अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयति ..
[ वायुब्रह्मणोः अन्योन्यता ]
उपनिषत्
अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयति वा अन्नमृते प्राणात् प्राणो ब्रह्मेत्यक आहुस्तन्न तथा शुष्यति वै प्राण ऋतेऽन्नादेते ह्येव देवते एकधा भूयं भूत्वा परमतां गच्छतस्तद्ध स्माह प्रातृदः पितरं किंस्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति स ह स्माह पाणिनामा प्रातृदः कस्त्वेनयोरेकधा भूयं भूत्वा परमतां गच्छतीति तस्मा उ हैतदुवाच वीत्यन्नं वै वि अन्ने हीमानि सर्वाणि भूतानि विष्टानि रमिति प्राणो वै रं प्राणे हीमानि सर्वाणि भूतानि रमन्ते सर्वाणि ह वा अस्मिन् भूतानि विशन्ति सर्वाणि भूतानि रमन्ते य एवं वेद ॥
इति चतुर्दशं ब्राह्मणम्
भाष्यम्
अन्नाभिमानी ब्रह्मैव प्राणो वायुरुदाहृतः ।
अन्योऽन्यानुप्रविष्टौ तौ सर्वदैव सुसंस्थितौ ॥
वायुं विना ब्रह्मणोऽपि शरीरं पूतिमेष्यति ।
वायु शोषमायाति विना ब्रह्माणमञ्जसा ॥
तयोरेवं परिज्ञानी वासिष्ठः पाणिनामकः ॥
ब्रह्मवायुविदे कार्यं किं मया साध्वसाधु वा ॥
भावबोधटिप्पणी
ब्रह्मवायुविषयां विद्यामाह - अन्नमिति । तत्रान्नप्राणशब्दयोः प्रसिद्धार्थत्व- प्रतीतिनिरासाय व्याचष्टे– अन्नाभिमानीति । एते त्वेव देवते एकधा भूयं भूत्वा परमतां गच्छत इति वाक्यं तयोरैक्यमुच्यत इति प्रतीतिनिरासाय व्याचष्टे - अन्येति । एकधा भूयं भूत्वेत्यस्यार्थः अन्योन्यानुप्रविष्टाविति, परमतां गच्छन्त इत्यस्यार्थः सुसंस्थिताविति, श्रुतौ भूत्वैवेत्येवकारसम्बन्ध इति भावेन तदभिप्रायोक्तिः सर्वदै- वेति । ननु किमन्योन्यानुप्रवेशेन ब्रह्मवाय्वोः स्वत एव समर्थत्वादित्यतः प्राप्तं पूयति वाऽन्नमृते प्राणात् शुष्यति वै प्राण ऋतेऽन्नादिति वाक्यद्वयं व्याचष्टे - वायु- मिति । वायुर्वायुदेहः तद्धस्माह प्रातृदः पितरमिति वाक्यं व्याचष्टे – तयोरिति ।। तयोरेवं परिज्ञानीत्यनेन तद्धस्मेति तच्छब्दस्योक्तप्रकारेण तयोर्ज्ञानित्वादित्यर्थः । उक्तो भवति । प्रातृ इत्यस्यार्थो वासिष्ठ इति । स ह स्माह पाणिनामा प्रातृद इत्युत्तरत्रानुवादात् पाणिनामक इत्युक्तं वसिष्ठं प्राब्रवीदित्युत्तरेणान्वयः । किंस्विदैवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति वाक्यं व्याचष्टे – ब्रह्मेति ।।