भूय एव महाबाहो शृणु मे परमं वचः ।
॥ श्रीमद्-भगवद्गीता शाङ्कर-भाष्यम् ॥ ॥ दशमोऽध्यायः ॥
सप्तमे अध्याये भगवतः तत्त्वं विभूतयः च प्रकाशिताः, नवमे च ।अथ इदानीं येषु येषु भावेषु चिन्त्यः भगवान्, ते ते भावाः वक्तव्याः,तत्त्वं च भगवतः वक्तव्यं उक्तं अपि, दुर्विज्ञेयत्वात्, इति अतःश्री-भगवान् उवाच --
श्रीभगवानुवाच --
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०-१॥
भूयः एव भूयः पुनः हे महाबाहो शृणु मे मदीयं परमंप्रकृष्टं निरतिशय-वस्तुनः प्रकाशकं वचः वाक्यं यत् परमंते तुभ्यं प्रीयमाणाय -- मत्-वचनात् प्रीयसे त्वं अतीव अमृतंइव पिबन्, ततः -- वक्ष्यामि हित-काम्यया हित-इच्छया ॥ किंअर्थं अहं वक्ष्यामि इति अतः आह --
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ १०-२॥
न मे विदुः न जानन्ति सुर-गणाः ब्रह्मा-आदयः । किं ते नविदुः? मम प्रभवं प्रभावं प्रभु-शक्ति-अतिशयम्, अथवाप्रभवं प्रभवनं उत्पत्तिम् । न अपि महर्षयः भृगु-आदयःविदुः । कस्मात् ते न विदुः इति उच्यते -- अहम् आदिः कारणं हि यस्मात्देवानां महर्षीणां च सर्वशः सर्व-प्रकारैः ॥ किं च --
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ १०-३॥
यः मां अजम् अनादिं च, यस्मात् अहं आदिः देवानां महर्षीणां च,न मम अन्यः आदिः विद्यते; अतः अहं अजः अनादिः च; अनादित्वं अजत्वेहेतुः, तं मां अजं अनादिं च यः वेत्ति विजानाति लोक-महेश्वरंलोकानां महान्तं ईश्वरं तुरीयम् अज्ञान-तत्-कार्य-वर्जितं असम्मूढःसम्मोह-वर्जितः सः मर्त्येषु मनुष्येषु, सर्व-पापैः सर्वैःपापैः मतिपूर्व-अमतिपूर्व-कृतैः प्रमुच्यते प्रमोक्ष्यते ॥इतः च अहं महेश्वरः लोकानां --
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावः भयं चाभयमेव च ॥ १०-४॥
बुद्धिः अन्तःकरणस्य सूक्ष्म-आदि-अर्थ-अवबोधन-सामर्थ्यम्,तद्वन्तं बुद्धिमान् इति हि वदन्ति । ज्ञानंआत्मा-आदि-पद-अर्थानाम्-अवबोधः । असम्मोहः प्रति-उत्पन्नेषुबोद्धव्येषु विवेक-पूर्विका प्रवृत्तिः । क्षमा आक्रुष्टस्य ताडितस्यवा अविकृत-चित्तता । सत्यं यथा-दृष्टस्य यथा-श्रुतस्य चआत्म-अनुभवस्य पर-बुद्धि-सङ्क्रान्तये तथा एव उच्चार्यमाणा वाक्सत्यं उच्यते । दमः बाह्य-इन्द्रिय-उपशमः । शमः अन्तःकरणस्यउपशमः । सुखं आह्लादः । दुःखं सन्तापः । भवः उद्भवः । अभावःतत्-विपर्ययः । भयं च त्रासः, अभयं एव च तत्-विपरीतम् ॥
अहिंसा समता तुष्टिः तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १०-५॥
अहिंसा अपीडा प्राणिनाम् । समता सम-चित्तता । तुष्टिः सन्तोषःपर्याप्त-बुद्धिः-लाभेषु । तपः इन्द्रिय-संयम-पूर्वकं शरीर-पीडनम् ।दानं यथा-शक्ति संविभागः । यशः धर्म-निमित्ता कीर्तिः । अयशःतु अधर्म-निमित्ता अकीर्तिः । भवन्ति भावाः यथोक्ताः बुद्धि-आदयःभूतानां प्राणिनां मत्तः एव ईश्वरात् पृथग्-विधाः नाना-विधाःस्व-कर्म-अनुरूपेण ॥ किं च --
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाताः येषां लोक इमाः प्रजाः ॥ १०-६॥
