वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः ..

[वाग्देव्या: गोरूपम् ]

उपनिषत्

वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्- कारो हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरस्तस्याः प्राण ऋषभो मनो वत्सः ॥

इति दशमं ब्राह्मणम्

भाष्यम्

सरस्वती तु गोरूपा तस्या देवादयोऽखिलाः ।

स्तनानेवोपजीवन्ति तस्या वायुः पतिः प्रभुः ॥

वत्सोमनोऽभिमान्यस्याः सरस्वत्याः सदाशिवः ॥

इति प्रभञ्जने ॥

भावबोधटिप्पणी

सर्वविद्यासिद्ध्यङ्गभूतसरस्वतीविषयां विद्यामाह - वाचमिति ब्राह्मणेन ॥ अत्र वाग्धेनुत्वमविद्यमानमेवोपासनार्थमुच्यत इति प्रतीतिनिरासाय ब्राह्मणं प्रमाणेन व्याचष्टेसरस्वतीति ॥ स्तनानेवेति ॥ स्वाहाकारादिषु चतुर्षु सरस्वतीस्तन- सन्निधानादित्यर्थः । तस्याः प्राण ऋषभ इति वाक्यं व्याचष्टे - तस्या इति || मनो वत्स इत्यस्यार्थमाह- वत्स इति ॥

खण्डार्थः

धेनुं गोरूपां वाचं वागभिमानिनीं सरस्वतीमुपासीत । किमित्युपासनीय- मित्यतो देवाद्युपजीव्यस्तनवत्त्वेनेति वक्तुमाह- तस्या इति । तस्याः गोरूपायाः सरस्वत्याश्चत्वारः स्तनाः । के त इत्यत आह- स्वाहाकार इति ।। स्वाहा- काराभिमानीत्यादि व्याख्येयम् । तस्यैतस्याः द्वौ स्तनौ देवा उपजीवन्ति कौ तावित्यत आहस्वाहाकारमिति || मनुष्याः पितर उपजीवन्तीति सम्बन्धः । तस्याः गोरूपायाः वाचः प्राणो मुख्यवायुः ऋषभः पतिः मनो मनोभिमानी रुद्रो वत्स इत्युपासीतेति सम्बन्धः ।।

इति दशमं ब्राह्मणम् ।। ७.१० ।।