ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।। ११ ।।
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।। ११ ।।
भाष्यम्
न च मद्भजनमात्रेण मुक्तिर्भवत्यन्यदेवतादिरूपेण । तथाऽपि सर्वेषामानुरूप्येण फलं ददामीत्याह– ये यथेति ।। भजामि सेवयामि फलदानेन। नतु गुणभावेन ।।
भावप्रदीपिका
ननु यदि त्वद्भजनेन मुक्तिः, तर्हि देवतान्तरमिष्ट्वा त्वदर्पणे-नापि भवति फलान्तर-मित्याकाङ्क्षोत्तरत्वेनोत्तरं श्लोकमवतारयति– नचेति ।।। ‘भजामि’ इति पदमन्यथा-प्रतीतिनिरासाय व्याचष्टे– सेवयामीति ।।
भावप्रकाशिका
येषामेतादृशज्ञानं नास्ति, किन्तु सामान्यतः सर्वदेवोत्तमो विष्णुरिति ज्ञात्वा, अन्यदेवानपीष्ट्वा, अन्ते विष्णौ समर्पयन्ति तेषां का गतिः ? इत्या-काङ्क्षोत्तरत्वेन उत्तरश्लोकार्धमवतार्य व्याचष्टे– नचेति ।। एवंविधाधिकारिभिरन्यदेवताद्युद्दिष्ट-मपि हविर्भगवान् भुङ्क्त इत्येतदेवान्यदेवतादिरूपेण तद्भजनम् । नच सेवकस्य गुणभावदर्शना-दस्यापि स स्यादित्याशङ्कनीयम् । सर्वप्रमाणविरोधात् इति भावेनाह– सेवयामीति ।
प्रमेयदीपिका
‘ये यथा’ इति वाक्यं न प्रकृतेन साक्षात् सङ्गतम् । अतस्त-त्सङ्गमयितुं मध्ये शङ्कान्तरं निराकरोति– नचेति ।। ‘मामुपाश्रिताः’‘मद्भावमागताः’ इत्युक्त्याऽन्यदेवतादिरूपेण मद्भजनमात्रेण त्रैविद्यानामपि मुक्तिर्भवतीति नाऽशङ्कनीयमित्यर्थः । विष्णुं सामान्यतः सर्वोत्तमं ज्ञात्वाऽन्यदेवताः पितॄंश्चेष्ट्वाऽन्ते विष्णौ समर्पणम् अन्यदेवतादि-रूपेण भगवद्भजनम्। उपपत्तिं तूत्तरत्र वक्ष्यामीति भगवतोऽभिप्रायः ।।
तत्किं त्रैविद्यानां त्वद्भजनं निरर्थकमेव? इत्यत आह– तथाऽपीति ।। यद्यपि न मुक्तिं ददामि । तथाऽपि ‘तदभिप्रेतं स्वर्गादिकं ददामि’ इति शेषः । एवं तर्हि ज्ञानिभ्यो मुक्तिं, त्रैविद्येभ्योऽल्पं फलं ददद्विषमो भगवान् स्यादित्याशङ्कानिरासार्थत्वेनोत्तरवाक्यं सङ्गमयन् आह– सर्वेषामिति ।। आनुरूप्येण सेवानुसारेण । सर्वेषां ज्ञानिनां त्रैविद्यानां चेति चतुर्थ्यर्थे षष्ठी । ‘तथैव भजामि’ इत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे– सेवयामीति ।। ‘बहुलमेत-न्निदर्शनम्’(‘हनस्तो’.पा.सू.७.३.३२.उदा.गणसूत्रम्.२०८) इति वचनात् स्वार्थे णिच् ।।
भावबोधः
।। उत्तरत्रेति ।। ‘येऽप्यन्यदेवताभक्ता’ इति हि वक्ष्यतीत्यत्रेत्यर्थः । भगवतः भाष्यकारस्य ।
भावदीपः
।। उपपत्तिं तूत्तरत्र वक्ष्यामीति ।। त्रैविद्यानां मुक्तिर्नेत्यत्र ‘त्रैविद्या मां सोमपाः’(९.२०) ‘येेऽप्यन्यदेवताभक्ताः’ इत्यादौ च नवमे सम्यग् भगवज्ज्ञानाभाव-स्वर्गादिप्रार्थनाविधिपूर्वकयजनाद्युपपत्तिं वक्ष्यामीत्यर्थः ।। ‘चातुर्वर्ण्यम्’ (४.१३) इत्यत्र टीकोक्तदिशा वेति ज्ञेयम् ।।