महर्षयः सप्त भृगि-आदयः पूर्वे अतीत-काल-सम्बन्धिनः,चत्वारः मनवः तथा सावर्णाः इति प्रसिद्धाः, ते च मत्-भावाःमत्-गत-भावनाः वैष्णवेन सामर्थ्येन उपेताः, मानसाः मनस एवउत्पादिताः मया जाताः उत्पन्नाः, येषां मनूनां महर्षीणां च सृष्टिःलोके इमाः स्थावर-जङ्गम-लक्षणाः प्रजाः ॥
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १०-७॥
एतां यथोक्तां विभूतिं विस्तारं योगं च युक्तिं च आत्मनः घटनम्,अथवा योग-ऐश्वर्य-सामर्थ्यं सर्वज्ञत्वं योगजं योगः उच्यते,मम मदीयं योगं यः वेत्ति तत्त्वतः तत्त्वेन यथावत् इति एतत्, सःअविकम्पेन अप्रचलितेन योगेन सम्यग्-दर्शन-स्थैर्य-लक्षणेनयुज्यते सम्बध्यते । न अत्र संशयः न अस्मिन् अर्थे संशयः अस्ति ॥कीदृशेन अविकम्पेन योगेन युज्यते इति उच्यते --
अहं सर्वस्य प्रभवः मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०-८॥
अहं परं ब्रह्म वासुदेव-आख्यं सर्वस्य जगतः प्रभवःउत्पत्तिः । मत्तः एव स्थिति-नाश-क्रिया-फल-उपभोग-लक्षणंविक्रिया-रूपं सर्वं जगत् प्रवर्तते । इति एवं मत्वा भजन्ते सेवन्तेमां बुधाः अवगत-परमार्थ-तत्त्वाः, भाव-समन्विताः भावः भावनापरमार्थ-तत्त्व-अभिनिवेशः तेन समन्विताः संयुक्ताः इति अर्थः ॥किं च --
मच्चित्ता मद्गतप्राणाः बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १०-९॥
मत्-चित्ताः, मयि चित्तं येषां ते मत्-चित्ताः, मत्-गत-प्राणाः मांगताः प्राप्ताः चक्षुः-आदयः प्राणाः येषां ते मत्-गत-प्राणाः, मयिउपसंहृत-करणाः इति अर्थः । अथवा, मत्-गत-प्राणाः मत्-गत-जीवनाःइति एतत् । बोधयन्तः अवगमयन्तः परस्परं अन्योन्यम्, कथयन्तः चज्ञान-बल-वीर्य-आदि-धर्मैः विशिष्टं माम्, तुष्यन्ति च परितोषम्उपयान्ति च रमन्ति च रतिं च प्राप्नुवन्ति प्रिय-सङ्गति एव ॥ येयथोक्तैः प्रकारैः भजन्ते मां भक्ताः सन्तः --
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०-१०॥
तेषां सतत-युक्तानां नित्य-अभियुक्तानांनिवृत्त-सर्व-बाह्य-एषणानां भजतां सेवमानानाम् । किंअर्थित्व-आदिना कारणेन? न इति आह -- प्रीति-पूर्वकं प्रीतिः स्नेहःतत्-पूर्वकं मां भजतां इति अर्थः । ददामि प्रयच्छामि बुद्धि-योगंबुद्धिः सम्यग्-दर्शनं मत्-तत्त्व-विषयं तेन योगः बुद्धि-योगःतं बुद्धि-योगम्, येन बुद्धि-योगेन सम्यग्-दर्शन-लक्षणेनमां परमेश्वरं आत्म-भूतम् आत्मत्वेन उपयान्ति प्रतिपद्यन्ते ।के? ते ये मत्-चित्तत्व-आदि-प्रकारैः मां भजन्ते ॥ किं अर्थम्,कस्य वा, त्वत्-प्राप्ति-प्रतिबन्ध-हेतोः नाशकं बुद्धि-योगं तेषांत्वत्-भक्तानां ददासि इति अपेक्षायां आह --
तेषामेवानुकम्पार्थं अहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थः ज्ञानदीपेन भास्वता ॥ १०-११॥
