नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ।।४०
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ।।४०
भावरत्नकोशः
गीताक्षरार्थस्तु तथा नमः पुरस्तात् पूर्वस्यां दिशि ते तुभ्यं नमोऽस्तु । सर्वतः सर्वासु दिक्षु विद्यमानाय ते नमः । सर्व परिपूर्ण अनन्तं वीर्यं सामर्थ्यमस्य, तत्सम्बुद्धिः । अमितो विक्रमः पराक्रमो यस्य स तथा । वीर्यवानपि कश्चिच्छस्त्रादिविषये न पराक्रमते, मन्दपराक्रमो वा दृश्यते । त्वं तु अनन्तवीर्यश्च अमितविक्रमश्चेति स्तुतिः । ननु ‘सर्वं खल्विदं ब्रह्म’ इत्यादेः सर्वस्य जगतो ब्रह्मात्मकत्वात् ‘त्वमस्य विश्वस्य परं निधानम्’, ‘त्वया ततं विश्वम्’ इत्याद्ययुक्तम् ? इत्यतः श्रुतिगतसर्वशब्दो व्याक्रियते सर्वं समाप्नोषि ततोऽसि सर्व इति ।। यतस्त्वं सर्वं विश्वं व्याप्नोषि, ततः सर्वोऽसि ‘सर्वं खल्विदं ब्रह्म’, ‘पुरुष एवेदं सर्वम्’, ‘सर्वं ह्येतद् ब्रह्म’ इत्यादिवाक्येषु श्रुतसर्वशब्दवाच्योऽसीत्यतः ‘इदं ब्रह्म सर्वजगद्व्यापि खलु’ इत्यादिरूपेण श्रुत्यर्थो ज्ञेयः, नतु जगदात्मकत्वेनेत्यभिप्रायः ।। ४० ।।