न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ।। १५ ।।

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।

 माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ।। १५ ।।

भाष्यम्

तर्हि सर्वेऽपि किमिति नात्यायन्? इत्यत आह– न मामिति ।। दुष्कृति-त्वात् मूढाः । अत एव नराधमाः । अपहृतज्ञानत्वाच्च मूढाः । अत एव आसुरं भावमाश्रिताः ।।

भावप्रदीपिका

नन्वेतादृश्यपि माया यदि त्वत्प्रपन्नान्न बध्नाति । तर्ह्युपायसत्त्वे किमिति सर्वे तां नात्यायन् ? इत्याशङ्क्य, उत्तरश्लोकमवतारयति– तर्हीति । ननु मोक्षयोग्या अप्यभजन्तः सन्ति । तेषां कथमसुरभावाश्रयणमित्यत आह– स चेति । नात्रासुरभावो नाम भगवद्द्वेषिस्वभावत्वमित्यर्थः ।।

भावप्रकाशिका

ननु यदि भगवान् स्वाश्रितानुत्तारयति मोहार्णवात्, तर्हि तं कृपालुं प्लवं सर्वेऽपि समाश्रित्य किमिति मोहं नात्यायन् ? अतः प्रशंसामात्रमिदं भगवत इति भावेनाशङ्क्य, तां परिहर्तुमुत्तरश्लोकं व्याचष्टे– तर्हीति । विशेषणपञ्चके हेतुहेतुमद्भावं दर्शयति– दुष्कृतित्वादित्यादिना । दुष्कृतित्वापहृतज्ञानत्वाभ्यां मूढाः । अतो नराधमाः । ततः आसुरभावमाश्रिताः । ततो भगवन्तं न प्रपद्यन्त इत्यर्थः ।।

प्रमेयदीपिका

उत्तरवाक्यं प्रकृतानुपयुक्तमित्यत आह– तर्हीति ।। यदि त्वत्प्रपत्तिः मायातरणोपायस्तर्हीत्यर्थः । ‘त्वां प्रपद्ये’ इति शेषः । तथाच ‘मामेव’(७. १४) इत्युक्तमसदिति भावः । दुष्कृतित्वादीनां प्रयोजनान्तराभावात् हेतुत्वेनान्वये स्थिते किं ते पञ्चापि साक्षाद् भगवदप्रपत्तिहेतवः? किं वा हेतुहेतुमद्भावेन? इत्यपेक्षायामाह– दुष्कृति-त्वादिति ।। मूढाः मिथ्याज्ञानिनः । विपर्ययस्याधर्मकार्यत्वप्रसिद्धेः । अत एव मूढत्वादेव । देवानाम् उत्तममध्यममनुष्याणां च केवलमिथ्याज्ञानित्वाभावात् । अधिष्ठानयाथात्म्या-ज्ञानस्य विपर्ययहेतुत्वप्रसिद्धेः अपहृतज्ञानत्वाच्च मूढाः । अत एव नराधमत्वादेव । जीवत्रैविध्यविवक्षायां नराधमानाम् असुरेष्वन्तर्भावस्य प्रसिद्धत्वात् । आसुरभावाश्रयणात् न मां प्रपद्यन्ते इत्यर्थः ।।

भावबोधः

ननु न मिथ्याज्ञानित्वेन तमोयोग्यनिष्ठनराधमत्वसाधनं युक्तम् । ऋजुव्यतिरिक्तमुक्तियोग्येषु नित्यसंसारिषु च व्यभिचारादित्यतो न मिथ्याज्ञानित्वमात्रं हेतुः, किन्तु सर्वात्मना प्रकारविषयकायथार्थज्ञानस्वरूपत्वम् । अतो न व्यभिचार इत्यत आह– देवानामिति ।। नराधमत्वादेवेति । भाष्यसन्निहितमूढत्वपरामर्शे तत्साध्यत्वेनोक्तनराधमत्वसमुच्चयार्थमाश्रिताश्चेति चशब्दाभावो दोषः । आसुरभावाश्रयणेनैव भगवदप्रतिपत्त्युुपपत्तौ नराधमत्वस्यापि स्वातन्त्र्येण तद्धेतुत्वकल्पने गौरवं चेति भावः ।

