अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो..
स्वभर्तुर्विद्याबलं जानत्यपि युष्माकमेनं जेतुं न शक्य ..
वादो जल्पो वितण्डेति त्रिविधा विदुषां कथा
केवलं तत्त्वविज्ञानमुद्दिश्य गुरुशिष्ययोः
वेदाः सर्वे शुभं मानं सेतिहासपुराणकाः
अदुष्टमिन्द्रियं त्वक्षमुपपत्तिस्तथाऽनुमा
तत्त्वनिर्णयवैलोम्ये दण्ड्या वादकथास्वपि
स्वसिद्धान्ते प्रमाणं च परसिद्धान्तदूषणम्
सतोरेव यदा स्पर्धा गुणतोऽर्थार्थमेव वा
सर्वज्ञा वैष्णवाः पञ्च सप्त वोभयसम्मताः
विद्यासाम्ये कथा कार्या ह्यन्यथैकपराजयः
सतामेव वितण्डा स्यादसतां जल्प एव तु
यस्य नैवाऽगमो मानं तं ब्रूयादागमाश्रयः
अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो..
अथ अक्षरब्राह्मणम्
[वाद-जल्प-वितण्डालक्षणम्]
उपनिषत्
अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति पृच्छ गार्गीति ॥ १ ॥
भाष्यम्
पूर्वं गार्ग्या जीवानामुत्तरोत्तराश्रयत्वं सर्वेषां भगवदाश्रयत्वं च श्रुतम् । नतु मूलप्रकृतेराधारत्वमाधेयत्वं वा । अतः पुनः पृच्छति विजिगीषुकथा- त्वाद् ब्राह्मणानुज्ञया ।
भावबोधटिप्पणी
ननु यदिदं सर्वमप्स्वोतं च प्रोतं चेति कस्मिन् खल्वाप ओताश्च प्रोताश्चेत्यादिना वाचक्नव्या प्रश्ने कृते वायौ गार्गीत्यादिना याज्ञवल्क्येन परिहारस्योक्तत्वात् यदूर्ध्वं याज्ञवल्क्य दिव इत्यादि पुनः प्रश्नः किमर्थ इत्यतस्तदभिप्रायमाह- पूर्वमिति । सर्वेषां जीवानामित्यनुवर्तते । अतः मूलप्रकृतेराधारत्वाधेयत्वयो- रश्रुतत्वात् पुनः पृच्छति । सर्वाधारं सर्वाधारप्रकृत्याधारं चेति शेषः । पृच्छ गार्गीति ब्राह्मणानुज्ञया प्रश्नकरणे निमित्तमाह - विजिगीष्वति || गार्गी ब्राह्मणानुज्ञया याज्ञवल्क्यं पृच्छति । अस्याः कथायाः विजिगीषुकथात्वाद् गार्ग्याः पूर्वं पराजितत्वात् । विजिगीषुकथायामेकपराजये कथायाः परिसमाप्तत्वेन सभ्यानुज्ञां विना प्रश्नस्याकर्तव्यत्वादिति भावः । ननु याज्ञवल्क्येन ब्राह्मणैः सह क्रियमाणकथा विद्यापरीक्षार्थेत्युपक्रमपर्यालोचनया सिद्धम् । विद्यापरीक्षा च वादेनैव । वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम् । इति वादस्य पूर्वत्वमित्यनुव्याख्यानेऽभिधानात् । तथाच विजिगीषुकथात्वादिति कथमुच्यते । तथात्वे जल्पत्वप्राप्त्या विद्यापरीक्षार्थत्वानुपपत्तेरिति चेन्न । विजिगीषुकथात्वे जल्पत्वं स्यादिति किं विद्यापरीक्षार्थायाः कथाया जल्पशब्दवाच्यत्वमापद्यते किंवा वादशब्दवाच्यत्वाभावः यद्वा समाहाररूपं कथान्तरम् अथवा निमित्तद्वय- समावेशे वादशब्दस्यैव व्यवहारानुपपत्तिः । नाऽद्यः । जल्पशब्दप्रवृत्तिनिमित्तसत्त्वेन इष्टत्वात् । न द्वितीयः । तत्त्वनिर्णयार्थत्वलक्षणवादशब्दप्रवृत्तिनिमित्त- सत्त्वात् । नापि तृतीयः । तुलायां प्रमाणप्रमेयशब्दप्रवृत्तिवदुपपत्तेः । अन्यथा तुलाया अपि प्रमाणप्रमेयादितो विधान्तरतापत्तेः । नापि चतुर्थः । निमित्तद्वयसमावेशेऽपि अस्यां कथायां बादशब्दप्रवत्तिनिमित्तस्यैव मुख्यत्वेन वादशब्दस्यैव व्यवहारोपपत्तेः । कथकौ यद्यप्यादितो विजिगीषू । तथापि सभ्यादिभिर्विजिगीषां परिभाव्योत्पादिता तत्त्वनिर्णयार्थतैव कथोपयोगिनीति वादशब्दप्रवत्तिनिमित्तं हि मुख्यमिति सुधायामेव 'जल्प इत्यपि नाम स्याद् वादस्यैतादृशस्य तु' (ब्र.सू.अनु. २.१.२) इत्यनुव्याख्यानव्याख्यानावसरे कथितत्वात् ।