सोऽकामयत द्वितीयो म आत्मा जायेतेति
[ब्रह्मसरस्वत्योरुत्पत्तिः]
उपनिषत्
सोऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुनः समभवदशनायां मृत्युस्तद् यद् रेत आसीत्स संवत्सरोऽभवन्न ह पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभर्यावान् संवत्सरस्तमेतावतः कालस्य परस्ताद- सृजत तं जातमभिव्याददात्स भाणमकरोत्सैव वागभवत् ॥ ४ ॥
भाष्यम्
आत्मा ब्रह्मा मे द्वितीयो जायेतेत्यकामयत ।
वायुरेव ब्रह्मा भवतीति दर्शयितुं वायोः सृष्टिः प्रथममुक्ता ।
वायुरेव यतो ब्रह्मपदं नियमतो ब्रजेत् ।
सहैव जननेऽप्यस्मात्पूर्वं वायोर्जनिं वदेत् ॥
क्वचित्तु ब्रह्मणः पूर्वं प्राधान्यात्तत्पदस्य च ॥ इति ब्रह्मतर्के ॥
आत्मा विरिञ्चः सुमनाः सुधौतश्चेति कथ्यते ।
ब्रह्मा चतुर्मुखश्चेति पूर्वजो यः प्रजापतिः ॥ इति शब्दनिर्णये ।
स मनसा स्वेच्छया वाचं श्रियं देवीं मिथुनं समभवत् ।
मम द्वितीयो जायेत ब्रह्मेति भगवान् परः ।
वेदाभिमानिनीं देवीं श्रियं समभवत्प्रभुः ॥
स्वेच्छयैव यतः शक्तिस्तां विनाऽपि हरेः सदा ॥
ततः संवत्सरो नाम ब्रह्मा समभवत्प्रभोः ।
तं गर्भमुदरे बिभ्रद्यावत्संवत्सरं रमा ॥
तं जातमत्तुं स्वमुखं विदार्य पुरुषोत्तमः ।
श्रुत्वा रावं पुनस्तस्य व्यदधात्सृष्टये प्रभुः ।। इति कारणविवेके ॥
भावबोधटिप्पणी
अथ भाष्यार्थः
'सोऽकामयत द्वितीयो म आत्मा जायेत' इति वाक्यं परैः स मृत्युरकामयत । किं द्वितीयः मे मम आत्मा शरीरं येनाहं शरीरी स्यां तत् जायेतेत्येवमकामयत इति व्याख्यातम् । तदसत् । उदाहरिष्यमाणप्रमाणविरोधादिति भावेन व्याचष्टे - आत्मेति || द्वितीयो वाय्वपेक्षया । अनेन स इत्यकामयतेत्यन्वयो दर्शितः । ननु आगमे कचिद् ब्रह्मणा सह वचिद् ब्रह्मानन्तरं वायोर्जन्मोक्तेः कथमत्र ब्रह्मजन्मोक्तेः पूर्वं बायुजन्मोक्तिरित्यत आह- बायुरेवेति । उक्तार्थे प्रमाणमाह- वायुरेवेति । वदेत् श्रुतिरिति शेषः । ननूभयोः सह जननेऽपि अस्तूक्तनिमित्तेन क्वचिद्वायुजन्मोक्तेः प्राथम्यम् । कचिद्ब्रह्मजन्मोक्तेः प्राथम्ये किं निमित्तमित्यत आह- क्वचिदिति ॥ आत्मा ब्रह्मेति व्याख्यानमभिधानेन गमयति- आत्मेति । यः पूर्वजः प्रजापतिरित्यन्वयः । दक्षादिव्यावृत्त्यर्थं पूर्वज इति विशेषणम् ।
यद्वा, पूर्वज इत्येतच्चतुर्मुखश्चेतीतिशब्दात्पूर्वं योज्यम् । स मृत्युर्मनसा पूर्वोत्पन्नेन वाचं त्रयीलक्षणां मिथुनं द्वन्द्वभावं समभवत्सम्भवनं कृतवानित्यादिना ‘स मनसा वाचं मिथुनं समभवत्' इत्येतत् परैरन्यथा व्याख्यातम् । तदसदिति भावेन व्याचष्टे – स इति । द्वितीय इति स मनसेत्यनयोर्वाक्ययोः स्वकृतं व्याख्यानं द्रढयन् खण्डं प्रमाणेन व्याचष्टे - ममेत्यादिना ॥ ब्रह्मा द्वितीयो जायेतेतीत्यन्वयः । वाचमित्यस्यार्थः- वेदाभिमानिनीमिति । श्रिया मिथुनीभावं विना ब्रह्माणमुत्पादयितुमशक्तत्वे स्वेच्छयेति व्यर्थमित्यत आह-यत इति ।। ‘तद् यद् रेत आसीत्स संवत्सरोऽभवत्' इत्येतद् व्याचष्टे - तत इति ।। ततो रेतसः मिथुनीभावानन्तरं वा । अनेन ' न ह पुरा ततः संवत्सर आस' इत्येतदुक्ततात्पर्यं भवति । 'तमेतावन्तं कालमबिभर्यावान् संवत्सरः' इत्येतद् व्याचष्टे– तं गर्भमिति || ' तं जातमभिव्याददात्' इत्येतद् व्याचष्टे- तमिति । 'स भाणमकरोत् ' ' स ऐक्षत' इति वाक्यद्वयादर्थतः सिद्धस्यार्थस्य कथनम् - श्रुत्वा रावमिति ॥ स्तुतिरूपं शब्दमित्यर्थः । ' स तया वाचा तेनाऽत्मनेदं सर्वमसृजत' इत्युत्तरखण्डस्थवाक्यतात्पर्यकथनम्— व्यदधादिति ।। तमित्यनुवर्तते । अत एव तत्त्वप्रकाशिकायां भाष्योदाहृतप्रमाणगतसृष्टि- कर्मण्ययोजयदिति वाक्यव्याख्येयत्वेन 'स तया' इति वाक्यमुदाहृतम् ।