दृप्तबालाकिर्हानूचानो गार्ग्य आस स होवाचाजातशत्रुं ..

चतुर्थोऽध्यायः

अजातशत्रुब्राह्मणम्

स्वह्रदिस्थभगवद्रूपोपासनाया एव मोक्षजनकत्वसमर्थनम्

दृप्तबालाकिर्हानूचानो गार्ग्य आस स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति । स होवाच । अजातशत्रुः सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति ॥ १ ॥

स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाच । अजातशत्रुर्मा मैतस्मिन् संवदिष्ठा अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति ।स य एतमेवमुपास्ते अतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २ ॥

अतीत्य जगद् धर्मवर्जितत्वेन स्थितत्वादतिष्ठाः । उत्तमत्वात् मूर्धा ।

स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाच । अजातशत्रुर्मा मैतस्मिन् संवदिष्ठा बृहत्पाण्डुरवासाः सोमो राजेति वा अहमेतमुपास इति ।स य एतमेवमुपास्तेऽहरहः सुतः प्रसूतो भवति नास्यान्नं क्षीयते ॥ ३ ॥

स होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन् संवदिष्ठास्तेजस्वीति वा अहमेतमुपास इति ।स य एतमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति ॥ ४ ॥

स होवाच गार्ग्यो य एवासौ आकाशे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाच । अजातशत्रुर्मा मैतस्मिन् संवदिष्ठाः पूर्णमप्रवर्तीति वा अहमेतमुपास इति । स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात् प्रजोद्वर्तते ॥ ५ ॥

स होवाच गार्ग्यो य एवासौ वायौ पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाच । अजातशत्रुर्मा मैतस्मिन् संवदिष्ठाः इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति ।स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ ६ ॥

स्वयमेवापराजितबहुरूपत्वादपराजिता सेना भगवान् । जिष्णुरुत्तमः । अन्येषां जेता अन्यतस्त्यजायी ।

स होवाच गार्ग्यो य एवासौ अग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाच । अजातशत्रुर्मा मैतस्मिन् संवदिष्ठा विषासहिरिति वा अहमेतमुपास इति ।स य एतमेवमुपास्ते विषासहिर्ह भवति विषासहिर्हास्य प्रजा भवति ॥ ७ ॥

विषासहिः असह्यः ।

स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाच । अजातशत्रुर्मा मैतस्मिन् संवदिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति ।स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्माज्जायते ॥ ८ ॥

स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाच । अजातशत्रुर्मा मैतस्मिन् संवदिष्ठाः रोचिष्णुरिति वा अहमेतमुपास इति ।स य एतमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः सन्निगच्छति सर्वांस्तानतिरोचते ॥९॥

स होवाच गार्ग्यो य एवायं यन्तं पश्चाच्छब्दोऽनूदेत्येतमेवाहं ब्रह्मोपास इति । स होवाच । अजातशत्रुर्मा मैतस्मिन् संवदिष्ठा असुरीति वा अहमेतमुपास इति ।स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति नैनं पुरा कालात् प्राणो जहाति ॥ १० ॥

स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाच । अजातशत्रुर्मा मैतस्मिन् संवदिष्ठाः द्वितीयोऽनपग इति वा अहमेतमुपास इति ।स य एतमेवमुपास्ते द्वितीयवान् ह भवति नास्माद्गणश्छिद्यते ॥ ११ ॥

स होवाच गार्ग्यो य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाच । अजातशत्रुर्मा मैतस्मिन् संवदिष्ठाः मृत्युरिति वा अहमेतमुपास इति ।स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति नैनं पुरा कालान्मृत्युरागच्छति ॥ १२ ॥

स होवाच गार्ग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाच । अजातशत्रुर्मा मैतस्मिन् संवदिष्ठाः आत्मन्वीति वा अहमेतमुपास इति ।स य एतमेवमुपास्ते आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा भवति स ह तूष्णीमास गार्ग्यः ॥ १३ ॥

आत्मनि हिरण्यगर्भे । आत्मन्वी चित्तवान् । चित्ताभिमानित्वात् तस्य ।

स होवाचाजातशत्रुरेतावन्नू३ इत्येतावद्धीति, नैतावता विदितं भवतीति । स होवाच गार्ग्य उप त्वा यानीति ॥ १४ ॥

स्वहृदि स्थितं स्वनियामकं भगद्रूपमुपास्यैव मोक्षो भवति । देवतासु भगवन्तमुपास्य तत्तद्देवतासमीपं प्राप्य पुनः स्वहृदिस्थमुपास्यैव मोक्षो भवतीत्यतो नैतावता विदितं भवतीत्युक्तम् ।

