यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति ..

[ अर्चिरादिमार्गः ]

उपनिषत्

यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वं आक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा लम्बरस्य खं तेन स ऊर्ध्वं आक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते स लोकमागच्छत्यशोकमहिमं तस्मिन् वसति शाश्वतीः समाः ॥ इति द्वादशं ब्राह्मणम्

भाष्यम्

प्रवहं वायुपुत्रं च सूर्यसोमौ च विद्युतम् ।

प्राप्य प्रधानवायुं च याति तत्परमं पदम् ॥ इति ब्रह्माण्डे ॥

भावबोधटिप्पणी

तस्य हैतस्य हृदयस्याग्रं प्रद्योतते' इत्युक्तप्रकारेणोत्क्रान्तोऽपरोक्षज्ञानी केन मार्गेण भगवन्तं प्राप्नोतीत्यतो मार्गमाह- यदा वा इति ब्राह्मणेन | वायुमागच्छतीति वायुशब्दः प्रधानवायुपरः इति प्रतीतिनिरासाय तद्व्याचष्टे- प्रबहमिति ।। अन्यथा पूर्वगमनानुपपत्तेरित्यर्थः । यथोक्तम्-आतिवाहिकस्तल्लिङ्गात्’ (ब्र.सू. ४.३.३) इति । ननु 'स वायुमागच्छति' इति श्रुतौ वायुर्यदि प्रधानवायुस्तर्हि तस्य प्राप्यत्वमेव न स्यात् श्रुतावनुक्तत्वात् । अनुक्तोऽपि ग्राह्य इति चेत् तर्हि पूर्वोक्तो मुख्यवायुरुत्तरोक्तः प्रवह इति किं न स्यादिति चेन्न । द्यौर्वाव विद्युत् तत्पतिं वायुमुपगम्येत्युत्तरप्राप्यस्य वायोर्विद्युदाख्यसरस्वती- पतित्वविशेषणात् मुख्यत्वसिद्धेः । पूर्वप्राप्यस्य वायोः प्रवहत्वसिद्धेरिति भावेनाहविद्युतं प्रधानवायुं च प्राप्येति । यथोक्तम्-उभयव्यामोहात्तत्सिद्धेः' (ब्र.सू. ४. ३. ५) इति । नात्र वायोः प्रथमप्राप्यत्वं मन्तव्यम्। तथात्वे तेऽर्चिषमभिसम्भ- अर्चिषोऽहरित्युत्तराध्यायगतवाक्यविरोधात् । नचाधिकारिभेदेनोभयोरपि प्रथमप्राप्यत्वम् । द्वे सृती अशृणवमित्यत्र ज्ञानिनामेकमार्गस्यैवोक्तत्वात् । अत एव सूत्रकारः 'अर्चिरादिना तत्प्रथिते:' इत्याह । एतद्वाक्यस्य वायोर्द्वितीय- प्राप्यत्वपरत्वोपपत्तेः । तथाच श्रुतिः । 'इतो गतो द्वितीयां गतिं वायुमागच्छति' इति । अत एव सूत्रकारोऽपिवायुशब्दादविशेषविशेषाभ्याम्' (ब्र.सू. ४.३.२) इत्याह । नचैवमर्चिषोऽहरिति वाक्यविरोधः तत्राह्नो द्वितीयप्राप्यत्वावगमात् अधिकारिभेदेनोभयोरपि द्वितीयप्राप्यत्वस्य च निरस्तत्वादिति वाच्यम् । द्वितीयां गतिमिति निरवकाशवाक्यबलेन तद्वाक्यस्याह्नस्तृतीयप्राप्यत्वपरत्वात् । तथापि नायमेवाशेषमार्गक्रमः किन्तु 'उत्क्रान्तस्तु शरीरात्स्वाद्गच्छत्यर्चिषमेव तु । ततो हि वायोः पुत्रं च योऽसौ नाम्नातिवाहिकः । ततोऽहःपूर्वपक्षं वाप्युदक्संवत्सरं तथा । तटितं वरुणं चैव प्रजापं सूर्यमेव च । सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा । ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम्' इति प्रमाणान्तरादुक्त एव । एवञ्च तदनुसारेणात्रापि वायोः पूर्वमर्चिषो वायोरनन्तरमहरादीनां प्रजापत्यन्तानां सोमानन्तरं वैश्वानरेन्द्रध्रुवाणां ग्रहणमिति ज्ञेयम् ॥

खण्डार्थः

यदा यस्मिन् काले पुरुषोऽपरोक्षज्ञानी अस्माल्लोकाच्छारीरात्प्रैति उत्क्रान्तो गच्छति । सोऽर्चिर्द्वारा वायुं प्रवहं वायुमागच्छति । अन्येषामविद्यमाना वायु- प्राप्तिरुत्क्रान्तस्यैव कुत इति चेदन्येषामयोग्यत्वात्स्वलोकप्रवेशने मार्गं न ददाति वायुरस्य तु ददातीत्याह- तस्मा इति । स वायुस्तस्मै उत्क्रान्तपुरुषाय तदागमनायेति यावत् । तत्र स्वलोके विजिहीते आगमनमार्गे छिद्रं करोतीत्यर्थः । कियत्परिमाणं यथा रथचक्रस्य खं छिद्रं एवं स वायुस्तस्मै स्वलोकं प्राप्ताय ज्ञानिने ज्ञानिनः स्वलोकादुत्तरलोकगमनायेति यावत् । यत्र लोके विजहीते गमनमार्गे विवरं करोति यथा रथचक्रस्य खं छिद्रमित्यपि योज्यम् । स ज्ञानी तेन छिद्रेणोर्ध्व ऊर्ध्वं आक्रमते गच्छति । लम्बरस्य वाद्यविशेषस्य । ततः क्व गच्छतीत्यत आह- स आदित्य मिति । स ज्ञानी अहरादिद्वारा आदित्यमागच्छतीत्यर्थः । ततः क्व गच्छतीत्यत आहस चन्द्रमसमिति । तर्हि व विश्राम इत्यत आह- सलोकमिति ॥ सः चन्द्रलोकाद्वैश्वानरादिद्वारा मुख्यवायुं प्राप्तो ज्ञानी अशोकमहिमं शोकराहित्याख्यमाहात्म्यविशिष्टम् । अशोकं शोकरहितं अहिमं हिमादिदुःख- रहितं वा लोकं सत्यलोकं विष्णुलोकं वा गच्छति तस्मिँल्लोके शाश्वतीस्समाः बहून् संवत्सरान् चतुर्मुखमुक्तिपर्यन्तं वसतीत्यर्थः ।।

इति द्वादशं ब्राह्मणम् ।। ७.१२ ।।

Load More