नन्वनेन तमोयोग्यरूपभगवदप्रतिपन्ना आसुरम्भावमाश्रिताः । नराधमत्वादित्यभिप्रेतमनुमानम्् । तदनुपपन्नम् । पक्षैकदेशेषु नराधमेषु आसुरभावाश्रयणरूपसाध्यस्य कल्याद्यसुररूपतदेकदेशे नराधमत्वहेतरोरभावेनांशे बाधाद्भागासिद्धेश्चेत्यत आह– जीवत्रैविध्यविवक्षायामिति ।। ‘त्रिविधा जीवसङ्घास्तु देवमानुषदानवाः । नैवमासुर’ इत्यादिवाक्येषु दानवासुरशब्देन सकलतमोयाग्यग्रहण-वद्गीतायां नराधमशब्देन मुक्तियोग्यनित्यसंसारिव्यतिरिक्तजीवग्रहणसम्भवेन सर्वत्र साध्यसाधन-सत्त्वेन न बाधभागासिद्धी इति भावः ।

भावदीपः

‘नराधमाः’ इत्युक्तेः कृत्यमाह– देवानामिति ।। अपहृतज्ञानत्वस्य मूढतायां हेतुत्वं व्यनक्ति– अधिष्ठानेति ।।

भावरत्नकोशः

।। इत्युक्तमसदिति । बहूनामत्ययादर्शनेन प्रपत्तेरपि मायातरणो-पायत्वमसदित्यर्थः । पञ्चापि दुष्कृतिनः, मूढाः, नराधमाः, मायापहृतज्ञानाः, आपन्नासुरभावाश्चेति पञ्च विशेषणानीत्यर्थः । दुष्कृतित्वेऽप्यमिथ्याज्ञानित्वं किं न स्यादित्यत आह– विपर्ययस्येति ।। मिथ्याज्ञानस्य । ‘विपरीतनिश्चयो विपर्ययः’ इति पद्धतिः । प्रसिद्धेति ।। ‘येषां त्वन्तगतं पापं ते द्वन्द्वमोहनिर्मुक्ताः इत्यादौ’ इति शेषः । ‘द्वन्द्वमोहो मिथ्याज्ञानम्’ इत्युत्तरप्रस्थाने भाष्यकारोक्ते-रिति भावः । ‘अत एव नराधमाः’ इत्यत्र ‘अत एव’ इत्यस्यार्थमाह– अत एवेति ।। ननु मिथ्याज्ञानित्वान्नराधमाः’ इति न साधयितुं युक्तम् । देवेषु मुक्तियोग्यमनुष्येषु नित्यसंसारिषु च व्यभिचारादित्यत आह– देवानामिति ।। केवलमिथ्याज्ञानित्वस्य हेतुत्वेन विवक्षितत्वात्, तस्य च देवादिष्वभावान्न व्यभिचारशङ्का । न चैवमपि कल्यादौ व्यभिचारः, तस्य केवलमिथ्याज्ञानित्वेऽपि नराधमत्वाभावादिति वाच्यम् । नराधमशब्देन भगवद्द्वेषित्वरूपचेतनाधमत्वस्य प्रकृते विवक्षित-त्वादिति भावः ।

अपहृतज्ञानत्वमूढत्वयोर्हेतुहेतुमद्भावं व्यञ्जितुमाह– अधिष्ठानेति ।। अपहृतज्ञानत्वं प्रकृतेऽ-धिष्ठानयाथात्म्यज्ञानशून्यत्वम्, अधिष्ठानतत्त्वापरिज्ञानं च, शुक्तिकाशकले रजतत्वप्रकारकभ्रमं प्रति कारणमिति विश्वजनीनम् इति युक्तस्तयोर्हेतुहेतुमद्भाव इति भावः । ‘अत एवाऽसुरं भावम्’ इत्यत्र ‘अत एव’ इत्यनेनाव्यवधानेन प्रकृतस्य मूढत्वस्य परामर्शे, पूर्वं तत्र साध्यस्योक्तत्वेन तत्समुच्चयार्थं चशब्दानुबन्धप्रसङ्गः, इत्यतो विवक्षितमर्थमाह– नराधमत्वादेवेति ।।