स होवाचाजातशत्रुः प्रतिलोमं वै तद्यद्ब्राह्मणः क्षत्रियमुपेयाद् ब्रह्म मे वक्ष्यतीति व्येव त्वा ज्ञापयिष्यामीति तं पाणावादायोत्तस्थौ तौ ह पुरुषं सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयाञ्चक्रे बृहन्पाण्डुरवासः सोम राजन्निति स नोत्तस्थौ तं पाणिना पेषं बोधयाञ्चकार स होत्तस्थौ ॥ १५ ॥

स्वहृदिस्थभगवद्रूपस्य स्वस्मिन् विशेषसम्बन्धज्ञापनार्थं बृहत्पाण्डुरवास इत्याद्यामन्त्रणम् । तेभ्यो नामभ्योऽप्यस्य शरीरे विशेषसम्बन्ध इत्यतः पाणिपेषणेन जीवमुत्थापयामास भगवान् । येषां बहिरुपासनेन मोक्षस्तेषामपि ह्रद्युपासनं किञ्चित् कर्तव्यमेव ।

स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाऽभूत्स, कुत एतदागादिति तदु ह न मेने गार्ग्यः ॥ १६ ॥

स होवाच । अजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद् , य एष विज्ञानमयः पुरुषस् तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते तानि यदा गृह्णाति अथ हैतत्पुरुषः स्वपिति नाम तद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः ॥ १७ ॥

स्वहृदिस्थेन भगवद्रूपेण विशेषसम्बन्धदर्शनार्थमेव यत्रैष एतत्सुप्तोऽभूदित्यादि प्रश्नप्रतिवचनं समस्तम् । यत्र यस्मिन् परमेश्वरे विज्ञानमये एष जीवः सुप्तोऽभूत् । यत्रेत्यधिकरणभूत एव य एष विज्ञानमय इति परामृश्यते । अन्योऽन्तर आत्मा विज्ञानमयः । विज्ञानं ब्रह्म चेद्वेद इत्यादिश्रुतेः । तानि यदा परमात्मा गृह्णाति तदैतत्पुरुषो जीवः स्वपिति नाम ।

स यत्रैत् स्वप्नया चरति ते हास्य लोकास्तदुतेव महाराजो भवत्युतेव महाब्राह्मण उतेवोच्चावचं निगच्छति स यथा महाराजो जनपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८ ॥

स यत्र परमात्मा स्वप्नया नाड्या चरति तदा जीवः उच्चावचं निर्गच्छतीव । सर्वदा महाराजवत् प्राणान् गृहीत्वा परमात्मा परिवर्तते । जीवस्तु कदाचिदेव स्वप्ने राजवदात्मानं पश्यति कदाचिद्ब्राह्मणवच्छ्वमार्जरादिवद् वा ।

अथ यदा सुषुप्तो भवति तदा न कस्यचन वेद, हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात् पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते स यथा कुमारो वा महाराजो वा महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥१९॥

आनन्दस्य परमात्मनोऽतिघ्नीं समीपम् । कुमारो रुद्रः । महाराजो वायुः । महाब्राह्मणो ब्रह्मा । न हि जीवो विज्ञानपूर्वकं प्राणानां विज्ञानमादत्ते । न च सर्वप्राणलोकदेवभूतानां स्रष्टा ।

स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति । तस्योपनिषत् सत्यस्य सत्यमिति । प्राणा वै सत्यं तेषामेष सत्यम् ॥ २० ॥

॥ इति अजातशत्रुब्राह्मणम् ॥

आदित्यचन्द्रविद्युत्सु भूतेष्वादर्श एव च । गच्छत्पाश्चात्यशब्देन चक्षुश्छायागतं तथा ॥ हिरण्यगर्भसंस्थं च सदोपास्य हरिं परम् । तद्देवसार्ष्णितामेत्य हृद्युपास्य हरिं पुनः ॥ मुक्तिमेत्यथ यो बाह्यान् मुक्तिमेष्यति सोऽपि तु । हृदि किञ्चिदुपास्यैव विष्णुं मुक्तिमनुव्रजेत् ॥ यानि सूर्यादिनामानि विष्णोस्तानि न संशयः । तदुक्तान्येव सूर्यादिराकृष्यैवोपचारतः ॥ विशेषेण तु सम्बन्धो यतः स्वहृदि संस्थिते । जीवस्यातो न सोमादिनाम्नाऽऽहूतो हरिः परः ॥ जीवं च वारयेत् तत्र यदा विष्णुः सनातनः । स्वप्नं पश्यति जीवोऽयं यदा विज्ञानरूपिणम् ॥ सुषुम्नासंस्थितं विष्णुमेति तत्सुप्तिमेष्यति । सम्यग्ज्ञानमयाद्विष्णोरुत्थानं चाप्ययं व्रजेत् ॥ प्राणानां चैव लोकानां देवानां प्राणिनामपि । सत्यसत्यो हरिः स्रष्टा पाता विलयकृत् तथा ॥ नियन्ता मोक्षदश्चैव विष्णुरेव सनातनः ॥ इति नारायणश्रुतौ ॥