जीवपक्षे प्रसिद्धत्वात् कतम आत्मेति प्रश्नो न युक्तः

[ स्वाप्नपदार्थसृष्टिकर्ता न जीव: ]

भाष्यम्

जीवपक्षे प्रसिद्धत्वात् कतम आत्मेति प्रश्नो न युक्तः । नच जीवः समानः सन्नुभौ लोकौ सञ्चरति । सुखदुःखविशेषवत्त्वात् । नच सुखदुःखादेर्मिथ्यात्वे किञ्चिन्मानम्।

भावबोधटिप्पणी

ननु बाधकाभावात् कथं जीवलिङ्गानामन्यार्थत्वमित्यतो जीवपक्षे बाधकमाहजीवपक्ष इति । यद्यात्मैवास्य ज्योतिर्भवतीत्यत्रात्मा जीवः स्यात् तर्हि कतम आत्मेति प्रश्नो न युक्तः स्यात् जीवस्याहमिति प्रत्यक्षविषयत्वेन प्रसिद्धत्वात् प्रसिद्धप्रश्नस्य चासम्भवादित्यर्थः । भगवतश्च परोक्षत्वेनाप्रसिद्धत्वात् तद्विषयकप्रश्नो नानुपपन्न इति भाव: । बाधकान्तरमाहनचेति || समानो विकारः कुत इत्यत आह- सुखेति । जीवस्य द्युपृथिवीलोकसञ्चरणे सुषुप्तिजाग्रत्सञ्चरणे च यथाक्रमं सुखदुःखविशेषवत्त्वान्न समानत्वमित्यर्थः । ननु सुखदुःखविशेषवत्त्वेऽपि जीवस्य न समानत्वमनुपपन्नम् । सुखदुःखादेर्मिथ्यात्वेन वास्तवसमानत्वाविरोधित्वात् नह्यारोपितनीलिम्ना गगनस्य नीरूपत्वं विरुद्धमित्यत आहनचेति ।। स्यादेतदेवं यदि सुखादेर्मिध्यात्वमेव स्यान्न चैतदस्ति । तत्र प्रमाणाभावात् । न तावदत्र प्रत्यक्षमस्ति । इदं नीलमितिवत् सुखादिकं मिथ्येति प्रतीत्यभावात् । प्रत्युत सुखादिकं सदित्येव प्रतीतेश्च । नाप्यनुमानं लिङ्गाभावात् । विमतं मिथ्या दृश्यत्वादित्यनुमानमस्तीति चेन्न । मिथ्यात्वस्यासत्त्वेऽपसिद्धान्तापातात्। अनिर्वचनीयत्वे अप्रसिद्धविशेषणत्वात् सत्यविवेकस्य मिथ्याभावस्य साध्यत्वान्नाप्रसिद्धविशेषणतेति चेन्न । सत्यविवेकस्यासत्वानतिरेकेणापसिद्धान्तानिस्तारात् । असदनिर्वचनीयसाधारणं सद्विविक्तत्वमिति चेन्न । तर्ह्यसत्वमादायार्थान्तरतापातात् । अपरोक्षतया प्रतीयमानत्वेनासत्वबाधे अनिर्वचनीयत्वमेव सेत्स्यतीति चेन्न । असतोऽप्यपरोक्ष- प्रतीतिसम्भवेन तस्यासत्वाबाधकत्वात् । अन्यथा शुक्तिरूप्यादा-

वसत्प्रातिभासिकवैलक्षण्यज्ञानाभावे प्रवृत्त्यभावापत्तेः । अनिर्वचनीयस्यैवाभावेन धूमबाष्पयोः धूमत्ववत् सद्विविक्तत्वस्य साधारणत्वायोगाच्च । दृश्यत्वं च यदि दृग्विषयत्वं तदाऽऽत्मनि व्यभिचारः । अन्यथा वेदान्तजनितविज्ञानस्य आत्मज्ञानत्वाभावापातात् । नचात्मज्ञाननिवर्तकत्वेनात्मज्ञानत्वं तदविषयकस्य तदज्ञाननिवर्तकत्वे अतिप्रसङ्गात् । यदि च दृग्जन्यफलाश्रयत्वं तदाऽसिद्धम् । ज्ञाततादिरूपफलस्यान्यत्र निराकृतत्वात् । दृष्टान्तस्य साध्यसाधनवैकल्यं चेति । नाप्यागमः । नेह नानेत्यादेरन्यार्थत्वस्योक्तत्वात् । नापि ख्यातिबाधान्यथानुपपत्तिः । असतोऽपि परोक्षापरोक्षप्रतीतिसम्भवेनासच्चेन्न प्रतीयेतेत्यापादनासम्भवात् । सच्चेन्न बाध्येतेत्यत्र चेष्टापत्तिः । नाप्युपमानं तस्य सादृश्यादिनिंयतविषयत्वात् । नाप्यभावः प्रत्यक्षेण सुखदुःखादेः सत्यत्वस्यैवावगमेन सत्वानुपलब्ध्यसिद्धेरिति । तदेतदुक्तम् || किञ्चिदिति ||

Load More