ननु नराधमत्वहेतुना आसुरभावसाधनमयुक्तम् । नराधमत्वस्य मनुष्यत्वव्याप्यजातिरूपत्वे कलिविप्रचित्त्यादावभावाद्, विरुद्धत्वाच्च । उत्तममध्यमान्यचेतनत्वरूपत्वे, ‘तानहं द्विषतः क्रूरान् संसारेषु नराधमान्’ इति वक्ष्यमाणरीत्या द्वेषिचेतनरूपत्वे वा, आसुरत्वस्य जातिविशेषरूपत्वे पिशाचादौ व्यभिचार इत्यत आह– जीवत्रैविध्येति ।। विवक्षितेन हेतुना प्रवृत्तिनिवृत्त्याद्य-परिज्ञानादिलक्षणासुरभावस्य साध्यत्वाङ्गीकारान्नोक्तदोषः । ‘त्रिविधा जीवसङ्घास्तु देवमानुष-दानवाः’ इत्यादिप्रमाणसिद्धजीवत्रैविध्यविवक्षायाम् उक्तलक्षणासुरभावस्य दैत्यरक्षःपिशाचमर्त्याधम-रूपचेतनाधमेष्वभ्युपगमादिति भावः । नराधमत्वेनासुरभावसाधनेन फलितं दर्शयति– आसुरेति ।।

भावदीपिका

।। तथा चेति ।। त्वत्प्रपत्तेर्मायातरणोपायत्वे सर्वेऽपि त्वां प्रपद्य मायां तरेयुरेव । नहि तीर्णाः । तेन ज्ञायते त्वत्प्रतिपत्तेर्मायातरणोपायत्वं यत् ‘मामेव’ इत्येनेनोक्तं तद् असदितीति भावः ।। दुष्कृतित्वमूढत्वयोर्हेतुहेतुमद्भावमुपपादयति– विपर्ययस्येति ।। प्रसिद्धे-रिति ।। ‘दुष्कर्मणा भवेन्मोहः’ इति वचनादिति भावः । ननु मिथ्याज्ञानित्वेन हेतुना तमोयोग्य-निष्ठनराधमत्वसाधनमयुक्तम् । ऋजुव्यतिरिक्तेषु मुक्तियोग्येषु देवेषु, तथा मनुष्योत्तमेषु नित्यसंसारि-भूतमध्यममनुष्येषु च व्यभिचारात्, इत्यत आह– देवानामिति ।। ऋजुव्यतिरिक्तानामित्यर्थः । केवलमिथ्याज्ञानित्वेति ।। प्रकारांश इवाधिष्ठानांशेऽप्ययथार्थज्ञानस्वरूपत्वम् केवलमिथ्या-ज्ञानित्वम्, तदभावादित्यर्थः । तथाच न मिथ्याज्ञानित्वमात्रं हेतुत्वेन विवक्षितम्, येन व्यभिचारः स्यात् । किं नाम, सर्वात्मना मिथ्याज्ञानित्वमेव । तस्य च देवादिष्वभावान्न व्यभिचार इति भावः ।

मूढत्वे दुष्कृतित्वातिरिक्तमपहृतज्ञानत्वं च हेतुरित्याशयेन ‘अपहृतज्ञानत्वाच्च मूढाः’ इत्युक्तं भाष्ये । तत्र तयोर्हेतुहेतुमद्भावमुपपादयति– अधिष्ठानेति ।। प्रसिद्धेरिति ।। लोके शुक्तिरजतादिभ्रमे दर्शनादिति भावः ।

ननु ‘तमोयोग्या असुरभावमाश्रिता नराधमत्वात्’ इत्यत्र नराधमानामपि तमोयोग्यत्वेन पक्षकोटिनिक्षिप्ततया तत्रासुरभावाश्रयणरूपसाध्याभावाद् बाध इत्यत आह– जीवत्रैविध्येति ।।

त्रिविधा जीवसङ्घास्तु देवमानुषदानवाः’

नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा,

 एवं सुराः, नैवमसुराः, एवमनेवं च मनुष्याः’

