आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त ..

बृहदारण्यकोपनिषद्भाष्यम्

पञ्चमं ब्राह्मणम्

आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापतिं प्रजापतिर्देवांस्ते देवाः सत्यमेवोपासते ॥ १ ॥

सदा सर्वगुणापानादापो नारायणः स्मृतः । द्वितीयं रूपमसृजद्वासुदेवं स आत्मनः ॥ ब्रह्म सत्यमिति प्राहुर्वासुदेवाभिधं प्रभुम् । तस्माद् ब्रह्माऽजनि ततो देवाः सर्वेऽपि जज्ञिरे ॥ तस्माद्ब्रह्मादयो देवा वासुदेवमुपासते ।

तदेतत् त्र्यक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृतमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति नैवं विद्वांसमनृतं हिनस्ति ॥ २ ॥

॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये पञ्चमं ब्राह्मणम् ॥

॥ इति बृहद्भाष्ये सप्तमाध्याये पञ्चमं ब्राह्मणम् ॥

ततत्वादन्यथाज्ञानं तीत्येव समुदीर्यते ॥ तस्याधस्तात् सदात्मा तु सादयन्ननृतं हरिः । उपरिष्टाच्च यन्नामा नाशयन्ननृतं स्थितः ॥ एवं यो वेद तं विष्णुं नास्य मिथ्यादृशिर्भवेत् । योग्यतापेक्षयोपासाऽथापरोक्ष्याच्च तत्फलम् ॥ सम्यग्ददात्यन्यथा च भवेदेवोपकारिणी । अत्ययोग्याय चेत् सा स्याद्विपरीतफलप्रदा ॥ वैपरीत्यं तु विघ्नः स्यान्न तु पापं कथञ्चन ॥ इत्याधारे ॥