तेषाम् एव कथं नु नाम श्रेयः स्यात् इति अनुकम्प-अर्थं दया-हेतोःअहम् अज्ञान-जं अविवेकतः जातं मिथ्या-प्रत्यय-लक्षणंमोह-अन्धकारं तमः नाशयामि, आत्म-भावस्थः आत्मनःभावः अन्तःकरण-आशयः तस्मिन् एव स्थितः सन् ज्ञान-दीपेनविवेक-प्रत्यय-रूपेण भक्ति-प्रसाद-स्नेह-भिषिक्तेनमत्-भावना-अभिनिवेश-वात-ईरितेनब्रह्मचर्य-आदि-साधन-संस्कारवत्-प्रज्ञा-आवर्तिनाविरक्त-अन्तःकरण-आधारेणविषय-व्यावृत्त-चित्त-राग-द्वेष-अकलुषित-निवात-अपवरक-स्थेननित्य-प्रवृत्त-एकाग्र्य-ध्यान-जनित-सम्यग्-दर्शन-भास्वताज्ञान-दीपेन इति अर्थः ॥ यथोक्तां भगवतः विभूतिं योगं चश्रुत्वा अर्जुनः उवाच --
अर्जुन उवाच --
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यं आदिदेवमजं विभुम् ॥ १०-१२॥
परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनंपरमं प्रकृ-ष्टं भवान् । पुरषं शाश्वतं नित्यं दिव्यं दिविभवं आदि-देवं सर्व-देवानां आदौ भवं आदि-देवं अजं विभुंविभवन-शीलम् ॥ ईदृशं --
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १०-१३॥
आहुः कथयन्ति त्वां ऋषयः वसिष्ठ-आदयः सर्वे देव-ऋषिःनारदः तथा । असितः देवलः अपि एवं एव आह, व्यासः च, स्वयंच एव त्वं च ब्रवीषि मे ॥
सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १०-१४॥
सर्वं एतत् यथोक्तं ऋषिभिः त्वया च एतत् ऋतं सत्यं एव मन्ये,यत् मां प्रति वदसि भाषसे हे केशव । न हि ते तव भगवन् व्यक्तिंप्रभवं विदुः न देवाः, न दानवाः ॥ यतः त्वं देव-आदीनां आदिः,अतः --
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ १०-१५॥
स्वयं एव आत्मना आत्मानं वेत्थ जानासि त्वंनिरतिशय-ज्ञान-ऐश्वर्य-बल-आदि-शक्ति-मन्तं ईश्वरंपुरुषोत्तम । भूतानि भावयति ति भूत-भावनः, हे भूतभावन ।भूतेश भूतानाम् ईशितः । हे देव-देव जगत्-पते ॥
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकान् इमांस्त्वं व्याप्य तिष्ठसि ॥ १०-१६॥
अक्तुं कथयितुं अर्हसि अशेषेण । दिव्याः हि आत्म-विभूतयः ।आत्मनः विभूतयः याः ताः वक्तुं अर्हसि । याभिः विभूतिभिः आत्मनःमाहात्म्य-विस्तरैः इमान् लोकान् त्वं व्याप्य तिष्ठसि ॥
कथं विद्यामहं योगिन् त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १०-१७॥
कथं विद्यां विजानीयां अहं हे योगिन् त्वां सदा परि-चिन्तयन् । केषुकेषु च भावेषु वस्तुषु चिन्त्यः असि ध्येयः असि भगवन् मया ॥
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १०-१८॥
विस्तरेण आत्मनः योगं योग-ऐश्वर्य-शक्ति-विशेषं विभूतिं चविस्तरं ध्येय-पदार्थानां हे जनार्दन, अर्दतेः गति-कर्मणः रूपम्,असुराणां देव-प्रतिपक्ष-भूतानां जनानां नरक-आदि-गमयितृत्वात्जनार्दनः अभ्युदय-निःश्रेयस-पुरुषार्थ-प्रयोजनं सर्वैः जनैःयाच्यते इति वा । भूयः पूर्वं उक्तं अपि कथय; तृप्तिः परितोषः हियस्मात् न अस्ति मे मम शृण्वतः त्वत्-मुख-निःसृत-वाक्य-अमृतम्
श्रीभगवानुवाच --
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १०-१९॥