चतुर्थ्यर्थे षष्ठीति ।। ‘ददाति’ इति दानक्रियायोगे सम्प्रदानत्वप्राप्त्या ‘सर्वेभ्यः’ इति भाव्यमित्यतो व्यत्ययेन तदर्थ एव षष्ठीत्यर्थः । ‘सेवे’ इति वक्तव्ये ‘सेवायाम्’ इति कथं प्रयोगः? इत्यत आह – बहुलमिति ।। ‘सत्याप,पाश,रूप,वीणा,तूल,श्लोक, सेना, लोम, त्वच, वर्म, वर्ण, चूर्ण, चुरादिभ्यो णिच्’ इति स्वार्थिक णिज्विधायकसूत्रस्थ चुरादिगणपाठे ‘चुरादि’ इत्यत्र आदिपदोक्तधातूनां प्रदर्शनं बहुलं ज्ञेयम् । अन्येऽपि धातवः प्रयोगवशाद् ध्येयाः’ इत्युक्तवचनादित्यर्थः । तथाच ‘णिचश्च’ इति सूत्रेण णिजन्तस्य कर्त्रभिप्राय एव क्रियाफले आत्मनेपदविधानात् परस्मैपदं च साध्विति भावः ।।
वाक्यार्थप्रदीपः
ननु ‘कर्मणा यमभिप्रैति स सम्प्रदान’मिति दानकर्मणा अभिप्रेतत्वेन सम्प्रदानत्वात् सर्वेभ्य इति चतुर्थ्या भवितव्यम् । सर्वेषामिति षष्ठी तु कथमित्यत आह– चतुर्थ्यर्थ इति ।। ‘चतुर्थ्यर्थे बहुलं छन्दसि’ इति सूत्रे चतुर्थीषष्ट्यौ परस्परार्थे भवत इत्यभिधानात् चतुर्थ्यर्थे षष्ठीत्यर्थः । ननु फलदानादिना सेवाकर्तृत्वस्यैव वक्तव्यत्वात् तांस्तथैव सेव इत्येव वक्तव्यम् । सेवयामीति सेवाकारयितृत्वोक्तिरयुक्तेत्यत आह– बहुलमेतदिति ।। यद्यपि (चुरादीत्यत्रादिपदोक्तधातूनां )एतत् चुरादावुदन्तधातुनिदर्शनं बहुलं वेदितव्यम् । अतः अनुक्ता अपीह धातवो वेदितव्या इति व्याख्यातम् । तथाप्येतन्नवगणिपठितेभ्योऽपि क्वचित्स्वार्थे णिच् । रामो राज्यमचीकरदिति यथेति । चुरादिभ्य एव बहुलं णिजिति परकीयमेतद्व्याख्यानमनुसृत्य एतदुदाहरणमिति द्रष्टव्यम् ।।
भावरत्नकोशः
।। प्रकृतेन उक्तज्ञानेन मोक्षोऽस्तीति पूर्वश्लोकप्रकृतार्थेन । शङ्काबीजमाह– मामुपाश्रिता इति ।। त्रैविद्यानामिति ।। तिस्रो विद्या ऋग्यजुस्सामलक्षणाः येषां ते त्रिविद्याः त एव त्रैविद्याः । प्रज्ञादित्वात् स्वार्थेऽण् । यद्वा त्रिविधा विद्यास्त्रिविद्याः । ता अधीयते विदन्ति वेति ‘तदधीते तद्वेद’ इत्यण्प्रत्यये त्रैविद्याः, तेषां वेदत्रयापातार्थविदामित्यर्थः । भगवद्भजनस्य कथमन्यदेवताभजनरूपत्वमिति शङ्कां भाष्यभावोक्तिव्याजेनापनुदन् ऋगादि-वेदवेदिनां कथं न मुक्तिः ? इति चोद्यं च त्रैविद्यस्वरूपविवरणेन परिहरति– विष्णुमिति ।। देवपित्रादिषु स्थित्वा यज्ञभोक्ता सर्वकर्मकर्ता च विष्णुरेवेत्यनुसन्धानव्यावृत्तये ‘सामान्यतः’ इत्युक्तम् । नाशङ्कनीयमिति ।। साध्यसाधने को हेतुरित्यत आह– उपपत्तिमिति ।। त्रैविद्या-नामन्यदेवतायाजित्वात्, अतिशयितभक्तिज्ञानाभावात्, कामनावत्त्वात्, सर्वदा मत्स्मरण-मदुद्देशादियोगाभावात्, अविधिपूर्वकं यष्टृत्वाच्चेत्युपपत्तिं नवमे ‘त्रैविद्या मां सोमपा’ (९.