सा होवाच मैत्रेय्यत्रैव मा भगवानमूमुहन्न प्रेत्य सञ्ज्ञास्तीति

[अमुक्तानां मुक्तदर्शनं नास्ति ]

उपनिषत्

सा होवाच मैत्रेय्यत्रैव मा भगवानमूमुहन्न प्रेत्य सञ्ज्ञास्तीति

स होवाच न वा ओ अहं मोहं ब्रवीम्यलं वा अर इदं विज्ञानाय ॥ १३ ॥

यत्र हि द्वैतमिव भवति ।

तदितर इतरं जिघ्रति तदितर इतरं पश्यति ।

तदितर इतरं शृणोति ।

तदितर इतरमभिवदति ।

तदितर इतरं मनुते ।

तदितर इतरं विजानाति ।

यत्र वा अस्य सर्वमात्मैवाभूत् तत्केन कं जिघ्रेत्।

केन कं पश्येत् केन कं शृणुयात् ।

तत् केन कमभिवदेत् तत् केन कं मन्वीत ।

तत् केन कं विजानीयाद्येनेदं सर्वं विजानाति ।

तं केन विजानीयाद् विज्ञातारमरे केन विजानीयादिति ॥ १४ ॥

॥ इति मैत्रेयीब्राह्मणम् ॥ ४ ॥

भाष्यम्

मुक्तानां सञ्ज्ञाऽप्यन्यैर्न ज्ञायते शास्त्रं विना । सञ्ज्ञा नास्तीत्युक्तत्वा अलं वा अरे इदं विज्ञानायेत्युक्तेर्न विजानातीत्युक्ते प्रतिज्ञाविरोधः । नच सर्वाज्ञानं पुरुषार्थः ।

भावबोधटिप्पणी

न हास्योद्ग्रहणायैव स्यादित्युक्तसैन्धवखिल्यस्थानीयमुक्तधर्मप्रतिपादकतया न प्रेत्य सञ्ज्ञाऽस्तीति वाक्यं व्याचष्टे - मुक्तानामिति || अपिशब्देन मुक्तस्वरूपं समुच्चीयते । अन्यैरमुक्तैः | अमुक्तानामपि शास्त्रेण मुक्तस्वरूपादिज्ञानसद्भावादाह- शास्त्रं विनेति । तथाच अन्यैरज्ञायमानत्वाभिप्रायेणैव सञ्ज्ञा नास्तीत्युक्तम् । नत्वभावाभिप्रायेण । तथा सति 'अनन्तं वै नाम' इत्यादिश्रुतिविरोधादिति भावः । ननु परोक्तरीत्या प्रेत्य मुक्त्यनन्तरं सञ्ज्ञा ज्ञानं मुक्तस्य नास्ति मुक्तो न विजानातीत्येवार्थः किन्न स्यादित्यतस्तत्रान्तरानुपपत्तिं तावदाह- सति || न विजानातीत्युक्ते । सञ्ज्ञा, नास्तीत्यस्य न विजानातीत्यर्थत्वे । अलं वा अरे इदं विज्ञानायेत्युक्तेः न प्रेत्य सञ्ज्ञास्तीति मुक्तस्वरूपप्रतिज्ञया विरोधः स्यात् । कुतः ? सञ्ज्ञा नास्तीति मुक्तस्य ज्ञानाभावमुक्त्वा इदं मुक्तजातं विज्ञानाय विज्ञातुमलं समर्थमिति मुक्तस्य ज्ञानसद्भावोक्तेरित्यर्थः । किञ्च तस्य वाक्यस्य मुक्तो न विजानाति इत्यर्थत्वे मोक्षस्यापुरुषार्थत्वं स्यादित्याह - नचेति ॥

Load More