नैवेह किञ्चनाग्र आसीन्मृत्युनैवेदमावृतमासीदशनाया ..

उपनिषत्

अथ अश्वमेधब्राह्मणम्

[अप्सृष्टिनिरूपणम् ]

नैवेह किञ्चनाग्र आसीन्मृत्युनैवेदमावृतमासीदशनाया हि मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति । सोऽर्चन्नचर- तस्यार्चत आपोऽजायन्तार्चतो ह वै मे कमभूदिति तदेवार्क- स्यार्कत्वं कंह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १ ॥

भाष्यम्

सर्वसंहारकं विष्णुं देव जीवांस्तथैव च ।

कालं त्रिगुणसाम्यं च कर्माणि प्राणमिन्द्रियम् ॥

संस्कारं चैव वेदांश्च नर्ते किञ्चिल्लये त्वभूत् ।। इति ब्रह्मतर्के ॥

लयकाले परमात्मनैवाऽवृतमासीत् ।

अशनं जगदेतद्यन्नयत्यात्मेच्छया हरिः ।

अशनाया ततः प्रोक्त उदन्या कर्मनायकः ॥ इति ब्राह्मे ॥

भावबोधटिप्पणी

अथ भाष्यार्थः

प्रकृताश्वमेधयज्ञो देवादिभिरप्यनुष्ठित इति वक्तुं तदुपयुक्तामाख्यायिकामाह- नैवेत्यादिना ।। तत्राऽदिवाक्यम् इह संसारमण्डलेऽग्रे मन आदेरुत्पत्तेः प्राक् किञ्चिदपि नामरूपप्रविभक्तविशेषं नैवाऽसीन्न बभूवेति परैर्व्याख्यातम् ! तदसत्। अप्रामाणिकत्वात् प्रमाणविरुद्धत्वाच्चेति भावेन तद्वाक्यं प्रमाणेन व्याचष्टे - सर्वसंहारकमिति । देवीमित्यादिवद्विष्णुमित्येव वाच्ये यत्सर्वसंहारकमिति विशेषणमुक्तं तेन सर्वसंहारकर्तुः संहारकारणाभावादिति विष्णोरवस्थाने युक्तिरुक्ता । देवीं रमां, त्रिगुणसाम्यं प्रकृतिं, कर्माणि अदृष्टानि, प्राणम् अहङ्कारकार्यविशेषसूक्ष्मरूपं, इन्द्रियमिन्द्रियसूक्ष्मरूपम् । विष्ण्वादीनां प्रलयकाले अभावे निमित्तकारणाद्यभावेनोत्तरत्र सृष्टिर्न स्यादिति भावः । यद्वा, इह अस्वतन्त्रवर्गे किमपि प्रलयकाले नैवाऽसीदित्येव श्रुत्यर्थ: । ननु तर्हि प्रलये रमाजीबादीनामपि सत्वात् कथमियमुक्तिरित्यतः प्रवृत्तं 'मृत्युनैवेदमावृत- मासीत्' इति वाक्यं व्याचष्टे - लयकाल इति ।। तथाचाव्यक्तत्वाद्यपेक्षयैव नैवाऽसीदित्युक्तं नत्वभावाभिप्रायेण । अव्यक्तादौ तद्व्यपदेशस्य लोके दृष्टत्वादिति भावः | अथवा यदि ' नैवेह किञ्चनाग्र आसीत्' इति वाक्यस्य रमादिव्यतिरिक्तं किमपि नासीदित्यर्थः । तर्हि 'नासदासीद्' इत्यादिश्रुतिविरोधः । तत्र रजःशब्दोपलक्षितप्रकृत्यादीनां विशिष्य निषेधादित्यतः प्रवृत्तं मृत्युनैवेति वाक्यं व्याचष्टेलयकाल इति ।। पूर्वोक्त एवाभिप्रायः । यद्वा, विष्ण्वादिव्यतिरिक्तं किमपि नासीदिति पूर्ववाक्यार्थः । तत्र विष्णुरमादीनां प्रलये सतां किं साम्यं न इति प्रवृत्तं मृत्युनेति वाक्यं व्याचष्टे - लयकाल इति । अनेन मृत्युशब्दो हिरण्यगर्भपर इति परेषां व्याख्यानमपास्तम् ।अद्भ्यः सम्भूतो हिरण्यगर्भः' (महाना. १. १. १ ) इत्यादिश्रुत्या हिरण्यगर्भस्याप्जन्यत्व- प्रतीतेरप्सृष्टेः पूर्वं हिरण्यगर्भस्यैवाभावात् । स यद्यदेवासृजत' इत्यादेरपि तत्परत्वप्राप्तौअत्ता चराचरग्रहणात् ' ( ब्र. सू. १.२.९) इत्यादि सूत्रविरोधाच्च । मृत्योरावरकत्वं कुत इत्यत उक्तम्- अशनाययेति ।। तद्यथावरकत्वे हेतुप्रतिपादकं स्यात्तथा तं परमात्मनि निर्वक्ति- अशनमिति ॥ अश्यत इत्यशं तं नयतीति अशनाया । अशनायेत्युक्त इत्यर्थः । अनेनाशितुमिच्छा अशनाया सैव मृत्योर्लक्षणं तया लक्षितेन मृत्युनेति परकीयं व्याख्यानं प्रमाणविरुद्धमित्युक्तं भवति । यस्मात् कर्मनायकस्तत उदन्येति प्रोक्त इत्यर्थः । अप्शब्दापरपर्यायोद- शब्दस्य कर्मवाचित्वात् । अत एव 'तस्मिन्नपो मातरिश्वा दधाति' इत्यत्राप्- शब्दः कर्मपरतया व्याख्यातः 'तस्मिन् कर्माण्यधान्मरुत्' इति । न्येत्यस्य 'नायकार्थत्वादिति भावः । यद्वा, अशनं आ सम्यगात्मेच्छया यापयतीत्यशनाया | तथाच परमात्मनः सर्वसंहारकत्वेन स्वोदरे सर्वस्य निक्षिप्तत्वेनाऽवरकत्वमिति भावः ||

Load More