हन्त इदानीं ते तव दिव्याः दिवि भवाः आत्म-विभूतयः आत्मनः ममविभूतयः याः ताः कथयिष्यामि इति एतत् । प्राधान्यतः यत्र यत्रप्रधाना या या विभूतिः तां तां प्रधानां प्राधान्यतः कथयिष्यामि अहंकुरु-श्रेष्ठ । अशेषतः तु वर्ष-शतेन-अपि न शक्या वक्तुम्,यतः न अस्ति अन्तः विस्तरस्य मे मम विभूतीनां इति अर्थः ॥ तत्रप्रथमं एव तावत् शृणु --
अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ १०-२०॥
अहं आत्मा प्रत्यग्-आत्मा गुडाकेश, गुडाका निद्रा तस्याः ईशःगुडाकेशः, जित-निद्रः इति अर्थः; घन-केशः इति वा ।सर्व-भूत-आशय-स्थितः सर्वेषां भूतानां आशये अन्तर्-हृदिस्थितः अहं आत्मा प्रत्यग्-आत्मा नित्यं ध्येयः । तत्-अशक्तेन चउत्तरेषु भावेषु चिन्त्यः अहम्; यस्मात् अहं एव आदिः भूतानां कारणंतथा मध्यं च स्थितिः अन्तः प्रलयः च ॥ एवं च ध्येयः अहं --
आदित्यानामहं विष्णुः ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ १०-२१॥
आदित्यानां द्वादशानां विष्णुः नाम आदित्यः अहम् । ज्योतिषां रविःप्रकाशयितॄणाम् अंशुमान् रश्मिमान् । मरीचिः नाम मरुतांमरुत्-देवता-भेदानां अस्मि । नक्षत्राणां अहं शशी चन्द्रमाः ॥
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ १०-२२॥
वेदानां मध्ये साम-वेदः अस्मि । देवानां रुद्र-आदित्य-आदीनां वासवःइन्द्रः अस्मि । इन्द्रियाणां एकादशानां चक्षुः-आदीनां मनः च अस्मिसङ्कल्प-विकल्प-आत्मकं मनः च अस्मि । भूतानां अस्मि चेतनाकार्य-करण-सङ्घाते नित्या-आभिव्यक्ता बुद्धि-वृत्तिः चेतना ॥
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ १०-२३॥
रुद्राणाम् एकादशानां शङ्करह् च अस्मि । वित्तेशः कुबेरःयक्ष-रक्षसां यक्षाणां रक्षसां च । वसूनां अष्टानां पावकह्च अस्मि अग्निः । मेरुः शिखरिणां शिखर-वतां अहम् ॥
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ १०-२४॥
पुरोधसां च राज-पुरोहितानां च मुख्यं प्रधानं मां विद्धिहे पार्थ बृहस्पतिम् । सह् हि इन्द्रस्य इति मुख्यः स्यात् पुरोधाः ।सेनानीनां सेना-पतीनां अहं स्कन्दः देव-सेना-पतिः । सरसां यानिदेवखातानि सरांसि तेषां सरसां सागरः अस्मि भवामि ॥
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ १०-२५॥
महर्षीणां भृगुः अहम् । गिरां वाचां पद-लक्षणानां एकं अक्षरंओङ्कारः अस्मि । यज्ञानां जप-यज्ञः अस्मि, स्थावराणां स्थिति-मतांहिमालयः ॥
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ १०-२६॥
अश्वत्थः सर्व-वृक्षाणाम्, देव-ऋषीणां च नारदः देवाःएव सन्तः ऋषित्वं प्राप्ताः मन्त्र-दर्शित्वात् ते देव-ऋषयः,तेषां नारदः अस्मि । गन्धर्वाणां चित्ररथः नाम गन्धर्वः अस्मि ।सिद्धानां जन्मन एव धर्म-ज्ञान-वैराग्य-ऐश्वर्य-अतिशयंप्राप्तानां कपिलः मुनिः ॥
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ १०-२७॥
उच्चैःश्रवसम् अश्वानां उच्चैःश्रवाः नाम अश्व-राजः तं मांविद्धि विजानीहि अमृत-उद्भवं अमृत-निमित्त-मथन-उद्भवम् ।ऐरावतं इरावत्याः अपत्यं गजेन्द्राणां हस्ति-ईश्वराणाम्, तं मांविद्धि इति अनुवर्तते । नराणां च मनुष्याणां नर-अधिपं राजानंमां विद्धि जानीहि ॥
