सर्वस्मादुत्तम इति सम्यक् स्नेहयुता मतिः
[भक्तेरेव मोक्षसाधनत्वनिरूपणम् ]
भाष्यम्
सर्वस्मादुत्तम इति सम्यक् स्नेहयुता मतिः ।
सुस्थिरा भक्तिरुद्दिष्टा तया मोक्षो नचान्यतः ॥
तया मोक्षो भवत्येव सा चेत्पूर्णा स्वयोग्यतः ।
अपरोक्षदृशा युक्ता सा पूर्णेत्यभिधीयते ।
अपरोक्षदृशिश्चापि महाचार्योक्तदर्शनम् ॥
सोsपि यन्मोक्षनियतं मनसा समुदीरयेत् ।
तस्य दर्शनतो याति मुक्तिं नास्त्यत्र संशयः ||
ध्यानं च गुरुशुश्रूषा नित्यनैमित्तिकाः क्रियाः ।
तीर्थदानजपाद्याश्च स्वाध्यायो हरिकीर्तनम् ॥
द्वादश्यादिव्रतं चैव तुलस्याद्यैरथार्चनम्।
सर्वं भक्त्यर्थमुद्दिष्टं निष्फलन्तु तया विना ॥
विष्णुभक्तितो मुक्तिं याति नान्यः कथञ्चन ।
एतदन्यत्तु यच्छास्त्रं न तच्छास्त्रं कुबर्त्म तत् ॥
विष्णोर्भक्तिमृते मुक्तिर्जीवाभेदो हरेरपि ।
शिवब्रह्मादिसाम्यं च हरेर्मोहार्थमुच्यते ॥
दैत्यानां मोहनार्थाय विष्णोरन्यसमानता ।
हीनता चोच्यते शास्त्रैर्न तद्ग्राह्यं मनीषिभिः ॥
विष्णुवायुगिरीशेन्द्रदेवविप्राः क्रमात् सदा ।
सामर्थ्यतो विहीनास्तु गुणैः सर्वैस्तथैव च ॥
हीनो विष्णुर्न कस्यापि सर्वतोत्तमो मतः ।
एतदन्यत्तु यच्छास्त्रं तदासुरविमोहनम् ॥
तस्मात्सर्वोत्तमं विष्णुं निश्चित्य परमं व्रजेत् ॥ इति हरिवंशेषु ॥
भावबोधटिप्पणी
इतोSपि नैक्यज्ञानं मोक्षसाधनमित्याह - सर्वस्मादिति ।। ननु भक्तेरनादित्वादितः पूर्वमेव कुतो न मुक्ता इत्यत आह- तयेति ॥ केयं भक्तेः पूर्णता इत्यत आह- अपरोक्षेति । स्नेहपूर्वकं रामकृष्णाद्यवतारदर्शिनां कुतो न मुक्तिरित्यत आह- अपरोक्षेति । महाचार्यः शिष्ययोग्यताभिज्ञः । महाचार्योक्तकामसाधनगुणविशिष्टगोपालादिरूपदर्शनस्य मोक्षहेतुत्वाभावादाह- सोऽपीति ॥ मनसा सुप्रसन्नधिया । ननु 'तस्याभिध्यानाद् योजनात्तत्वभावा- यश्चान्ते विश्वमायानिवृत्तिः' इत्यादिश्रुती 'सकृदभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः । मुक्तिभागी' इत्यादिस्मृतौ च ध्यानादेरेव मोक्षसाधनत्वोक्तेर्नचान्यत इति कथमुक्तमित्यत आह- ध्यानं चेति । ननु भवतु विष्णुभक्तिव्यतिरिक्त- मोक्षसाधनाद्यर्थप्रतिपादकपाशुपतादिशास्त्रं कुवर्त्म, वैष्णवपुराणेष्वेव तथोक्तेः का गतिरित्यत आह-- विष्णोर्भक्तिमिति । तदेव विशदयति- दैत्यानामिति || कुतो न ग्राह्यमित्यत आह- विष्विति ।। विप्राः ऋषयः । हेतुमुत्त्वा साध्यमाह - एतदिति ॥ उपसंहरति-- तस्मादिति ॥