आप एवेदमग्र आसुस्ता आपः ..

[भगवतः प्रथमावतारः वासुदेव: ]

उपनिषत्

आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापतिं प्रजापतिर्देवांस्ते देवाः सत्यमेवोपासते ॥ १ ॥

भाष्यम्

सदा सर्वगुणापानादापो नारायणः स्मृतः ।

द्वितीयं रूपमसृजद्वासुदेवं स आत्मनः ॥

ब्रह्म सत्यमिति प्राहुर्वासुदेवाभिधं प्रभुम् ।

तस्माद्ब्रह्माऽजनि ततो देवाः सर्वेऽपि जज्ञिरे ॥

तस्माद्ब्रह्मादयो देवा वासुदेवमुपासते ॥

भावबोधटिप्पणी

नारायणाख्यं परं ब्रह्म सत्यं वासुदेवाख्यमासीदित्युक्तं तदेव विवृणोति - आप इति ब्राह्मणेन || अत्राप्शब्दो न प्रसिद्धोदपरः । तासां कार्यत्वेन महाप्रलयेऽ- वस्थानायोगात् । नच अव्याकृतात्मनाऽवस्थिता एवापो ग्राह्या इति वाच्यम् । तथापि तासां सत्याख्यपरब्रह्मसर्जकत्वायोगात् । नच सत्यशब्देन चतुर्मुखः ब्रह्म प्रजापतिमित्युत्तरवाक्यविरोधादिति भावेन ब्राह्मणं प्रमाणेन व्याचक्षाणा-स्तावदप्पशब्दार्थमाहसदेति ।। ता आपः सत्यमसृजन्तेति वाक्यं सत्यं सत्यवचनमिति प्रतीतिनिरासाय व्याचष्टे - द्वितीयमिति ।। आत्मनो द्वितीयं रूपमित्यन्वयः । सत्यं कर्तृ ब्रह्मा सृजतेति निरासाय सत्यं ब्रह्मेत्येतद्व्याचष्टे - ब्रह्मेति ॥ ब्रह्म प्रजापतिमित्येतदसृजतेति पदानुवृत्त्या व्याचष्टे - तस्मादिति ।। प्रजापतिर्देवानि- त्येतत्पूर्ववद्व्याचष्टे - तत इति ।। ते देवाः सत्यमेवोपासत इत्यत्र देवशब्देन प्रजापतिजन्यदेवानामेव ग्रहणमिति प्रतीतिं निवारयंत्सत्यस्यैवोपास्तौ निमित्तमाह- तस्मादिति ।। तदुत्पन्नत्वादित्यर्थः ।। १ ।।

Load More