आत्मा ब्रह्मा

[ चतुर्मुखाचरिता: गृहस्थधर्माः ]

भाष्यम्

आत्मा ब्रह्मा ।

आत्मा तु जगतां ब्रह्मा तस्याऽत्मा भगवान् हरिः ।

स एव जातः प्रथमं वासुदेवाच्चतुर्मुखः ||

 सोऽकामयत भार्या मे स्यात्पुत्रस्तदनन्तरम् ।

ततो वित्तं मम स्याच्च कर्म कुर्यां ततो हरेः ॥

इति सोऽपि न तान् प्राप ततोsपूर्णत्वमात्मनः ।

मत्वा पूर्णत्वसिद्धयर्थं भार्यां वाचमकल्पयत्॥

प्राणं पुत्रं तथा वित्तं चक्षुर्बाह्यमथान्तरम् ।

ज्ञानाख्यं श्रोत्रमेवासौ कर्म स्वात्मानमेव तु ॥

एवं स मानसे यज्ञे त्वयजत्केशवं विभुम् ।

ततोऽस्य वाचः सम्भूता भार्या तस्य सरस्वती ॥

पुत्र प्राणादभूद् वायुर्दिशो लोका हिरण्मयाः ।

तस्यापरोक्षतां यातो भगवान् पुरुषोत्तमः ॥

सर्वविद्या ददौ ताश्च श्रोत्रेण जगृहे विभुः ।

आत्मना सर्वकर्माणि चकार भगवत्परः ॥

भावबोधटिप्पणी

पूर्वमात्मैवेदमग्र आसीदित्यादिकमीश्वरपरतया व्याख्यातम् । इदानीं चतुर्मुख- परतयाऽपि व्याख्यातुम् आत्मशब्दार्थमाह- आत्मेति ।। कुत इत्यतस्त- प्रमाणमाह- आत्मा त्विति ।। स्वामीत्यर्थः । एवं सतिआहुरात्मेति तं देवम्' इत्युक्तश्रुतिविरोधः स्यादित्यत आह- तस्येति ।। एवमात्मशब्दार्थमुक्त्वा 'आत्मैवेदमग्र आसीत्' इति वाक्यार्थमाह- स एवेति । इदमग्र इत्यस्यार्थः-- प्रथममिति || आसीदित्यस्यार्थः - जात इति ॥ वासुदेवादिति शेषोक्तिः । सोऽकामयतेत्यादि व्याचष्टे - स इति । तदनन्तरं भार्याप्राप्त्यनन्तरम् । तत उभयप्राप्त्यनन्तरम् । वित्तं मानुषं दैवं च । ततः त्रितयप्राप्त्यनन्तरम् । इत्यकामयतेति सम्बन्धः । ' स यावदप्येतेषाम्' इत्यादि वाक्यं व्याचष्टे-- सोऽपीति ॥ तस्य कृत्स्नतेत्यस्य तात्पर्यम्पूर्णत्वसिद्ध्यर्थमिति ।। वाग्जायेत्यादि व्याचष्टे - भार्यामिति । प्राणं बलं चक्षुर्बाह्यं मानुषं वित्तं श्रोत्रं ज्ञानाख्यमान्तरं दैवं वित्तम् अकल्पयदिति सम्बन्धः । स्वात्मानं स्वदेहम् । देहान्तात्पञ्चकादित्युत्तरत्रानुवादात् । एवं कल्पनेन किं कृतवानत आह- एवमिति ।। स्वरूपभूतवागादिभिः बाह्यजायादिप्रतिनिधिभूतैः पञ्चभिर्मानसयज्ञे कृते बाह्यानि जायापुत्रमानुषदैववित्तकर्माणि च जातानीत्यर्थत्वेन च वाग्जायेत्यादिवाक्यं व्याचष्टे - तत इति । मानसयज्ञादित्यर्थः । अनेन वाक् प्राण इत्यादिप्रथमा पञ्चम्यर्था, जन्यजनकयोरभेदोपचारो वेत्युक्तं भवति । दिशश्चक्षुषः श्रोत्राज्ज्ञानमभूदिति ग्राह्यम् । तदुपपादयति - तस्येति || आत्मना देहेन चकार उत्पादयामास ।।

Load More