्रियमुच्यते । निर्दोषत्व- मिन्द्रियार्थयोर्विशेषणम् । अर्थशब्देन तत्तदिन्द्रियविषय उच्यते । अत्रार्थग्रहणेनाऽ- काशादीनां चक्षुरादिसन्निकर्षव्युदासः । निर्दोषत्वग्रहणेन अतिसामीप्या- दिदोषयुक्तार्थानाम् इन्द्रियसन्निकर्षनिरासः । इन्द्रियग्रहणेनार्थानामेवान्योन्यं सन्निकर्षव्युदासः । तन्निर्दोषत्वग्रहणेन मनोऽनधिष्ठितत्वादिदोषवदिन्द्रियाणाम् अर्थसन्निकर्षव्यावृत्तिः । सन्निकर्ष इति इन्द्रियमात्रव्युदासः । गीयत इति स्वीयलक्षणस्य प्रामाणिकत्वोत्त्या अपरोक्षप्रमाव्याप्तं प्रत्यक्षमित्यादि परेषां लक्षणमयुक्तमित्युक्तं भवति । सर्वस्यापि प्रमेयस्येश्वरापरोक्षप्रमाव्याप्तत्वेनाति- व्यापकत्वात् साधनाश्रययोरन्यतरत्वे सतीति विशेषणमिति चेन्न । साधनाश्रययोरेव प्रमाव्याप्तिः सम्भवतीत्येतावता तदुपादानम् । न लक्षणशरीरानुप्रवेशेनेति . त्वदुक्त्ययोगात् । आश्रयग्रहणवैयर्थ्या । ईश्वरस्यापि प्रत्यक्षत्वसिद्ध्यर्थमिति चेत् । कर्तरि ल्युडन्तस्य प्रमाणशब्दस्याननुशासनेनेश्वरप्रामाण्यस्यैवायुक्तत्वादिति ।

Load More