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ १०-२८॥
आयुधानां अहं वज्रं दधीचि-अस्थि-सम्भवम् । धेनूनां दोग्ध्रीणांअस्मि काम-धुक् वसिष्ठस्य सर्व-कामानां दोग्ध्री, सामान्या वाकाम-धुक् । प्रजनः प्रजनयिता अस्मि कन्दर्पः कामः सर्पाणांसर्प-भेदानां अस्मि वासुकिः सर्प-राजः ॥
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ १०-२९॥
अनन्तः च अस्मि नागानां नाग-विशेषाणां नाग-राजः च अस्मि ।वरुणः यादसां अहम् अब्-देवतानां राजा अहम् । पितॄणां अर्यमा नामपितृ-राजः च अस्मि । यमः संयमतां संयमनं कुर्वतां अहम् ॥
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ १०-३०॥
प्रह्लादः नाम च अस्मि दैत्यानां दिति-वंश्यानाम् । कालः कलयतांकलनं गणनं कुर्वतां अहम् । मृगाणां च मृग-इन्द्रः सिंहःव्याघ्रः वा अहम् । वैनतेयः च गरुत्मान् विनता-सुतः पक्षिणांपतत्रिणाम् ॥
पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ १०-३१॥
पवनः वायुः पवतां पावयितॄणां अस्मि । रामः शस्त्र-भृतांअहं शस्त्राणां धारयितॄणां दाशरथिः रामः अहम् । झषाणांमत्स्य-आदीनां मकरः नाम जाति-विशेषः अहम् । स्रोतसां स्रवन्तीनांअस्मि जाह्नवी गङ्गा ॥
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०-३२॥
सर्गाणां सृष्टीनाम् आदिः अन्तः च मध्यं चैव अहंउत्पत्ति-स्थिति-लयाः अहं अर्जुन । भूतानां जीव-अधिष्ठितानां एवआदिः अन्तः च इत्यादि उक्तं उपक्रमे, इह तु सर्वस्य एव सर्ग-मात्रस्यइति विशेषः । अध्यात्म-विद्या विद्यानां मोक्ष-अर्थत्वात् प्रधानं अस्मि ।वादः अर्थ-निर्णय-हेतुत्वात् प्रवदतां प्रधानम्, अतः सः अहंअस्मि । प्रवक्तॄ-द्वारेण वदन-भेदानां एव वाद-जल्प-वितण्डानांइह ग्रहणं प्रवदतां इति ॥
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालः धाताहं विश्वतोमुखः ॥ १०-३३॥
अक्षराणां वर्णानां अकारः वर्णः अस्मि ।द्वन्द्वः समासः अस्मि सामासिकस्य च समास-समूहस्य ।किं च अहं एव अक्षयः अक्षीणः कालः प्रसिद्धः क्षण-आदि-आख्यः,अथवा परमेश्वरः कालस्य अपि कालः अस्मि । धाता अहं कर्म-फलस्यविधाता सर्व-जगतः विश्वतो-मुखः सर्वतो-मुखः ॥
मृत्युः सर्वहरश्चाहं उद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १०-३४॥
मृत्युः द्विविधः धन-आदि-हरः प्राण-हरः च; तत्र यःप्राण-हरः, सः सर्व-हरः उच्यते; सः अहं इति अर्थः । अथवा,परः ईश्वरः प्रलये सर्व-हरणात् सर्व-हरः, सः अहम् । उद्भवःउत्कर्षः अभ्युदयः तत्-प्राप्ति-हेतुः च अहम् । केषाम्? भविष्यतांभावि-कल्याणानाम्, उत्कर्ष-प्राप्ति-योग्यानां इति अर्थः । कीर्तिः श्रीः वाक्च नारीणां स्मृतिः मेधा धृतिः क्षमा इति एताः उत्तमाः स्त्रीणां अहं अस्मि,यासां आभास-मात्र-सम्बन्धेन अपि लोकः कृतार्थम्-आत्मानं मन्यते ॥
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहं ऋतूनां कुसुमाकरः ॥ १०-३५॥