२०) इत्यादिना वक्ष्यामीति भगवतो गीताचार्यस्याभिप्राय इत्यर्थः । यद्वा यस्मादहमेव चातुर्वर्ण्यस्य कर्ता, त्रैविद्याश्च तदन्तर्भूताः, तस्मात् स्वपितरं मां परित्यज्य अन्यदेवता यजन्तः कथं महाफलभाजो भवेयुरित्युपपत्तिम् उत्तरत्र ‘चातुर्वर्ण्यं मया’ इति श्लोके वक्ष्यामीत्यर्थः ।
केचित्तु उत्तरत्र ‘ये यथा माम्’ इत्यत्र उपपत्तिं सेवावैलक्षण्यरूपामित्यर्थ इत्याहुः ।। मैवम् । ‘ये यथा’ इति श्लोकावतार एव मध्ये भाष्यकारेण शङ्कनाद् भाष्यकारस्यैवेयं शङ्का, न गीता-कारस्येति तु चोद्यमात्रम् । ‘उपपत्तिं वक्ष्यामि’ इति टीकायामाशङ्कायाः कृष्णाभिप्रेतत्व-विभावनादिति अपरे ।
स्वर्गादिकमिति ।। तेन ‘त्वद्भजनं निरर्थकमेव किमिति चोद्यं समाहितम् । आनुरूप्यं सप्रतियोगिकमित्यतस्तद्दर्शयन् तदर्थमाह– सेवाऽनुसारेणेति ।। ‘सर्वेषाम्’ इत्यनुवादः ‘ज्ञानिनाम्’ इति व्याख्या । ‘ददामि’ इति दानक्रियायोगात् ‘कर्मणा यमभिप्रैति स सम्प्रदानम्’ इति सम्प्रदानत्वे, सम्प्रदाने चतुर्थीविभक्तौ ‘सर्वेभ्यः’ इति स्यादित्यत आह– चतुर्थ्यर्थे षष्ठीति ।। ‘चतुर्थ्यर्थे बहुलं छन्दसि’ इति सूत्रादिति भावः । अन्यथाप्रतीतीति ।। ‘राजानं भृत्य इव तानहं सेवे’ इत्यन्यथाप्रतीतीत्यर्थः ।
ननु ‘सेवयामि’ इत्यस्य हेतुमण्णिजन्तत्वेन ‘भजामि’ इत्येतदर्थत्वानुपत्तिः । स्वार्थे णिजन्तत्वे न शास्त्रमित्यत आह– बहुलमिति ।। ‘सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्णचूर्ण-चुरादिभ्यो णिच्’ इति स्वार्थे णिज्विधायकसूत्रे चुरादिधातुगणपाठे ‘बहुलमेतन्निदर्शनम् । एतत् चुरादीत्यत्रादिपदोक्तधातूनां प्रदर्शनं बहुलं ज्ञेयम् । एवमन्येऽपि धातवः प्रयोगवशात् स्वार्थणिजन्ता वेदितव्या’ इति वचनादत्र स्वार्थेणिचि ‘णिचश्च’ इति कर्त्रभिप्राय एव क्रियाफले आत्मनेपद-विधानाद्, अत्र सेवाफलस्य स्वात्मगामित्वाद् ‘भजामि’ इत्यस्य ‘सेवयामि’ इति परस्मैपदिना युक्तं व्याख्यानमिति भावः । यद्वा आधुनिकनवगणिपठितेभ्योऽपि क्वचित्स्वार्थे णिच् ‘रामो राज्यमचीकरत्’ इति । तथाऽनन्तधातुदर्शनं तु बहुलमित्यर्थ इति बहुलमेतदित्यन्तगणसूत्रं व्याख्याय ‘श्वेताश्वाश्वतरगालोडित•ह्वरकाणामश्वतरइतकलोपश्च’ इत्यत्र ‘णिङ् अङ्गात् निरसने’ इत्यतो णिङ्’ इति नानुवर्तयन्ति । किन्तु णिचमेवानुवर्तयन्ति । तेन परस्मैपदमपि तन्मते भवति । श्वेतयति अश्वयतीति व्याकुर्वन् । तथा चात्रापि भौवादिकस्य ‘सेवृ सेवने’ इत्यस्य णिचि उक्तरीत्या परस्मैपदं चोपपद्यत इति ‘सेवयामि’ इति भाष्यप्रयोगो युक्त इति भावः ।।
