तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने..

[स्वर्ग-सुप्ति - परलोकशब्दाः समानार्थकाः, मुक्तिवाचकाः]

उपनिषत्

तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च सन्ध्यं तृतीयं स्वप्नस्थानं तस्मिन् सन्ध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यतीदं च परलोकस्थानं चाथ यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममाक्रम्योभयान् पाप्मन् आनन्दांश्च पश्यति स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामुपादाय स्वयं विहृत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वापित्यत्रायं पुरुषः स्वयं ज्योतिर्भवति ॥ ९ ॥

भाष्यम्

स्वर्गः सुषुप्तिरित्याख्या मुक्तेरपि यतस्समा ।

परलोको यतो मुख्यो मुक्तिरेव नचापरः ।

अतो द्युसुप्तिमोक्षाणामभिप्रायादिदं वचः ।

सुप्तिरित्यादिकं स्वेति विष्णोराख्या सुखत्वतः ।

पुनरागमनं नाम मुक्तानामपि विद्यते ।

प्रलये तु प्रविश्यैनं भगवन्तं जनार्दनम् ।

स्थित्वा ज्ञानाविलोपेन निर्गच्छन्ति पुनस्ततः ।

नच ज्ञानसुखादीनां तेषां सृष्टौ लयेऽपि वा ।

विशेषः कश्चिदन्तश्च बहिश्चैव रमन्ति ते ।

स्वापयत्येनमिति स स्वपितीत्युच्यते हरिः ।

आनन्दपापलोकादेर्दर्शनं स्वप्रसुप्तयोः ।

अपि विष्णोः सदैवास्ति न जीवस्य कथञ्चन ।

अत्रायं भगवान् विष्णुर्जीवस्य स्वयमेव तु ।

ज्योतिर्विशेषतो भूयान्नैवान्यज्ज्योतिरत्र यत् ।

नहि जीवः स्वयं द्रष्टुं सुप्तः शक्नोति हि ध्रुवम् ।

अतः स नैव जीवोऽयं सर्वं पश्यति सूक्ष्मदृक् ।

स्वप्नेऽन्तरिक्षे स्वर्गे वा न रथाद्याः पुरा स्थिताः ।

तदैव तत्कर्मयोग्यान्निर्मिमीते हरिः स्वयम् । -- इत्यादि महामीमांसायाम् ॥

भावबोधटिप्पणी

इदं परलोकस्थानं चेत्यादिकं न केवलमुक्तरीत्यावस्थालोकोभयमात्रपरं किन्तु संसारमोक्षपरं चेत्यभिप्रेत्याह- स्वर्ग इति ॥ सुप्तिरित्यादिकमिदं वच इति सम्बन्धः । आदिपदेन स्वर्ग इति परलोकस्थानमितीत्यस्य ग्रहणम् यतस्सुप्तिरित्याख्या न केवलं सुप्तिस्वर्गयोः किन्तु मुक्तेरपि समा अतः सुप्तिरितीदं वचो सुप्तिमोक्षाणामभिप्रायात् प्रवृत्तम् । यतः स्वर्ग इत्याख्या न केवलं स्वर्गसुप्त्योः किन्तु मुक्तेरपि समा अतः स्वर्ग इतीदं वचो द्युसुप्तिमोक्षाणामभिप्रायात् प्रवृत्तम् । यतः परलोको मुख्यो मुक्तिरेवामुख्यतः तु स्वर्गसुषुप्ती अतः परलोक इतीदं वचः सुप्तिमोक्षाणां अभिप्रायादिति योज्यम् । सुप्तिरिति स्वर्ग इति वाक्यान्तराभिप्रायेणोक्तं सुप्तिरिति कथं मुक्तेराख्येत्यतः तत्पर्यायस्वापशब्दस्य स्वशब्दवाच्यविष्णुप्राप्तिरूपमुक्तिपरत्वादिति भावेनाऽहस्वेतीति ॥ स्वर्ग इति कथं मुक्तेराख्येत्यतो वाऽहस्वेतीति ॥ स्वरिति वक्तव्ये रेफमविवक्षित्वा स्वेतीत्येवोक्तम् । तं प्रतिगमनात्स्वर्ग इति मुक्तेराख्येति भावः । ननु सुप्तिरिति वचो यदि सुप्तिमोक्षाणामभिप्रावात् तर्हि असुप्तः सुप्तानभिचाकशीतीत्येतन्मुक्तपरत्वेनापि व्याख्येयम् । नच तद्युक्तं शुक्रमादाय पुनरेति स्थानमिति जीवस्य पुनरागमनोक्तेरित्यत आहपुनरागमनमिति ।। तर्हि च पुनरावर्तत इत्यादिश्रुतिविरोध इत्यतः पुनरागमनं विवृणोति - प्रलये त्विति ।। पुनः संसारप्राप्तिरूपपुनरागमननिषेधपरा श्रुतिरिति भावः । निर्गच्छन्ति सृष्टिकाले । ननु मुक्तानां भगवति प्रलये प्रवेशे सृष्टौ निर्गमने चाऽज्ञानदुःखादिकं स्यादित्यत उक्तम् ।। ज्ञानाविलोपेनेति ।। सुखाविलोपेनेत्यपि ग्राह्यम् । तदेव विवृणोति - नचेति । ते मुक्ताः सृष्टौ बहिलये अन्तश्च रमन्त्येव । नच तेषां ज्ञानसुखादीनां कश्चिद् विशेष इति सम्बन्धः । ननु स ंयंत्र प्रस्वपितीति स्वापकर्तृत्वलिङ्गबलाज्जीव एवात्र प्रतिपाद्योऽवगम्यत इति कथं भगवत्परतया व्याख्यानमित्यत आह- स्वापयतीति ॥ नन्वेवमन्तर्णीतणिच्त्वादिनेदं प्रकरणं विष्णुपरतया कुतो व्याख्येयमिति चेत्तस्मिन् सन्ध्ये स्थाने तिष्ठनुभे स्थाने पश्यति तमाक्रममाक्रम्योभयान्पाप्मन आनन्दांश्च पश्यतीत्यस्य विष्णावेव सम्भवात् जीवे चाऽसम्भवादिति भावेनाऽहआनन्देति || लोकादेरित्यत्र लोकशब्देन पृथिवीस्वर्गयोर्ग्रहणम् । आदिपदेन जाग्रत्सुषुप्त्योः संसारमुक्त्योश्च सङ्ग्रहः । अनेनोभे स्थाने इत्येतदुक्तार्थम् । श्रुतौ तस्मिंत्सन्ध्ये स्थाने तिष्ठन्निति स्वप्ने स्थितो भगवानुभे स्थाने पश्यती- त्युक्तम् । तेन स्वप्न एव स्थितस्य विष्णोर्लोकादिदर्शनं न सुप्तिस्थस्येति शङ्का स्यात् । तां परिहर्तुं स्वप्नसुप्त्योरपि स्थितस्येत्युक्तम् । विष्णोरेवेति सम्बन्धः । नन्वात्मैवास्य ज्योतिर्भवतीत्युक्त एवार्थः अत्रायं पुरुषः स्वयञ्ज्योतिर्भवतीति प्रत्यभिज्ञायते । तत्र च जीवस्यैव स्वज्योतिष्ट्वमुच्यते । अत आत्मा भगवानिति व्याख्याने प्रत्यभिज्ञाविरोधः स्यादित्यत आह- अत्रेति । अत्र सुप्त अवस्थान्तरेऽपि भगवतो ज्योतिष्ट्वात् किं विशिष्योच्यते इत्यत आह- विशेषत इति । तथाच इदमपि वाक्यं भगवत्परमेवेति न प्रत्यभिज्ञाविरोध इति भावः । तद्वाक्यस्य जीवपरत्वे बाधकमाह- नहीति । हिशब्दो यस्मादित्यर्थे । स्वयं स्वातन्त्र्येण स्वयञ्ज्योतिष्ट्वं नाम स्वातन्त्र्येण द्रष्टृत्वं तच जीवस्य न सम्भवतीति भावः । अयं अत्रायमिति वाक्यप्रतिपाद्यः । ईश्वरपक्षे च वाक्यार्थो युज्यत इति भावेनाऽह - सर्वमिति || यद्वाऽनन्दपाप- लोकादेर्दर्शनं जीवस्य नास्ति विष्णोरेवास्तीत्युक्तम् । तत्कुत इत्यत आह- नहीति ।। द्रष्टुम् आनन्दपापलोकादिकमिति शेषः ।न तत्र रथाःइत्यादिवाक्यानि स्वप्रमात्रपरत्वप्रतीतिनिरासाय व्याचष्टे - स्वप्न इति ॥