बृहत्-साम तथा साम्नां प्रधानं अस्मि । गायत्री च्छन्दसां अहंगायत्रि-आदि-छन्दो-विशिष्टानां ऋचां गायत्री ऋक् अहं अस्मि इतिअर्थः । मासानां मार्गशीर्षः अहम्, ऋतूनां कुसुमाकरः वसन्तः ॥
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १०-३६॥
द्यूतम् अक्षदेवन-आदि-लक्षणं छलयतां छलस्य कर्तॄणांअस्मि । तेजस्विनां तेजः अहम् । जयः अस्मि जेतॄणाम्, व्यवसायः अस्मिव्यवसायिनाम्, सत्त्वं सत्त्व-वतां सात्त्विकानां अहम् ॥
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १०-३७॥
वृष्णीनां यादवानां वासुदेवः अस्मि अयं एव अहं त्वत्-सखः ।पाण्डवानां धनञ्जयः त्वं एव । मुनीनां मनन-शीलानांसर्व-पद-अर्थ-ज्ञानिनां अपि अहं व्यासः, कवीनां क्रान्त-दर्शिनांउशना कविः अस्मि ॥
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १०-३८॥
दण्डः दमयतां दमयितॄणां अस्मि अदान्तानां दमन-कारणम् । नीतिःअस्मि जिगीषतां जेतुम्-इच्छताम् । मौनं च एव अस्मि गुह्यानां गोप्यानाम् ।ज्ञानं ज्ञानवताम् अहम् ॥
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यात् मया भूतं चराचरम् ॥ १०-३९॥
यत् च अपि सर्व-भूतानां बीजं प्ररोह-कारणम्, तत् अहं अर्जुन ।प्रकरण-उपसंहार-अर्थं विभूति-सङ्क्षेपम्-आह -- न तत् अस्तिभूतं चर-अचरं चरं अचरं वा, मया विना यत् स्यात् भवेत् ।मया अपकृष्टं परित्यक्तं निरात्मकं शून्यं हि तत् स्यात् । अतःमत्-आत्मकं सर्वं इति अर्थः ॥
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तः विभूतेर्विस्तरो मया ॥ १०-४०॥
न अन्तः अस्ति मम दिव्यानां विभूतीनां विस्तराणां परन्तप । नहि ईश्वरस्य सर्व-आत्मनः दिव्यानां विभूतीनां इयत्ता शक्या वक्तुंज्ञातुं वा केनचित् । एषः तु उद्देशतः एक-देशेन प्रोक्तः विभूतेःविस्तरः मया ॥
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ॥ १०-४१॥
यत् यत् लोके विभूति-मत् विभूति-युक्तं सत्त्वं वस्तु श्री-मत्ऊर्जितं एव वा श्रीः लक्ष्मीः तयाः सहितं उत्साह-उपेतं वा, तत्-तत्एव अवगच्छ त्वं जानीहि मम ईश्वरस्य तेजो-अंश-सम्भवं तेजसःअंशः एक-देशः सम्भवः यस्य तत् तेजोंश-सम्भवं इति अवगच्छत्वम् ॥
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितो जगत् ॥ १०-४२॥
अथवा बहुना एतेन एवम्-आदिना किं ज्ञातेन तव अर्जुन स्यात्स-अवशेषेण । अशेषतः त्वं उच्यमानं अर्थं शृणु --विष्टभ्य विशेषतः स्तम्भनं दृढं कृत्वा इदं कृत्स्नं जगत्एक-अंशेन एक-अवयवेन एक-पादेन, सर्व-भूत-स्वरूपेण इतिएतत्; तथा च मन्त्र-वर्णः -- ॒`पादः अस्य विश्वा भूतानि''(ऋ. १०-८-९०-३) इति; स्थितः अहं इति ॥ॐ तत्सदिति श्रीमद्-भगवद्गीतासु उपनिषत्सु ब्रह्म-विद्यायांयोग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे विभूति-योगः नाम दशमःअध्यायः ॥१०॥इतिश्रीमद्-परमहंस-परिव्राजक-आचार्य-पूज्यपाद-श्रीशङ्कर-भगवताकृतौ श्रीमद्-भगवद्गीता-भाष्ये विभूति-योगः नाम दशमोऽध्यायः ॥