भावदीपिका
अभेदेन भजनप्रतीतिनिरासायान्यदेवतादिरूपेण भगवद्भजनं विवृणोति– विष्णुमिति ।। सामान्यतः राजादिसाधारण्येन । अन्यदेवतादिरूपेण मद्भजनमात्रेण मुक्तिर्न भवतीत्युक्तम् । कुतो न भवतीत्याशङ्कायामाह– उपपत्तिमिति ।। ‘चातुर्वर्ण्यं मया सृष्टम्’ इत्यत्र तस्मात् स्वपितरं मां परित्यज्यान्यदेवताः यजन्तः कथं महाफलभाजो भवेयुरित्युपपत्तिं वक्ष्यामीति भगवतः कृष्णस्याभिप्राय इत्यर्थः । केचित्तु ‘येऽप्यन्यदेवताभक्ता इति हि वक्ष्यति’ इत्यनेनोपपत्तिं तूत्तरत्र वक्ष्यामीति भगवतो भाष्यकारस्याभिप्राय इत्यर्थ इत्यप्याहुः । सामान्यतो विष्णुं सर्वोत्तमं ज्ञात्वाऽन्यदेवादीन् इष्ट्वा, अन्ते विष्णौ समर्पयन्तस्त्रैविद्याः । तेषां ददद्भगवान् विषमः स्यादित्यन्वयः ।
ननु ‘कर्मणा यमभिप्रैति स सम्प्रदानम्’ इति सूत्रेण दानकर्मणा सर्वेषाम् अभिप्रेतत्वात् तत्र सम्प्रदानसञ्ज्ञायां ‘सम्प्रदाने चतुर्थी’ इति चतुर्थ्या भाव्यम् । तथा च ‘सर्वेभ्य’ इति स्यादित्यत आह– चतुर्थ्यर्थ इति ।। ननु ‘षेवृ सेवन’इत्यस्य धातोः सत्यापपाशादिषु, चुरादिषु चाभावात् कथं ‘सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्णचूर्णचुरादिभ्यो णिच्’ इत्यनेन स्वार्थे णिजित्यत आह– बहुलमेतदिति ।। सत्यापपाशादिभ्यश्च यत् स्वार्थे णिच्प्रत्ययप्रदर्शनं तद् बहुलप्रयोगमनु-
सृत्योक्तम् । प्रयोगानुसारेणैतदन्यत्रापि द्रष्टव्यमित्यर्थः ।।
भावप्रकाशः
।। त्रैविद्यानामिति ।। त्रिविधा विद्या त्रिविद्या, तामधीयते विदन्ति वा त्रैविद्याः, ‘तदधीते तद्वेद’ इत्यण् । ‘उक्थादित्वेऽप्यङ्गक्षत्रधर्मत्रिपूर्वाद्विद्यान्तान्न’ इति ठको निषेधात् । तेषां वेदत्रयापातार्थविदामित्यर्थः । ननु भजनं नाम माहात्म्यज्ञानपूर्वः स्नेहः । तथान्यदेवतादिरूपेणेत्यस्य तदैक्यानुसन्धानेत्यर्थोक्तौ परस्परव्याघात इत्यत आह– विष्णुमिति ।। देवपित्रादिषु भोक्ता सर्वकर्मकर्ता च विष्णुरेवेत्यनुसन्धानव्यावृत्त्यै– सामान्यत इत्युक्तम् ।। उत्तरत्रेति ।। चातुर्वर्ण्यं मया सृष्टमित्यत्र । तस्मात् स्वपितरं मां परित्यज्यान्यदेवता यजन्तः कथं महाफलभाजो भवेयुरित्युपपत्तिं वक्ष्यामीति भगवतः कृष्णस्याभिप्राय इत्यर्थः । यद्वा सेवावैलक्षण्य-रूपामुपपत्तिं ये यथेत्युत्तरत्र वक्ष्यामीति भगवतोऽभिप्राय इत्यर्थः । न मुक्तिं ददामीति ।। न चात्र ‘विज्ञानेनात्मयोग्येन निजरूपे व्यवस्थिति’रिति नित्योपलब्धिसूत्रभाष्यविरोधः । तत्र नित्य-संसारिणां मिश्रज्ञानेन स्वरूपाविर्भावस्य स्फुटप्रतीतेः स्वरूपाविर्भावस्यैव च मुक्तित्वादिति वाच्यम् । रूपमनुरूपं योग्यमित्येवं निजरूपपदेन अस्य स्वयोग्यफलस्य विवक्षितत्वात् ।