इत्यादिवाक्येषु देवशब्देन मोक्षयोग्यानां, मनुष्यशब्देन नित्यसंसारिणां, दानवासुरशब्देन तमोयाग्यानां गृहीतत्वेन, एतद्विवक्षया नराधमानामपि तमोयोग्यत्वेनासुरेष्वन्तर्भावस्य प्रसिद्धत्वेन आसुरभावाश्रयणरूपसाध्यस्यापि सत्त्वान्न बाध इत्याशयः ।

ननु ‘तर्हि किमिति सर्वे नात्यायन्’ इति प्रश्नस्य किमुत्तरमनेन जातमिति चेत्, तत्र•ह– आसुरभावेति ।। तथा च ‘तमोयोग्याः न मां प्रपद्यन्ते आसुरस्वभाववत्त्वात्’ तदपि कुतः । नराधमत्वात् । तदपि कुतः । मूढत्वात् । तदपि कुतः। दुष्कृतित्वात्, अपहृतज्ञानत्वाच्च, इति हेतुहेतेुमद्भावो द्रष्टव्यः ।

भावप्रकाशः

ननु कथं मिथ्याज्ञानित्वेन नराधमत्वसाधनम् । मुक्तियोग्येषु नित्य-संसारिषु च व्यभिचारादित्यत आह– देवानामिति ।। तथा च केवलमिथ्याज्ञानित्वरूपविवक्षित-हेतोरेभावान्न व्यभिचार इति भावः । यथा च न कल्यादौ केवलमिर्थ्याज्ञानित्वस्य व्यभिचार-स्तथाऽग्रे वक्ष्यामः ।

ननु भगवन्तमप्रपद्यमानाः सर्वे पक्षाः ते च मुक्तियोग्यास्तदयोग्याश्च । तथा च पक्षे व्यभिचार- शङ्कादिकमयुक्तमिति चेत् । उच्यते । एतद्वाक्योक्तानां दुष्कृतित्वादीनां मध्ये नराधमत्वं केवलमिथ्याज्ञानित्वं च तमोयोग्यानामसाधारणम् । मिथ्याज्ञानित्वमात्रं दुष्कृतित्वादिकं च योग्यायोग्यसाधारणम् । यथा ‘प्रयाणकाले मनसा’ इत्यग्रिमाध्यायश्लोके ‘भ्रुवोर्मध्ये प्राणमावेश्य’ इत्येतद्वायुजयादिप्रधानानामसाधारणम् । अन्यत् साधकमात्रनिष्ठं तद्वत् । यथा च साधारणस्य हेतुत्वे तद्वतामेव पक्षत्वात् तदन्यत्र व्यभिचारशङ्कादिकं युक्तमेवेति । ‘अपहृतज्ञानत्वाच्च मूढा’ इति हेतुमद्भावमुपपादयन्नाह– अधिष्ठानेति ।। ननु सन्निहितमूढत्वपरामर्शो न युक्तः पूर्वं साध्य-स्योक्तत्वेन तत्समुच्चयार्थमाश्रिताश्चेति चशब्दप्रसङ्गादित्यत आह– नराधमत्वादेवेति ।।

ननु नराधमत्वेनासुरभावसाधनमयुक्तं साध्याभावव्याप्तत्वेन विरुद्धत्वप्रसङ्गादित्यत आह–जीवत्रैविध्येति ।। ‘त्रिविधा जीवसङ्घास्तु देवमानुषदानवाः’ इत्यादिप्रमाणानुसारेण जीवत्रैविध्य-विवक्षायामित्यर्थः । तथा च नराधमत्वस्यासुरत्वव्याप्यत्वादुक्तं युक्तमिति भावः । इदं च नराधमत्वं मनुष्यत्वव्याप्यमित्यभिप्रेत्योक्तम् । वस्तुतस्तु नराधमत्वं नाम अधमजीवत्वं प्रकृतेऽभिप्रेतम् । अन्यथा केवलमिथ्याज्ञानित्वेन मनुष्यत्वव्याप्यनराधमत्वसाधने कल्यादौ व्यभिचारादिति बोध्यम् । एतेषामिति । प्रवृत्तिं चेत्याद्युक्तधर्माणां प्रत्येकमासुरभावत्वात् क्षपणकादौ च हिंसाद्यभावेऽप्य-सत्यमप्रतिष्ठन्त इत्याद्युक्तधर्मसत्त्वान्नासिद्धिरित्यर्थः ।

 

Load More