नच केनाप्यवाच्यस्य लक्षणा दृष्टा
[ ब्रह्म अवाच्यं न ]
भाष्यम्
नच केनाप्यवाच्यस्य लक्षणा दृष्टा । क्षीरमाधुर्यविशेषादेरपि तत्तच्छब्देनैव वाच्यत्वात्।
विशदं क्षीरमाधुर्यं गुडे तीक्ष्णं घृते स्थिरम् ॥ इत्यादि च ॥
भावबोधटिप्पणी
ननु सर्वात्मना शब्दावाच्यत्वाङ्गीकारे को दोष इति चेत् । तथा सति वेदाप्रतिपाद्यत्वापत्त्या वेदान्तानामखण्डार्थनिष्ठताभ्युपगमव्याघातात् । ननु निर्गुणे ब्रह्मणि शब्दप्रवृत्तिनिमित्ताभावेन वाच्यत्वाभावेऽपि लक्षणया सर्ववेदप्रतिपाद्यत्वं भविष्यतीति चेत्तत्राह - नचेति । लोके हि केनचित्पदेन वाच्यस्यैव केनचित्पदेन लक्ष्यत्वं दृष्टम् । यथा तीरपदवाच्यस्य तीरस्य गङ्गापदलक्ष्यत्वम् । नच केनापि पदेनावाच्यस्य लक्ष्यत्वं दृष्टम् । येन सर्वशब्दावाच्यस्यापि ब्रह्मणो लक्ष्यत्वं स्यात् । तथाच विप्रतिपन्नं न लक्ष्यं केनापि पदेनावाच्यत्वात् व्यतिरेकेण तीरवदित्यनुमानविरुद्धत्वान्न लक्षणया वेदप्रतिपाद्यत्वमित्यर्थः । सर्वपदार्थानां लक्षणायोग्यत्वान्न सपक्षत्वमिति नासाधारण्यम् । नन्विक्षुक्षीरगुडादीनां माधुर्यविशेषास्तावद् विद्यन्ते । अनुभव- सिद्धत्वात् । नच ते केनापि पदेन वाच्याः । तद्वाचकपदाभावात् । तथापि लक्ष्या दृश्यन्ते । अन्यथा वाग्व्यवहाराभावप्रसङ्गात् । अतस्तत्र व्यभिचारः। यथोक्तं ‘इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । भेदस्तथापि नाख्यातुं सरस्वत्यापि शक्यते' इति । तथाच यथा केनापि पदेनावाच्यानामिक्षुक्षीर- माधुर्यविशेषाणां लक्ष्यत्वं तथा ब्रह्मणोऽपि केनापि पदेन अवाच्यस्य लक्ष्यत्वं स्यादित्यत आह- क्षीरेति । तत्तच्छब्देनैव क्षीरमाधुर्यविशेषादिशब्देनैव । ननु वाचकत्वं पदस्य धर्मः माधुर्यविशेष इति च न पदं किन्तु वाक्यं अनेक- पदात्मकत्वात् । अतः कथं तच्छब्देनैव वाच्यत्वमुक्तमिति चेत् ऐकपद्यमैकस्वर्यं समासप्रयोजनमिति शाब्दैरङ्गीकृतत्वात् । अथवा तत्तच्छब्देन सूदशास्त्रप्रसिद्धेन विशदादिशब्देन वाच्यत्वादित्यर्थः । तत्र प्रमाणमाह-- विशदमिति ॥