दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।। १४ ।।

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते  ।। १४ ।।

भाष्यम्

कथमनादिकाले मोहानत्ययो बहूनाम्? इत्यत आह– दैवीति ।। अयमाशयः । माया ह्येषा मोहिका ।।

भावप्रदीपिका

ननु यदि भगवतो गौणत्वज्ञानं मोहः, तर्हि बाधः किमिति नास्ति । अतो नायं मोह इत्याशङ्कोत्तरत्वेनोत्तरश्लोकमवतारयति– कथमिति । बाधाभावे कारणप्रश्ने मायास्वरूपं किमर्थं वर्ण्यते इत्यत आह– अयमिति । ये गुणा मोहतयोक्ताः, तदभिमानी माया हि मोहिका ।

भावप्रकाशिका

ननु त्रिगुणात्मकदेहो भगवानित्ययं मोहश्चेत्, बाधकप्रत्ययः स्यात् । तदभावान्न मोहोऽयमिति भावेनाशङ्क्य, तां परिहर्तुमुत्तरश्लोकार्धमवतार्य व्याचष्टे– कथमिति । ननु ‘बाधकाभावे किं कारणम् ’ इति प्रश्नस्य मायादैवत्वदुरतिक्रमणत्वयोरभि-धानं कथमुत्तरमित्यत आह– अयमिति । मोहकारणत्वेनेतिहासपुराणादिप्रसिद्धा या माया (तस्या) भगवदीयत्वेन दुरत्ययत्वान्न बाधक इत्यर्थः ।

प्रमेयदीपिका

उपायाभावानुमानाभासाभ्यामनुपलम्भो विपरितोपलम्भ-श्चेत्युक्तम् । अतः किमुत्तरेण वाक्येनेत्यत आह– कथमिति ।। भगवान् गुणमयविग्रह इत्ययं न मोहः । बाधकप्रत्ययाभावात् । ज्ञानिनां सम्यक्प्रत्ययो बाधक इत्युक्तमिति चेन्न । बहुतर-ज्ञानविरोधेन कतिपयज्ञानानामेवायथार्थत्वापत्तेः । ननूत्तरकाले बाधकप्रत्ययो भविष्यतीति चेत् न । अनादौ कालेऽजातस्योत्तरत्राप्यसम्भवादिति भावः ।।

ननु बाधकप्रत्ययाभावाद्यथार्थ एवायं प्रत्यय इति शङ्कायां किमेतदसङ्गतमुच्यते? इत्यत आह– अयमिति ।। एषा इत्यनुवादेन मोहिका इति व्याख्यातम् । ‘मोहितम्’ इति धात्वर्थ-मात्रं परामृश्य योग्यप्रत्ययसम्बन्धेन व्याख्यानात् । गुणमयी तदभिमानिनी दुर्गा या हि तमोगुणेनैवंविधं मोहं जनयति । अनुमानं तु निमित्तमात्रम् ।।

भावबोधः

ननु मोहकर्त्र्याः पूर्वमनुक्तत्वात् ‘एषा’ इत्यनेन तत्परामर्शासम्भवेन कथं मोहिकेत्येतद्व्याख्यातमित्यत आह– मोहितमिति ।। योग्येति । कर्त्रर्थकण्वुल्प्रत्यय-सम्बन्धे-नेत्यर्थः । तथा च ‘मुह वैचित्ये’ इत्यस्माद्धातोः कर्तरि ण्वुलि ‘युवोरनाकौ’ इत्यकादेशे लघूपधगुणे टापि ‘प्रत्ययस्थात्’ इतीत्वे विमोहिकेति रूपनिष्पत्तिरित्यर्थः ।

भावदीपः

।। उपायेति ।। गुणातीतत्वेन कथं न ज्ञायसे । प्रत्युत ‘गुणयुक्तत्वेनैव ज्ञायसे’ इत्याक्षेपस्य ‘त्रिभिः’ इति श्लोके गुणातीतत्वानुपलम्भोपायाभावेन गुणमयत्वेन विपरीतोप-लम्भश्च देहत्वाद्यनुमानाभासेनेत्युक्तमित्यर्थः ।। अप्रकृतस्य कथमत्र ‘मोहिका’ इति परामर्श इत्यत आह– मोहितमितीति ।। विशेष्याकाङ्क्षायां गीतास्थं पदं स्वयमनूद्य तदर्थमाह – गुणमयीति ।। अनुमानं त्विति ।। देहत्वाद्यनुमानमित्यर्थः ।।

