कथमन्यथा ‘स्वयं निहत्य स्वयं निर्माय स्रवत्यः सृजते
प्राज्ञेनात्मना सम्परिष्वक्तः प्राज्ञेनात्मनान्वारूढ..
नचावस्थाभेदेन जीवभेदो व्यावहारिकोऽप्यस्तीत्यत्र किञ्चिन्मानम्
उभयापेक्षमित्युक्ते मोक्षस्थसुषुप्तिरिति मन्दस्याशङ्का
स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति
प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादमृतश्चरित्वा
स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि
आराममस्य पश्यन्ति न तं पश्यति कश्चनेति
स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा ..
स वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्वा ..
स वा एष एतस्मिन् बुद्धान्ते रत्वा चरित्वा ..
कथमन्यथा ‘स्वयं निहत्य स्वयं निर्माय स्रवत्यः सृजते
[ स्वप्नसुषुप्तिषु जीवस्य न ब्रह्मभावः ]
भाष्यम्
कथमन्यथा ‘स्वयं निहत्य स्वयं निर्माय स्रवत्यः सृजते । स हि कर्ता स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति' इत्यादि युज्यते । उक्तार्थे च स्वप्नेन शारीरमित्यादि जीवेश्वरभेदमन्त्रा उक्ताः प्रमाणत्वेन । ईश्वरो जीवस्य भयानि पश्यन् जक्षदिव हसदिव ।
भावबोधटिप्पणी
एवं जीवपरतया प्रतीयमानानामपि लिङ्गानां विष्णौ सावकाशत्वमुक्तं तदनङ्गीकृत्य जीवपरत्वाङ्गीकारे बाधकान्तरमाह- कथमन्यथेति || अन्यथा जीवपक्षे स्वयमेव बाह्यव्यापारविरामकर्तृत्वस्य स्वाप्नपदार्थस्रष्टृत्वस्य सर्वकर्तृत्वस्य च जीवे असम्भवात् । स्वप्नेत्यादिमन्त्रस्यासङ्गतेश्च । नह्ययं जीवप्रतिपादको येन सङ्गतिः स्यादिति भावः । नन्वीश्वरनिष्ठमपि समानत्वस्वप्नपदार्थकर्तृत्वादिकं जीवस्यापि सम्भवत्येव । तस्येश्वराभिन्नत्वेन स्वरूपैक्यविवक्षया समानत्वाद्युक्ति- सम्भवात् । नचैवं यथाऽभेदाभिप्रायेण समानत्वादिकं जीवे नीयते तथा जायमानत्वादिकमप्यभेदाभिप्रायेणेशे नेतुं शक्यत इति किं जीव एवेति निर्बन्धे कारणमिति वाच्यम् । चैतन्यैक्याभिप्रायेणेशगतसमानत्वादेर्जीवे मुख्यवृत्तिवदीश्वरे जायमानत्वादेर्विशिष्टनिष्ठस्यामुख्यतोऽपि वक्तुमयोगात् । नच जीवेशाभेद एव कुत इति वाच्यम् । तदुभयप्रापकलिङ्गसामानाधिकरण्या- न्यथानुपपत्त्यैव तत्सिद्धेः । नच जीवप्रापकलिङ्गानि ईशपरतया व्याख्यातानीति वाच्यम् । एवमभेदेनैवोपपत्तौ तथा व्याख्याने नियामकाभावादित्यत आह— उक्तार्थे चेति ।। यद्यत्रोभयप्रापकलिङ्गान्यथानुपपत्त्या जीवेशाभेदो विवक्षितः स्यात् । तदा स्वप्नेनेत्यादिमन्त्रा असङ्गता विरुद्धाश्च स्युः । उक्तार्थे खल्वेते मन्त्राः प्रमाणत्वेनोक्ताः । जीवेशाभेदो ह्युक्तार्थः । अत्र च जीवेशभेद एवोच्यत इति तत् कुत इति चेत् । असुप्तत्वसुप्तत्वव्यपदेशात् । ‘शुक्रमादाय’ इति कर्मकर्तृव्यपदेशाच्च । कर्मकर्त्रीरुत्सर्गतो भेदस्यैव सत्त्वात् । नच कर्ता ईश्वरः कुत इति वाच्यम् । हिरण्मयत्वैकहंसत्वादिविशेषणात् । कुलायाद्बहिश्चरणस्यापि स्वप्नाद्यवस्थायां जीवस्य स्वतोऽसम्भवात् । अमृतस्येश्वस्यासम्भवात् । न तं पश्यति कश्चनेत्यदृष्टत्वोक्तेश्च । नच जीवस्यादृष्टत्वमस्ति । तं नायतं बोधयेदित्ययोग्यं प्रत्यनुपदेश्यत्वोक्तेश्चेति । तस्मादुक्तरीत्या जीवप्रापकलिङ्गानामीश्वरपरत्वेनैव व्याख्यानं युक्तम् । नतु जीवेशाभेद इत्यर्थः । ननु मन्त्रेष्वपि जीवेशाभेद एव विवक्षितः । अन्यथा कथमसुप्तत्वादीश्वरलिङ्गानां स्वप्नान्तमुच्चावचमीयमान इति भयानि पश्यन्निति जीवलिङ्गानां च सामानाधिकरण्यमुपपन्नं स्यादिति चेत् । न, स्वप्नान्तमुच्चावचमीयमान इत्यस्य अन्यथाव्याख्यास्यमानत्वादिति भावेन जक्षदुतेवापि भयानि पश्यन्निति वाक्यमीश्वरपरतया व्याचष्टे - ईश्वर इति ॥ जक्ष भक्ष हसनयोरिति धातोरिति भावः । तथाचेदमपि जीवेशभेदपरमिति भावः ।