अथैतस्य प्राणस्याऽपः शरीरं ज्योतीरूपमसौ ..
[ वाणीपतिवाय्वोरुपासनं मोक्षसाधनम् ]
अथैतस्य प्राणस्याऽपः शरीरं ज्योतीरूपमसौ चन्द्रस्तद् यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रस्त एते सर्व एव समास्सर्वेऽनन्तास्स यो हैतानन्तवत उपास्तेऽन्तवन्त स लोकं जयत्यथ यो हैताननन्तानुपास्ते अनन्त स लोकं जयति ॥ १९ ॥
भाष्यम्
द्युपृथिव्यग्निसूर्यापां सोमस्याप्यभिमानिनः।
स इन्द्रः परमैश्वर्यादशत्रुः समवर्जनात् ॥
वायुरेते समा व्याप्तौ ब्रह्मेरौ गुणतोऽधिकौ ।
अनन्ताश्च गुणा ह्येषामन्यजीवव्यपेक्षया ॥
तेभ्योऽप्यनन्ता विष्णोस्तु तेषामेवमुपासकः ।
नित्यलोकोपभोगी स्यादनित्यस्यान्यथा भवेत् ॥
भावबोधटिप्पणी
'तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निः ' ' अथैतस्य मनसा द्यौः शरीरं ज्योतीरूपमसावादित्यः ' ' अथैतस्य प्राणस्याऽपः शरीरं ज्योतीरूपम् असौ चन्द्रः' इति वाक्यत्रयं व्याचष्टे - धुपृथिवीति । मनोऽभिमानी ब्रह्माद्यु सूर्ययोर्वागभिमानी सरस्वती पृथिव्यग्योः । प्राणाभिमानी वायुः अपां सोमस्य चाभिमानीति विवेक: । ' स इन्द्रः स एषोऽसपत्नः' इत्येतद् व्याचष्टे– स इन्द्र इति ।। असपत्न इत्यस्यार्थः- शत्रुरिति ॥ नन्वसुराणामेव शत्रूणां सत्वात्कथमशत्रुरित्याशङ्कापरिहारकतया 'द्वितीयो वै सपत्नः ' इत्यस्याभिप्रायमाह– समवर्जनादिति । विरोधिसमवर्जनादित्यर्थः । असुराणां च नीचत्वादिति भावः । ननु सरस्वत्याः ब्रह्मवायुभ्यां नीचत्वात्कथं ‘त एते सर्व एव समाः' इत्युक्तमित्यतस्तदभिप्रायमाह - एत इति ॥ नच ब्रह्मवाय्वोरेव कथं व्याप्तिः? अणुश्चेति प्राणाणुत्वस्य समर्थितत्वादिति वाच्यम् । देहान्तर्गतरूपेणाणुत्वेऽपि देहाद्बहिर्वर्तमानेन मुख्यवायुरूपेण व्याप्तेरप्य-ङ्गीकारात् । तथाच श्रुतिः–‘स वा एष प्राणोऽणुर्महान्नामान्तर्वा अणुर्बहि-र्महान्' इति । ‘सर्वेऽनन्ताः’ इत्येतद् व्याचष्टे - अनन्ताश्चेति ॥ किं निरुपचरितमानन्त्यम्? नेत्याह– अन्येति ।। सावधारणमेतत् । कुत इत्यत आह- तेभ्य इति ।। 'अथ यो हैताननन्तानुपास्ते' इत्यस्यार्थमाह- तेषा-मिति ।। ब्रह्मसरस्वतीवायूनामित्यर्थः । एवमन्यनीचव्यपेक्षयाऽनन्तगुण- वत्त्वेन । ‘स यो हैतानन्तवत उपास्ते' इत्यादेरर्थमाह- अनित्यस्येति । अन्यथा तद्गुणवत्त्वेन । उपासक इत्यनुवर्तते । अनित्यस्य लोकस्योपभोगीति बुद्ध्या विवेकेन सम्बन्धः ।। १७-१९ ।।