वाक्यार्थप्रदीपः (पां.टि.)– ननु मोहकर्त्र्याः पूर्वमनुक्तत्वात् ‘एषा’ इत्यनेन तत्परामर्शा-सम्भवात् कथं मोहिकेत्येतद्व्याख्यातमित्यत आह– मोहितमिति । योग्येति ।। कर्त्रर्थकण्वुल्-प्रत्ययसम्बन्धेनेत्यर्थः । तथा च ‘मुह वैचित्ये’ इत्यस्माद्धातोः ‘ण्वुल्तृचौ’ इति कर्तरि ण्वुलि तस्य ‘युवोरनाकौ’ इत्यकादेशे पुगन्तलघूपधस्य चेति लघूपधगुणे स्त्रीत्वविवक्षया टापि ‘प्रत्ययस्थात्कात् पूर्वस्य इदाप्यसुपः’इति इत्वे मोहिकेति रूपनिष्पत्तिरित्यर्थः ।।

भावरत्नकोशः

‘त्रिभिर्गुणमयैः’ इति श्लोकस्य निर्गलितमर्थं वदन्नेवोत्तरभाष्य-मवतारयति– उपायाभावेति ।। गुणातीततोपलम्भस्य मोहाभाव उपायः, तदभावः मोह एवोपाया-भावरूपः, उक्तानुमानाभासश्च सगुणत्वोपलम्भे उपायः । ताभ्याम् उपायाभावअनुमानाभासाभ्याम् अनुपलम्भ विपरीतोपलम्भौ भवत इति ‘त्रिभिः’ इति श्लोके उक्तमित्यर्थः । अतः प्रत्युपस्थित-चोद्यस्य परिहृतत्वात् ‘कथम्’ इत्याक्षेपभाष्यभावमाह– भगवानिति ।। इत्ययम् प्रत्ययः ।। सम्यक्प्र्रत्ययः गुणातीतत्वाध्यवसायः । ‘बहुतर’ इत्यत्र ‘अल्पाच्तरम्’ इत्यादाविव स्वार्थे तरप् । बहुबाधस्यान्याय्यत्वादिति भावः । ‘अनादिकालम्’ इत्यस्य भावं वक्तुं शङ्कते ननु चेति ।। अजातस्य बाधकप्रत्ययस्य । अयं ‘भगवान् पुण्यमयविग्रहः’ इत्ययम् ।

नन्वेतच्छब्दः समीपतरवर्तिपदार्थपरामर्शी । नच मोहिका समीपस्था, पूर्वमप्रसक्तत्वात् । तत्कथं भाष्ये ‘एषा’ इत्यनूद्य ‘मोहिका’ इति व्याख्यायत इत्यत आह– मोहितमितीति ।। पूर्वश्लोके हि ‘मोहितं नाभिजानाति’ इत्यत्र मुहधात्वर्थो मोहनम्, तन्मात्रम् ‘एषा’ इति परामृश्य कर्त्रर्थकण्वुल्प्रत्ययरूपार्थानुकूलप्रत्ययोत्पादनेन व्याख्यानाद् युक्तं तथा व्याख्यानमित्यर्थः । ‘मोहिका’ इत्यत्र विशेष्याकाङ्क्षापूरकं ‘माया’ इति पदम् । तत्र विशेषणं ‘गुणमयी’ इति । ‘मयट् तादात्म्यार्थः’ इति भाषितम् । तत्कथं मायाया गुणतादात्म्यमित्यतस्तद्धटयितुमाह– गुणमयी तदभिमानिनीति ।। तमोगुणाभिमानिनी । का सा माया । तदर्थः दुर्गा । यदर्थमेतद्विशेषणोपादानं तदाह माया हि तमोगुणेनेति । कथं माया मोहिकेत्याकाङ्क्षानिरासायैतद्विशेषणमिति भावः । तर्हि कथमनुमानाभासेन सगुणत्वमोह इत्युक्तमित्यत उक्तम्– अनुमानं त्विति । जीवप्रबोधस्य भगवद-साधारणकारणकत्वेऽपि तत्र यथा भेरीताडनादि निमित्तमात्रम्, तथा देहत्वाद्यनुमानं सगुणत्व-मोहनिमित्तमात्रमिति भावः ।

