याज्ञवल्क्येति होवाच

उपनिषत्

[कालकृतविकारपरिहारोपायः ]

याज्ञवल्क्येति होवाच । यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इत्यध्वर्युणार्त्विजा चक्षुषाऽऽदित्येन चक्षुर्वै यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः स मुक्तिः साऽतिमुक्तिः ॥ ४ ॥

याज्ञवल्क्येति होवाच । यदिदं सर्वं पूर्वपक्षमपरपक्षाभ्यामाप्तं सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षायोराप्तिमतिमुच्यत इत्युद्गात्रर्त्विजा वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता तद्योऽयं प्राणः स वायुः स उद्गाता स मुक्तिः साऽतिमुक्तिः ॥ ५ ॥

[मुक्तलोकप्राप्त्युपायः]

याज्ञवल्क्येति होवाच । यदिदमन्तरिक्षमनारम्भणमिव केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति ब्रह्मणर्त्विजा मनसा चंद्रेण मनो वै यज्ञस्य ब्रह्मा तद्यदिदं मनः सोऽसौ चंद्रः स ब्रह्मा स मुक्तिः साऽतिमुक्तिरित्यतिमोक्षाः॥ ६ ॥

भाष्यम्

होतर्यग्नौ वाचि चैव यो विष्णुं मुक्तिदं स्मरेत् ।

नित्यं स मुच्यतेऽध्वर्युसूर्यचक्षुष्षु यः स्मरेत् ॥

अधिकः प्रकाश एवास्य मुक्तावन्येभ्य इष्यते ।

मुक्तेभ्योऽपि तथोद्गातृवायुप्राणेषु यः स्मरेत् ॥

पूर्णचन्द्रं सदा पश्येदधिकाह्लादसंयुतः ।

मनोब्रह्मनिशेशेषु यो विष्णुं सर्वदा स्मरेत् ॥

अप्रयत्नेन लोकं स विष्णोर्याति न संशयः ।

होत्रग्न्यागदीनि नामानि विष्णोः सर्वाणि मुख्यतः ॥

तत्सम्बन्धात्तदन्येषां स वै होत्रादिकर्मकृत् ।

भावबोधटिप्पणी

भगवानेव सर्वोत्तमः सर्वगुणपरिपूर्णः सर्वमुमुक्षूपास्यो मोक्षद इत्यध्यायद्वयोक्त- मृषिभिर्मीमांसया समर्थितमित्याहानेनाध्यायेन । तत्राऽदौ मीमांसाप्रकारमेवाऽ- ख्यायिकयाऽह - जनको ह वैदह इत्यादिना । अप्रतिपत्तिविप्रतिपत्तिनिरासाय ब्राह्मणं प्रमाणेन व्याचष्टेहोतरीत्यादिना ॥ केन यजमानो मृत्योराप्तिमतिमुच्यत इति प्रश्नस्य होत्रर्त्विजाग्निना वाचेति परिहारवाक्यं होत्रादिशब्दानां प्रतीतार्थपरत्वनिरासाय व्याचष्टे - होतरीति । स मुक्तिरित्यस्याभिप्रायमाह - मुक्तमिति ॥ नित्यं सदा । अध्वर्युणा ऋत्विजा चक्षुषाऽदित्येनेति वाक्यं पूर्ववद् व्याचष्टे - अध्वर्युसूर्यचक्षुष्विति ॥ मुक्तिदं विष्णुं यो नित्यं स्मरेत् स मुच्यत इति पूर्वेण सम्बन्धः । खण्डद्वयगतसातिमुक्तिरित्येतस्य तात्पर्यमाहअधिक इति । एतदुपासनामकुर्वद्भ्योऽन्येभ्यो मुक्तेभ्योऽपि । अस्यैवान्यादित्रिके आदित्यादित्रिके च विष्णूपासकस्यैव । मुक्तावधिकप्रकाश इष्यते प्रामाणिकैरित्यर्थः । उद्गात्रर्त्विजा वायुना प्राणेनेति वाक्यं व्याचष्टे -- तथेति ॥ मुक्तिदं विष्णुमित्यनुवर्तते । तत्फलप्रदर्शनपरतया सातिमुक्तिरित्यस्य तात्पर्यमाहपूर्णचन्द्रमिति । तदेव विवृणोति - अधिकाह्लादसंयुत इति ॥ भवतीति शेषः । पूर्णचन्द्रं पूर्णसुखं विष्णुमिति वा । ब्रह्मणार्त्विजा मनसा चन्द्रेणेति वाक्यं व्याचष्टे - मन इति ।। मुक्तिदमित्यत्राप्यनुवर्तते । सातिमुक्तिरित्यस्य तात्पर्यमाह - अप्रयत्नेनेति । ननु होत्रादिशब्दानां प्रसिद्ध- होत्रादिपरत्वात्कथं होतर्यग्नावित्यादिव्याख्यानमित्यत आह- होत्रिति ।। मुख्यतः परममुख्यतः । प्रसिद्धिविरोधं परिहरति- तत्सम्बन्धादिति ॥ जुहोतीत्यादिव्युत्पत्तिः प्रसिद्ध होत्रादिष्वेव न विष्णावित्यत आह- स वा इति .....दोऽवधारणे । होत्रादिषु स्थित्वेति शेषः ।

Load More