द्वया ह प्राजापत्या देवाश्चासुराश्च ..

[रुद्रादिदेवानाम् असुरावेशः ]

उपनिषत्

अथ उद्गीथब्राह्मणम्

द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति ॥ १ ॥

भाष्यम्

द्वा ब्रह्मसुतास्तत्र दैतेया बहवः स्मृताः

तमोरूपाः, सत्त्वरूपा अल्पसङ्ख्या सुराः स्मृताः ॥

बहुत्वात्तैर्जिता देवाः शङ्करस्य रेण च ।

यज्ञेन विष्णुमभ्यर्च्य तत्रोद्गातृबलेन च ॥

जयामैनानिति स्मृत्वा वह्न्यादीनप्यचूचुदन् ॥

भावबोधटिप्पणी

अथ भाष्यार्थः

अश्वमेधादिषु वायुरेवोद्गाता कर्तव्यः । तस्यैव तत्र प्राप्तविघ्नपरिहारक्षमत्वादिति भावेन तत्रोपयुक्तां काञ्चन कथामाह - द्वया इत्यादिना || इदं ब्राह्मणं द्वयाः द्विप्रकाराः प्राजापत्याः प्रजापतेर्हिरण्यगर्भस्य यजमानावस्थस्येमेऽपत्यभूताः गोलकावस्था वागादयः प्रजापत्याः के ते द्विप्रकाराः ? देवाश्चासुराश्च । शास्त्रीयज्ञानकर्मवासनावासिता द्योतनात्मका देवाः । प्रत्यक्षानुमानजनितदृष्ट- प्रयोजनकस्वाभाविकज्ञानकर्मवासनावासिताः असुरा इत्यादिना परैरन्यथा व्याख्यातम् । तदसत् । देवासुरादिशब्दानां वागादिगोलकपरत्वे 'ते होचु- र्वागुदगायत् ते विदुः' इत्यादिसंवादानुपपत्तेः । नहि तेषां जडानां वागादिकरण- मस्ति । सुखप्रतिपत्त्यर्थं श्रुत्या वागादेः करणान्यारोप्य संवादाद्युपदिश्यत इति वदन् देवानां प्रियः श्लाघनीयप्रज्ञः । तथात्वे काव्यादिवदौत्प्रेक्षिकार्थत्वप्रसङ्गात् । देवासुरादिशब्दानां प्रसिद्धार्थपरित्यागेन अप्रसिद्धार्थकल्पने मानाभावाच्चेति भावेन प्रसिद्धार्थपरत्वेनैव ब्राह्मणं प्रमाणेन व्याचष्टे - तत्रेति ॥ तत इत्यस्यार्थः- तत्रेति ।। तयोः देवासुरभागयोरित्यर्थः । ननु असुराणां केषाञ्चित् कदाचित् साधनसम्पत्त्या स्वभावाभिभवेन देवत्वप्राप्तौ देवभागस्य ज्यायस्त्वम् असुरभागस्याल्पत्वं च स्यादिति कथमेवमुक्तमित्यत आह- तमोरूपाः सत्वरूपा इति ॥ स्वरूपस्य च अनभिभव इति भावः ।त एषु लोकेष्वस्पर्धन्त' इत्यनन्तरम् अध्याहार्यमाहबहुत्वादिति || देवानां स्वभावप्राबल्याद् बहुत्वं कथं जये प्रयोजकमित्यत आह- शङ्करस्येति || ' ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति' इति वाक्यं व्याचष्टे - यज्ञेनेति ॥

'ते ह वाचमूचुः' इत्यादिखण्डपञ्चकगतं वाक्यं वागादिशब्दानां प्रसिद्धार्थत्व- प्रतीतिं निवारयन् तात्पर्यतो व्याचष्टे - वह्न्यादीनति || वागादिशब्दानां प्रसिद्धार्थपरत्वे एतासां देवतानामित्याद्युत्तरवाक्यविरोध इति भावः ।

Load More