भावदीपिका

ननु भगवतो गुणातीतत्वमसत् । तथात्वेनानुपलम्भात्, सगुण-त्वादिना विपरीतोपलम्भाच्च इत्याशयेनाशङ्कितस्य ‘तर्हि कथमेवं न ज्ञायसे’ इत्यस्य एतावता प्रबन्धेन किमुत्तरं जातमित्यतः, तद्वदन्नेवोत्तरवाक्यम् अवतारयति– उपायाभावेत्यादिना ।। मोहातितरणलक्षणोपायाभावाद् गुणातीततयाऽनुपलम्भो युक्तः, देहत्वाद्यनुमानाभासेन विपरीतोप-लम्भश्चेत्यर्थः । ‘बहूनाम्’ इत्यस्याभिप्रायमाह– बहुतरज्ञानेति ।। गुणमयविग्रहत्वावगाहीत्यर्थः । कतिपयज्ञानानाम् गुणातीतविग्रहवत्त्वावगाहिनाम् । अनादिपदाभिप्रायमाह– उत्तरेति ।।

ननु ‘एषा’ इत्यस्य ‘मोहिका’ इति कथं व्याख्यानम् । मोहकर्त्र्याः पूर्वमनुक्तत्वेन ‘एषा’ इत्यनेन तत्परामर्शायोगादित्यत आह– मोहितमिति ।। ‘एषा’ इत्येनेन मोहकर्त्र्या न परामर्शः, येनोक्तदोषः स्यात् । किं नाम, ‘मोहितम्’ इत्यत्रत्यं मुह्धात्वर्थमात्रमेव ‘एषा’ इत्यनेन परामृश्य, तस्य योग्यो यः कर्त्रर्थण्वुल्प्रत्ययः, तत्सम्बन्धेन ‘मोहिका’ इति व्याख्यानमात्रं क्रियत इत्यर्थः । तथा हि ‘मुह वैचित्त्ये’ अस्माद्धातोः कर्तरि ण्वुल्प्रत्यये, ‘युवोरनाकौ’ इत्यकादेशे, लघूपधत्वात् ‘पुगन्तलघूपधस्य च’ इति गुणे, ‘मोह अक’ इति जाते, ‘प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः’ इति सूत्रेण ‘अक’ इत्यत्रस्थस्य पूर्वस्याकरस्य इकारादेशे ‘मोहिका’ इति रूपं द्रष्टव्यम् । नन्वत्र मायाया विपरीतोपलम्भरूपमोहकारणत्वमुच्यते । पूर्वं देहत्वाद्यनुमानस्य मोहकारणत्वमुक्तम्, अतो विरोध इत्यत आह– अनुमानं त्विति ।। मुख्यतो मोहजनिका मायैवेत्याशयः ।

भावप्रकाशः

ननु सगुणत्वमोहे गीतायां कारणमुक्तं न तु गुणातीतत्वानुपलम्भ इत्याशङ्कां परिहरन्नाह– उपायाभावेति ।। अग्र उपयस्य वक्ष्यमाणत्वादत्रेदं लभ्यत इति भावः । ननु कथमित्यादिर्न प्रश्नः । अनादिकाले बहूनामिति विशेषणवैयर्थ्यादित्याङ्क्याक्षेपपरतया व्याचष्टे– भगवानिति ।। इत्युक्तमिति । ज्ञानिव्यावर्तकेदम्पदनोक्तप्रायमित्यर्थः ।

ननु समीपतरवर्ति चैतदो रूपमित्युक्तेरेतदः समीपस्थपरामर्शकत्वात् मोहिकायाश्चासामीप्यात् मोहिकेति कथं व्याख्यातमित्यत आह– मोहितमिति ।। योग्यप्रत्ययेति ।। कर्त्रर्थकण्वुल्प्रत्यय-सम्बन्धेनेत्यर्थः । तथा च विपूर्वान् ‘मुह वैचित्ये’ इत्यस्माद्धातोः कर्तरि ण्वुलि ‘युवोरनाका’ वित्यकादेशे लघूपधगुणे टापि ‘प्रत्ययस्थात्’ इतीत्वे च विमोहिकेति रूपनिष्पत्तिरिति भावः ।।

नन्वत्र मायाशब्देन दुर्गाऽभिप्रेता । तस्या ‘गुणमयी’ इत्युक्तं गुणतादात्म्यं कथमित्यतः तदनूद्य व्याचष्टे– गुणमयी तदभिमानिनीति ।। किमर्थमेतद्विशेषणमित्यत आह– या हीति ।। कथं मोहिकेति जिज्ञासानिवृत्त्यर्थमेतदिति भावः । तर्ह्यनुमानं मोहहेतुरिति प्रागुक्तविरोध इत्यत आह– अनुमानं त्विति ।।

Load More