आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ।। १७ ।।

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।

यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ।। १७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु यक्ष्य इति यस्तेषां मनोरथ उक्तस्तत्र यागदानादि कुर्वतां कथं नरकप्राप्तिरुच्यते इति शङ्कापराकरणाय स तेषां मनोरथः केवलं दम्भाहङ्कारादिदोषप्रधान एव, न तात्त्विक इति भावेनोच्यते– आत्मसम्भाविता इति ।। आत्ससम्भाविताः ‘स्वयं श्रोत्रियत्वादिसकलगुणसम्पन्नाः’ इति आत्मनैव पूज्यतां नीताः, न तु साधुभिः, स्तब्धाः अप्रणतात्मानः धनमानमदान्विताः धननिमित्तो मानः चित्तसमुन्नतिः, तन्निमित्तो मदश्च ताभ्यामन्विताः दम्भेन धर्मध्वजितया, न तु श्रद्धया अविधिपूर्वकं विहिताङ्गेतिकर्तव्यतारहितं यथा तथा नामयज्ञैः नाममात्रैः देवताप्रीत्यनुद्देश्यकैः यज्ञैः यजन्ते ‘दीक्षितोऽयम्’ ‘सोमयाजी अयम् ’ इत्यादिनाममात्रनिर्वाहप्रयोजनकाः ये यज्ञाः ते नामयज्ञाः तैः यजन्त इत्यर्थ इति अन्ये । ‘नाम’ इति पृथक् पदमिति अपरे ।। १७ ।।