‘सामान्यैः ये त्वविज्ञेया विशेषा मम गोचराः ।
देवादीनां तु तज्ज्ञानं विज्ञानमिति कीर्तित’मिति
प्रमाणबलेन विज्ञानपदस्य विशेषज्ञानार्थत्वात् नित्यसंसारिणां च सुखदुःखात्मकसंसारफलस्य मिश्रज्ञानजन्यत्वात् । यथोक्तम् । ‘मानुषामिश्रमतयो विमिश्रगतयोऽपि च’ इति । सुधायां च ‘सुखदुःखात्मकसंसारफलाः’ इति व्याख्यातम् । यदि च तेषां स्वरूपाविर्भाव एव तदा वक्तव्यम् । स मुक्तिपदवाच्यो न वा । नाद्यः ।
‘चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च ।
संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा ।
मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथापरम् ।
नित्यदुःखमिति ज्ञेयम् .............’
इत्याद्यनुव्याख्याने मुक्तिद्वित्वोक्तिविरोधात् । न च द्वित्वोक्तिरुपलक्षणम् । मुक्तेः पृथक्त्वेन संसारोक्त्ययोगात् । नान्त्यः । ‘मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः ’ इत्युक्तमुक्ति-लक्षणस्यातिव्याप्तिप्रसङ्गात् ।
किञ्च तेषां स्वरूपाविर्भावपक्षे ‘मध्यमा मानुषा ये तु सृतियोग्याः सदैव हि । ‘त्रिदिव-निरयभूगोचरान् नित्यबद्धान््’ इत्यादिविरोधः । नच सुखदुःखानुभोगो बन्धादिशब्दार्थः । स च लिङ्गभङ्गात् प्राग्वैषम्येण पश्चात्तु साम्येनेति न विरोध इति वाच्यम् । भूतबन्धो हि बन्धः । ‘भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्’ इति भाष्य-तद्गृृहीतस्मृतिविरोधात् । शास्त्रे शास्त्रीयार्थस्यैव ग्राह्यत्वात् ।
एतेन मध्यममानुषाणां नित्यमानन्दादीनामुपलब्धिः दुःखाद्युपब्धिश्च समैव स्यादिति तत्त्व-प्रकाशिकाविरोधोऽप्यपहस्तितः । तस्या आवरणसद्भाव एव तात्पर्यात् । ‘अतोऽस्त्येवावरणम्’ इत्युपसंहारात् । मध्यमानामप्यावरणनिवृत्तौ तात्पर्ये तु ‘भगवत्प्रसादेन तन्निवृत्तिश्च’ इत्युत्तरवाक्य-विरोधात् । मध्यमानां भगवत्प्रसादाभावादिति दिक् ।।
ननु ददामीति दानक्रियायोगात् सर्वेभ्य इति चतुर्थ्या भाव्यम् । ‘कर्मणा यमभिप्रैति स सम्प्रदान’मिति सम्प्रदानत्वे सति ‘चतुर्थी सम्प्रदाने’ इति चतुर्थीस्मरणादित्यत आह– चतुर्थ्यर्थ इति ।। चतुर्थ्यर्थे बहुलं च्छन्दसीति सूत्रादिति भावः । बहुलमेतदिति ।। चुरादिभ्यः स्वार्थे णिच्प्रदर्शनं बहुलं स्यात् । नवगणिपठितेभ्योऽपि धातुभ्यः क्वचित् स्यादित्यर्थः । ज्ञानिनामपीश्वर-परिवारत्वादिना अन्यदेवतायाजित्वात् तन्निरासायाह– त्रैविद्या इति यावदिति ।।