सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ..
[ मुख्यप्राणे अङ्गिरसबृहस्पत्यादिनाम्नां निर्वचनम् ]
उपनिषत्
सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः प्राणो वा अङ्गानां रसः प्राणो हि वा अङ्गानां रसस्तस्माद् यस्मात् कस्माच्चाङ्गात् प्राण उत्क्रामति तदेव तच्छुष्यत्येष ह वा अङ्गानां रसः ॥ १९ ॥
एष उ एव बृहस्पतिर् वाग्वै बृहती तस्या एव पतिस्तस्मादु बृहस्पतिः ॥ २० ॥
एष उ एव ब्रह्मणस्पतिर् वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ २१ ॥
एष उ एव साम । वाग् वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् । यद्वैव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः, समोऽनेन सर्वेण तस्मादेव साम, अश्नुते साम्नः सायुज्यं सलोकतां । य एवमेतत् साम वेद ॥ २२ ॥
एष उ वा उद्गीथः । प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्गीथः ॥ २३ ॥
भाष्यम्
स्त्रीगुणैः सर्वपूर्णत्वाद् बृहती तु सरस्वती । अनन्त वेदरूपत्वात्सैव ब्रह्मेति कीर्तिता ॥ विष्णुना बृंहितत्वाद्वा तत्पतिर्वायुरीश्वरः । सारत्वात्स्त्रीषु सा देवी सेत्युक्ता सामरूपतः ॥ गीथेत्युक्ता तदुद्गीथः सामाख्योऽर्धतनुस्तथा । अर्धनारीनरवपुर्वायुः कुत्रचिदीरितः ॥
भावबोधटिप्पणी
अथ भाष्यार्थः
'वाग्वै बृहती' इत्यत्र वाक्शब्दस्य प्रसिद्धार्थत्वप्रतीतिं निवारयन् बृहतीशब्दनिर्वचन-पूर्वकं तद्व्याचष्टे - स्त्रीगुणैरिति ॥ सर्वपूर्णत्वात् सर्वात्मना पूर्णत्वात् । ‘वाग्वै ब्रह्म’इत्येतत् पूर्ववद् द्वेधा व्याचष्टे - अनन्तेति ।।‘तस्या एष पतिः' इति वाक्यद्वयं व्याचष्टे- तत्पतिरिति ॥
‘वाग्वै सा’इत्येतत् व्याचष्टे - सारत्वादिति || ' वागेव गीथा' इत्येतत् व्याचष्टे– सामरूपतः गीथेत्युक्तेति । सामवेदाभिमानित्वाद् इत्यर्थः । न मीयत इत्यम इति स्पष्टत्वादुच्छब्दस्योपनिषदैव निरुक्तत्वात् नैतद्वयाख्या- तम् । ननु यदि सामोद्गीथशब्दान्तर्गत सेति गीथेति शब्दवाच्या सरस्वती तर्हि वायोः सामोद्गीथशब्दवाच्यत्वाभावात् 'एष उ एव सामैष उ एवोद्गीथः 'इति च कथमुक्तम् इत्यत आह- तदिति । तत् तस्मात् सरस्वत्याः सेति गीथेति शब्दवाच्यत्वात्तयाऽर्धतनुर्वायुः उद्गीथसामाख्य इति सम्बन्धः । अत एव श्रुतौ 'सा चामश्च' इति 'उच्च गीथा च ' इति द्वन्द्वसमासोक्तिरिति भावः । विष्णोरर्धनारीनरात्मकत्वं प्रमाणप्रसिद्धं तत्कथं वायोरित्यत आह- अर्धनारीति । कुत्रचित् 'एष उ एव साम' इत्यादौ ।। १७-२३ ।।